[highlight_content]

12 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वादशः सर्गः

स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः ।

अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ।। 3.12.1 ।।

राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ।

रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ।। 3.12.2 ।।

रुद्रस्यापूज्यत्वमाह स प्रविश्येत्यादि ।। 3.12.1,2 ।।

लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः ।

अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ।। 3.12.3 ।।

हितः हितकारी । अनुकूलः प्रियकरः । प्रियहितकरत्वे हेतुः भक्त इति । भक्तः प्रीतिमान् । यदीति सम्भावनायाम् । अहं रामश्च ते श्रुतौ भवेवेत्यर्थः । अग्रजत्वादिविशेषणानि रामेण तुल्यप्रतिपत्तिवारणाय ।। 3.12.3 ।।

ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् ।

द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ।। 3.12.4 ।।

निवेद्यताम् अस्मद्दर्शनेच्छेति शेषः । एतद्वाक्यमुवाचेति पूर्वेणान्वयः । ते वयमित्यस्मिन् श्लोके यमिति गायत्र्या अष्टमाक्षरम् । सप्तसहस्रसङ्ख्याकाः श्लोका गताः ।। 3.12.4 ।।

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः ।

तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् ।। 3.12.5 ।।

तस्येति । अग्निशरणम् अग्निगृहम् ।। 3.12.5 ।।

स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् ।

कृताञ्जलिरुवाचेदं रामागमनमञ्जसा ।

यथोक्तं लक्ष्मणेनैव शिष्यो ऽगस्त्यस्य सम्मतः ।। 3.12.6 ।।

अञ्जसा आशु । यथेष्टमित्यस्य उवाचेत्यनेनान्वयः । सम्मतः शिष्येषु मान्यत्वेन सम्मतः ।। 3.12.6 ।।

पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ।

प्रविष्टावाश्रमपदं सीतया सह भार्यया ।। 3.12.7 ।।

द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ ।

यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ।। 3.12.8 ।।

ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ।

वैदेहीं च महाभागामिदं वचनमब्रवीत् ।। 3.12.9 ।।

शुश्रूषार्थं सेवार्थं चेत्यर्थः । अत्र अस्मिन् रामे विषये । अनन्तरं तदागमनानन्तरम् । यद्वक्तव्यं तत्त्वं तस्य भावं प्रकारम् आज्ञापयितुमर्हसि ।। 3.12.79 ।।

दिष्ट्या रामश्चिरस्याद्य द्ष्टुं मां समुपागतः ।

मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति ।। 3.12.10 ।।

गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः ।

प्रवेश्यतां समीपं मे किञ्चासौ न प्रवेशितः ।। 3.12.11 ।।

दिष्ट्या यदृच्छया । चिरस्य चिरात् प्रतिकाङ्क्षितमित्यन्वयः । प्रतिर्वीप्सायाम् । सत्कृतः सत्कारार्हः । किञ्चासौ न प्रवेशितः कुतो विलम्बित इत्यर्थः ।। 3.12.10,11 ।।

एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना ।

अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः ।। 3.12.12 ।।

ततो निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत् ।

क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ।। 3.12.13 ।।

ततो गत्वाश्रमद्वारं शिष्येण सहलक्ष्मणः ।

दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ।। 3.12.14 ।।

अभिवाद्येति विलम्बकरणापचारनिवृत्त्यर्थे वन्दनम् अत एव सम्भ्रान्त इति वक्ष्यति ।। 3.12.1214 ।।

तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन् ।

प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम् ।। 3.12.15 ।।

अगस्त्येनोच्यत इत्यगस्त्यवचनम्, अगस्त्योक्तमित्यर्थः सुसत्कृतं सविनयवाक्येन बहुमतम् ।। 3.12.15 ।।

प्रविवेश ततो रामः सीतया सह लक्ष्मणः ।

प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ।। 3.12.16 ।।

आश्रमं मुनिगृहम् ।। 3.12.16 ।।

स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ।

विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ।। 3.12.17 ।।

अयं तत्र देवपूजागृहाण्यपश्यदित्याह स तत्रेत्यादि । तत्र अगस्त्यगृहे । ब्रह्मणः चतुर्मुखस्य । अग्नेः पावकस्य । तथैव चेति निपातसमुदायस्समुच्चये ।। 3.12.17 ।।

सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ।

धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च ।। 3.12.18 ।।

नागराजस्य च स्थानमनन्तस्य महात्मनः ।

स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ।। 3.12.19 ।।

भगो देवताविशेषः ।। 3.12.18,19 ।।

स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ।

कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ।। 3.12.20 ।।

पाशहस्तस्येत्यादिविशेषणानि तत्र मुनेरगस्त्यस्य भक्तिविशेषद्योतनार्थम् । इमे ब्रह्मादयः पूर्वसर्गे फलप्रदत्वेनोक्ताः । अन्ये अगस्त्योपासकत्वेनोक्ताः । एते ब्रह्माग्निविष्णुमहेन्द्र विवस्वत्सोमभगकुबेरधातृविधातृवाय्वनन्तगायत्रीवसुवरुणकार्तिकेयधर्माख्याः सप्तदशः देवाः । “यो वै सप्तदशम्” इत्यनुवाकोक्तसप्तदशाक्षरदेवताः यायजूकेन मुनिना पूजार्थे प्रतिष्ठिता इति बोध्यम् । अत्र पूज्यदैवतेषु रुद्रस्यानुपादानादपूज्यत्वमुक्तम् । अधुना जनैः कैश्चित् पूज्यमानता तु तामसशास्त्रानुरोधेनेति बोध्यम् । ननु विष्णोः स्थानं महेशस्येति पाठात् स्थानानुक्त्यसम्भव इति चेत्, तदा पूर्वं रामेण “अगस्त्यं नियताहारं सततं पर्युपासते” इत्युक्तावपि स्थाननिर्देशे उपास्योपासकयोरुभयोरपि निर्देशो न विरुध्यते । यद्वा उपासनं समीपावस्थानं नत्वाराधनम्, धर्ममाराधयिष्णव इत्युक्तेः । धर्मस्याराधनं परिपालनमेव ।। 3.12.20 ।।

ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ।

तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ।। 3.12.21 ।।

अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ।

एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ।। 3.12.22 ।।

अभिनिष्पतत् अभ्युत्थानं कृतवान् । अडभावः आर्षः । मुनीनामग्रतः स्थितमिति शेषः ।। 3.12.21,22 ।।

औदार्येणावगच्छामि निधानं तपसामिमम् ।। 3.12.23 ।।

औदार्येण तेजोविशेषरूपौन्नत्येन । इममवगच्छामि अगस्त्यत्वेनेति शेषः । इति वचनमब्रवीदित्यन्वयः ।। 3.12.23 ।।

एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् ।

जग्राह परमप्रीतस्तस्य पादौ परन्तपः ।। 3.12.24 ।।

अगस्त्यम् उद्दिश्येति शेषः ।। 3.12.24 ।।

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः ।

सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ।। 3.12.25 ।।

रामः अभिवाद्य रामस्तस्थावित्यन्वयः ।। 3.12.25 ।।

प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः ।

कुशलवप्रश्नमुक्त्वा च ह्यास्यतामिति चाब्रवीत् ।। 3.12.26 ।।

प्रतिजग्राह अतिथित्वेनेति शेषः । उदकानि पाद्यानि ।। 3.12.26 ।।

अग्निं हुत्वा प्रदायार्ध्यमतिथीन् प्रतिपूज्य च ।

वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ।। 3.12.27 ।।

तस्मिन्नासीने अग्निं हुत्वा वैश्वदेवं कृत्वा । तेभ्यः अर्घ्यं दत्त्वा अतिथीन् प्रतिपूज्य आचमनीयपुष्पादिभिः पूजयित्वा । वानप्रस्थेन धर्मेण सिद्धं भोजनकन्दमूलादिकं ददौ ।। 3.12.27 ।।

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः ।

उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ।। 3.12.28 ।।

स्वयं प्रथममुपविश्य आसीनं राममुवाच ।। 3.12.28 ।।

अग्निं हुत्वा प्रदायार्ध्यमतिथिं प्रतिपूजयेत् ।

अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ।

दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ।। 3.12.29 ।।

अयं रामव्याजेन सीतां प्रत्युपदेशः । धर्मकोविदमित्युक्तस्य रामस्य हि नेदं वक्तव्यम् । अत एव सीता रावणं सत्करिष्यति । अन्यथा समुदाचरन् होममतिथिसत्कारञ्चाकुर्वन्नित्यर्थः । दुःसाक्षी कूटसाक्षी ।। 3.12.29 ।।

राजा सर्वस्य लोकस्य धर्मचारी महारथः ।

पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ।। 3.12.30 ।।

भवांस्तु विशिष्टातिथिरित्याह राजेति । राजपक्षे स्पष्टो ऽर्थः । तत्त्वार्थस्तु सर्वस्य लोकस्य भुवनत्रयस्य । राजा स्वामी । “पतिं विश्वस्य” इति श्रुतेः । अत एव लोकस्य पूजनीयः कर्मभिराराध्यः । “इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः” इति श्रुतेः । मान्यः मुक्तये योगिभिश्चिन्त्यः । प्रियातिथिः लौकिकातिथिभ्यो विलक्षणः । एवमुवाचेति पूर्वेणान्वयः ।। 3.12.30 ।।

एवमुक्त्वा फलैर्मूलैः पुष्पैरन्येश्च राघवम् ।

पूजयित्वा यथाकामं पुनरेव ततो ऽब्रवीत् ।। 3.12.31 ।।

एवमिति । पुनः फलादिदानं सीतायाः ।। 3.12.31 ।।

इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ।। 3.12.32 ।।

वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ।। 3.12.33 ।।

इदमिति परशुरामात् गृहीत्वा वरुणहस्ते दत्तं रामेण । तदेव वरुणः खरादिवधसन्निहित इति अगस्त्यहस्ते निक्षिप्तवानित्यवगम्यते, वैष्णवशब्दप्रत्यभिज्ञानात् ।। 3.12.32,33 ।।

अमोघः सूर्यसङ्काशो ब्रह्मदत्तः शरोत्तमः ।

दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ ।। 3.12.34 ।।

ब्रह्मदत्तः ब्रह्मणा दत्तः अयमितिशेषः । तूणी इमाविति शेषः ।। 3.12.34 ।।

सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः ।

महारजत कोशो ऽयमसिर्हेमविभूषितः ।। 3.12.35 ।।

महारजतं सुवर्णं तन्मयः कोशः खङ्गपिधानं यस्य सः महारजतकोशः । बालरामाणे ऐन्द्रं शरासनमिति इन्द्रदत्तत्वोक्तिश्छत्रिन्यायात् ।। 3.12.35 ।।

अनेन धनुषा राम हत्वा सङ्ख्ये महासुरान् ।

आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ।। 3.12.36 ।।

धनुषा धनुरादिना ।। 3.12.36 ।।

तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद ।

जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ।। 3.12.37 ।।

शरं खङ्गं च वैष्णवाविति शेषः । वज्रं वज्रधरो यथेत्यनेन तावकं त्वमेव गृहाणेत्युक्तम् ।। 3.12.37 ।।

एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् ।

दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ।। 3.12.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वादशः सर्गः ।। 12 ।।

एवमुक्त्वा ततः पुनरेव इत्यब्रवीदित्यन्वयः ।। 3.12.38 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वादशः सर्गः ।। 12 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.