श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे नवमः सर्गः
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् ।
हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ।। 3.9.1 ।।
अथ सीता वीरपत्नीत्वेन धनुर्मुष्टिग्रहणविशेषेण सायुधतया सन्नद्धं पतिमालोक्य यदि त्वं सायुधो राक्षसभूयिष्ठे देशे प्रविष्टः स्याः तर्हि तैः साकं विरोधः स्यात्, तेनावयोर्विश्लेषः स्यात्, तेन भवतो महान् क्लेशः स्यात् अतो निधायायुधं वने ऽस्माभिर्गन्तव्यमित्याह नवमे सुतीक्ष्णेनेत्यादि । अभ्यनुज्ञातम् अरिष्टं गच्छ पन्थानमिति रावणवधाभिप्रायेणानुज्ञातम् । हृद्यया युक्तियुक्तत्वेन हृदयङ्गमया । स्निग्धया स्त्रिहप्रवृत्तया । अनेन वक्ष्यमाणवचने स्नेह एव मूलमित्युक्तम् । रामेण ऋषिभ्यः प्रतिज्ञाकरणं रामप्रतिज्ञायाः दुरावरत्वं च बहुशो दृष्टवत्यपि राक्षसैर्वैरे भर्तुः स्वविरहद्वारा महान् क्लेशो भवेदिति प्रेमान्धतया तथोक्तवतीति भावः ।। 3.9.1 ।।
अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान् ।
निवृत्तेन तु शक्यो ऽयं व्यसनात् कामजादिह ।। 3.9.2 ।।
किं तदुक्तं तत्राह अयं धर्म इति । महानयं धर्मः त्वयानुष्ठीयमानो मुनिधर्मः । सुसूक्ष्मेण विधिना मार्गेण विचारेण प्राप्यते, धर्मकामैरिति शेषः । सूक्ष्मविधिमेवाह निवृत्तेनेति । इह वने । कामजात् इच्छाकृताद्व्यसनान्निवृत्तेन पुरुषेणायं धर्मः शक्यः सम्पाद्यः । व्यसनमिति जात्येकवचनम् ।। 3.9.2 ।।
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत ।
मिथ्यावाक्यं परमकं तस्माद् गुरुतरावुभौ ।
परदाराभिगमनं विना वैरं च रौद्रता ।। 3.9.3 ।।
किं तद्व्यसनं तत्राह त्रीण्येवेति । अत्र लोके । उत अत्यर्थम् । कामजानि रागकृतानि त्रीण्येव व्यसनानि भवन्ति । कानि तानि त्रीणीत्यत्राह मिथ्यावाक्यमित्यादि । मिथ्यावाक्यं परमकं प्रथममित्यर्थः, सर्वेभ्यो व्यसनेभ्यः श्रेष्ठमित्यर्थः । स्वार्थे कः । तस्मादपि व्यासनात् गुरुतरावुभौ व्यसनविशेषौ । तावाह परदारेत्यादिना । परादाराभिगमनं परदाराभिमर्शनम्, वैरं विना रौद्रता हिंसकता चेति ।। 3.9.3 ।।
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ।
कुतो ऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम् ।। 3.9.4 ।।
एवं सामान्येन व्यसनरूपमुक्त्वा प्रकृते परिहार्यत्वेन वक्तव्यं व्यसनं दर्शयितुमितपरिशेषमाह मिथ्येत्यादिना । अत्र भूतभविष्यतोर्वर्तमानस्यान्तर्भावः । कुत इति परेषां सम्बन्धिनीनां स्त्रीणां धर्मनाशनमधर्मकरं च अभिलाषणमभिलाषः कुतः, असम्भावित इत्यर्थः । धर्मनाशनशब्देन गुरुतरशब्दोक्तातिशयो दर्शिताः । मिथ्यावाक्यमधर्मकरम् इदमुभयकरमिति भावः ।। 3.9.4 ।।
तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन ।
मनस्यपि तथा राम न चैतद्विद्यते क्वचित् ।। 3.9.5 ।।
कुत इत्यादिना परदाराभिलाष एव नास्ति कुतस्तदभिगमनमित्युक्तम् । कालत्रयेपि तदभाव इति विशेषयति तवेति । मनुष्येन्देति हेतुगर्भं सम्बोधनम् । तव परदाराभिलाषणमिदानीं नास्ति कदाचन ते तन्नाभूत् । हे राम एतत् अभिलाषणं ते क्वचित्सुन्दरेष्वपि परदारेषु मनसा सङ्कल्पेनापि न विद्यते । अनेन भविष्यत्काले ऽपि नास्तीत्युक्तम् । तथेति समुच्चये । चोवधारणे ।। 3.9.5 ।।
स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज ।
धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः ।। 3.9.6 ।।
उक्तव्यसनद्वयाभावे बहून् हेतून् दर्शयति स्वदारेत्यादिना । हे नृपात्मज त्वं नित्यमेव स्वदारनिरतः धर्मिष्ठश्च, अत एव सत्यसन्धः सत्यप्रतिज्ञः । तत्र निदर्शनं पितुर्निर्देशकारकः ।। 3.9.6 ।।
सत्यसन्ध महाभाग श्रीमँल्लक्ष्णपूर्वज ।
त्वयि सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ।। 3.9.7 ।।
उक्तानुवादपूर्वकं भर्तारं स्तौति सत्यसन्धेति । महाभाग महाधर्मन् श्रीमन् निरवधिकैश्वर्य लक्ष्मणपूर्वज वैराग्ये लक्ष्मणादप्यधिक त्वयि सत्यं प्रतिष्ठितम् । धर्मश्च प्रतिष्ठितः अन्यत्सर्वमैश्वर्यवैराग्यादिकं च त्वयि प्रतिष्ठितं सुस्थिरम् ।। 3.9.7 ।।
तच्च सर्वं महाबाहो शक्यं धर्तुं जितेन्द्रियैः ।
तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ।। 3.9.8 ।।
तृतीयव्यसनसद्भावं वक्तुमुक्तव्यसनद्वयाभावं स्वानुभवसिद्धत्वेन द्रढयति तच्चेति । हे महाबाहो जितेन्द्रियैः धर्तुं शक्यं तत्पूर्वोक्तं धर्मिष्ठत्वादिकं सर्वं तव वश्येन्द्रियत्वं च जानामि । शुभदर्शन तत्सद्भावे तव दर्शनमेव प्रमाणम् “रूपमेवास्यैतन्महिमानं व्याचष्टे” इति श्रुतेः ।। 3.9.8 ।।
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् ।
निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् ।। 3.9.9 ।।
एवं व्यसनद्वयरहितेन त्वया तृतीयव्यसनमपि कथञ्चित्परिहर्तव्यमित्याशयेनाह तृतीयमिति । नेर्वैरं यथा भवति तथा परप्राणाभिहिंसनरूपं यदिदं रौद्रं रौद्राख्यम् तृतीयं महद्व्यसनं पामरैः क्रियते । तच्च तत्तु ते समुपस्थितम्, त्वया कर्तुमुद्युक्तमित्यर्थः ।। 3.9.9 ।।
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ।
ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम् ।। 3.9.10 ।।
कथमुद्युक्तमित्यत्राह प्रतिज्ञात इति ।। 3.9.10 ।।
एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ।
प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ।। 3.9.11 ।।
न केवलमृष्यभ्यर्थनया प्रतिज्ञातं प्रथमसङ्कल्पश्च तव तथैवेत्याह एतन्निमित्तमिति । दण्डका इति विश्रुतं वनं प्रति त्वं भ्रात्रा सह धृतबाणशरासनः सन् प्रस्थितः । ‘केवलेनात्मकार्येण’ इत्यादिना भवतैवोक्तत्वादिति भावः ।। 3.9.11 ।।
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः ।
त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ।। 3.9.12 ।।
ततः किमित्यत्राह ततस्त्वामिति । प्रस्थितं त्वां दृष्ट्वा त्वद्धृतं सत्यप्रतिज्ञत्वस्वदारैकनिरतत्वादिकं च दृष्ट्वा । त्वन्निःश्रेयसं तव सौख्यं हितं तत्साधनं च चिन्तयन्त्या मम मनश्चिन्ताकुलं भवेद्वै भवति हि । भवान् सत्यप्रतिज्ञत्वेन रक्षोवधान्न निवर्तेत निर्वैरं परहिंसनं च न करोषि, यस्य कस्यचिद्वैरमूलस्य करणे तदहमेव स्याम्, मद्विरहं च त्वमेकदारव्रतनिरतः न सोढुमर्हति अतः कथमिदं सम्पत्स्यत इति भावः ।। 3.9.12 ।।
नहि मे रोचते वीर गमनं दण्डकान्प्रति ।
कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ।। 3.9.13 ।।
तर्हि क उपायस्ते प्रतिभातीत्यपेक्षायां रामपक्षस्यैव स्वपक्षत्वात्तत्पक्षं स्थूणादिखननन्यायेन द्रढयितुं पक्षान्तरमाह नहीति । मम मत्तः ।। 3.9.13 ।।
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः ।
दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याश्शरव्ययम् ।। 3.9.14 ।।
शरव्ययं शरमोक्षम् । कच्चिदिति कामप्रवेदने ।। 3.9.14 ।।
क्षत्ित्रयाणां च हि धनुर्हुताशस्येन्धनानि च ।
समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ।। 3.9.15 ।।
तर्हि शरव्ययं न करोमीत्यत्राह क्षत्ित्रयाणामिति । क्षत्ित्रयाणां समीपतः स्थितं धनुः तेजोरूपं बलं भृशम् । उच्छ्रयते वर्धयति । हुताशस्य समीपस्थितानीन्धनानि च तेजोबलमुच्छ्रयन्ते । दृष्टान्तालङ्कारः ।। 3.9.15 ।।
पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः ।
कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे ।। 3.9.16 ।।
तस्यैव तपसो विध्नं कर्तुमिन्द्रश्शचीपतिः ।
खङ्गपाणिरथागच्छदाश्रमं भटरूपधृत् ।। 3.9.17 ।।
उक्तार्थे एतिह्यमाह पुरेत्यादि । रतमृगद्विजे सन्तुष्टमृगपक्षिके । तपस्वी कश्चिदभवदित्यन्वयः ।। 3.9.16,17 ।।
तस्मिंस्तदाश्रमपदे निशितः खङ्ग उत्तमः ।
स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ।। 3.9.18 ।।
स इति खङ्गविशेषणम् । न्यासविधिना न्यासप्रकारेण । “राजचोरादिकभयाद्दायादानां च वञ्चनात् । स्थाप्यते ऽन्यगृहे द्रव्यं न्यासः स परिकीर्तितः ।।” इत्युक्तो न्यासः। तिष्ठतः तस्येति शेषः। चतुर्थ्यर्थे षष्ठी ।। 3.9.18 ।।
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः ।
वने तं विचरत्येव रक्षन् प्रत्ययमात्मनः ।। 3.9.19 ।।
आत्मनः प्रत्ययं विश्वासस्थापितं वस्तु । ” प्रत्ययोधीनशपथज्ञानविश्वासहेतुषु ।।” इत्यमरः। रक्षन्नेव विचरति व्यचरत् ।। 3.9.19 ।।
यत्र गच्छत्युपादातुं मूलानि च फलानि च ।
न विना याति तं खङ्गं न्यासरक्षणतत्परः ।। 3.9.20 ।।
एतदेवोपपादयति यत्रेति ।। 3.9.20 ।।
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः ।
चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ।। 3.9.21 ।।
परिवहन् रक्षन् । रौद्रीं हिंसापराम् । स्वां शस्त्रधार्यसाधारणाम् ।। 3.9.21 ।।
ततः स रौद्रे ऽभिरतः प्रमत्तो ऽधर्मकर्शितः ।
तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ।। 3.9.22 ।।
रौद्रे हिंसारूपकर्मणि । अधर्मेण कर्शितः पीडितः । संवासात्सम्पर्कात् ।। 3.9.22 ।।
एवमेतत्पुरा वृत्तं शस्त्रसंयोगकारणम् ।। 3.9.23 ।।
शस्त्रसंयोगकारणं पुरावृत्तम्, उक्तमिति शेषः ।। 3.9.23 ।।
अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते ।
स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये ।। 3.9.24 ।।
पुरावृत्तफलितमर्थमाह अग्नीति । अग्निसंयोगो यथा वस्तुनो विकारहेतुः एवं शस्त्रसंयोगो ऽपि शस्त्रिणो विकारहेतुर्भवति । स्नेहात् त्वद्विषयस्नेहात् । बहु मानात् मद्विषये त्वत्कृतबहुमानात् । स्मारये भविद्विज्ञातार्थमेव स्मारयामि । न शिक्षये नापूर्वमर्थमुपदिशामि ।। 3.9.24 ।।
न कथञ्चन सा कार्या गृहीतधनुषा त्वया ।
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् ।
अपराधं विना हन्तुं लोकान् वीर न कामये ।। 3.9.25 ।।
गृहीतधनुषा त्वया वैरं विना राक्षसान् हन्तुं सा रौद्री बुद्धिः । कथञ्चन केनापि प्रकरेण । न कार्या न कर्तुं योग्या, त्वत्प्रकृत्यननुगुणत्वादिति भावः । इयं बुद्धिर्मत्प्रकृतेरप्यननुगुणेत्याह अपराधमिति । लोकान् प्राणिनः ।। 3.9.25 ।।
क्षत्ित्रयाणां तु वीराणां वनेषु निरतात्मनाम् ।
धनुषा कार्यमेतावदार्तानामभिरक्षणम् ।। 3.9.26 ।।
यद्येवं तर्हि क्षत्रियधर्मो धनुर्धारणे निरवकाशं स्यादित्याशङ्क्याह क्षत्ित्रयाणां त्विति । वीराणां क्षत्ित्रयाणां धनुषा कार्यं कर्तव्यम् । वनेषु निरतात्मनाम् आर्तानां पीडितानां रक्षणं बाधकोत्सारणमित्येतावदेव । तुरवधारणे ।। 3.9.26 ।।
क्व च शस्त्रं क्व च वनं क्व च क्षात्त्रं तपः क्व च ।
व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ।। 3.9.27 ।।
ननु रक्षणार्थं वा धनुर्धार्यमेवेत्याशङ्क्य तदपि नेदानीमुचितम् । किन्तु राज्यपालनकाल इत्याह क्व चेत्यादिना । क्षात्त्रं क्षत्त्रधर्मः । किंशब्दाभ्यां गम्यमानमर्थमाह व्याविद्धमिदमिति । शस्त्रवने क्षात्त्रतपसी च परस्परविरुद्धमिदमस्माभिर्न पूज्यताम्, किन्तु देशधर्मस्तपोवनधर्मः पूज्यताम् । क्षात्त्रशस्त्रे विहाय वनवासतपश्चरणे एव क्रियतामित्यर्थः ।। 3.9.27 ।।
तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात् ।
पुनर्गत्वा त्वयोध्यायां क्षत्त्रधर्मं चरिष्यसि ।। 3.9.28 ।।
व्यत्ययो वा किं न स्यादित्यत्राह तदार्येति । तर्हि वर्णधर्मो लुप्येतेत्यत्राह पुनरिति ।। 3.9.28 ।।
अक्षया तु भवेत्प्रीतिः श्वश्रूश्वशुरयोर्मम ।
यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः ।। 3.9.29 ।।
तपोमात्रकरणे फलान्तरमप्याह अक्षयेति । यद्वा सर्वदा क्षत्त्रधर्मं त्यक्त्वा मुनिवृत्तिराश्रयतामित्याह अक्षयेति । तुः समुच्चये । अकलुषा बुद्धिश्च ते भवेदित्यर्थः । श्वश्रूश्वशुरयोः कैकेयीदशरथयोः । “श्वशुरः श्वश्वा” इत्येकशेषाभाव आर्षः ।। 3.9.29 ।।
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् ।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ।। 3.9.30 ।।
केवलधर्मानुष्ठानस्य सर्वश्रेयोमूलत्वमाह धर्मादित्यादिना । सर्वं मुक्तिमपि ज्ञानद्वारा लभत इत्यर्थः ।। 3.9.30 ।।
आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयत्नतः ।
प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ।। 3.9.31 ।।
धर्मार्थज्ञानप्रकारमाह आत्मानमिति । नियमैः चान्द्रायणादिव्रतैः । आत्मानं शरीरम् ।। 3.9.31 ।।
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने ।
सर्वं हि विदितं तुभ्यं त्रेलोक्यमपि तत्त्वतः ।। 3.9.32 ।।
त्रैलोक्यं त्रिलोकभवं पुरूषार्थतत्साधनतदङ्गकलापम् ।। 3.9.32 ।।
स्त्रीचापलादेतदुदाहृतं मे धर्मं च वक्तुं तव कस्समर्थः ।
विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरु मा चिरेण ।। 3.9.33 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे नवमः सर्गः ।। 9 ।।
स्त्रीचापलात् स्त्रीत्वप्रयुक्तचापलात् । मे मया । मा चिरेण विचारस्य विलम्बो मा भूत् । अत्र सार्धत्रयस्त्रिंशच्छ्लोकाः ।। 3.9.33 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने नवमः सर्गः ।। 9 ।।