श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षोडशः सर्गः
वसतस्तस्य तु सुखं राघवस्य महात्मनः ।
शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ।। 3.16.1 ।।
अथ भाविशूर्पणखादर्शनाद्यनर्थसूचकतया हेमन्तवर्णनं प्रस्तौति वसत इत्यादि । इष्टः तपस्विनां तपः साधनायेष्टः । रामस्य तु खारादिराक्षसविजयमूलशूर्पणखागमनहेतुतयेष्टः ।। 3.16.1 ।।
स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः ।
प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ।। 3.16.2 ।।
प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् ।
पृष्ठतो ऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत् ।। 3.16.3 ।।
स इति । प्रभातायां विरामोन्मुखायाम् ।। 3.16.2,3 ।।
अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद ।
अलङ्कृत इवाभाति येन संवत्सरः शुभः ।। 3.16.4 ।।
अयमिति । येन हेमन्तेन ।। 3.16.4 ।।
नीहारपरुषो लोकः पृथिवी सस्यशालिनी ।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ।। 3.16.5 ।।
नीहारेति । लोको जनः नीहारेण हिमेन परुषः परुषत्वक्, सर्वत्र भवतीति शेषः । स्वभावोक्तिरलङ्कारः । “स्वभावेक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम्” इति लक्षणात् ।। 3.16.5 ।।
नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः ।
कृताग्रयणकाः काले सन्तो विगतकल्मषाः ।। 3.16.6 ।।
काले आग्रयणकर्मानुष्ठानकाले । आग्रयणं नाम कश्चिद्धविर्यज्ञो नूतनधान्यभोजनस्यादावनुष्ठेयः । तदुक्तमापस्तम्बेन “नानिष्ट्वाग्रयणेनाहिताग्निर्नवस्य धान्यस्याश्नीयाद् व्रीहीणां यवानां श्यामाकानामग्रे पाकस्य यजेत” इति । आग्रयणरूपपूजाभिः पितृदेवता अभ्यर्च्य कृताग्रयणकाः नतु कृताग्रयणप्रतिनिधय इत्यर्थः ।। 3.16.6 ।।
प्राज्यकामा जनपदाः सम्पन्नतरगोरसाः ।
विचरन्ति महीपाला यात्रास्था विजिगीषवः ।। 3.16.7 ।।
प्राज्यकामा इति । प्राज्यकामाः बहुलकामोद्रेकाः । “प्राज्यमदभ्रं बहुलम्” इत्यमरः । जनपदाः जनपदस्थाः । यात्रायां युद्धयात्रायाम् आस्था येषां ते यात्रास्थाः ।। 3.16.7 ।।
सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् ।
विहीनतिलकेव स्त्री नोत्तरा दिक्र प्रकाशते ।। 3.16.8 ।।
अन्तकसेविता दक्षिणामित्यर्थः । अत्रोत्प्रेक्षालङ्कारेण दक्षिणा दिक् सतिलकेव प्रकाशत इत्युत्प्रेक्षा व्यज्यते ।। 3.16.8 ।।
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् ।
यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः ।। 3.16.9 ।।
प्रकृत्या स्वभावेन । हिमकौशैः घनीभूतहिमैः । आढ्यः सम्पूर्णः । साम्प्रतं दक्षिणायने । दूरसूर्यः अत एव हिमवान् अधिकहिमः । भूमार्थे मतुम् । हिमवान् गिरिः यथार्थनामा भवति । सुव्यक्तमित्युत्प्रेक्षाव्यञ्जकं निरुक्तिश्चालङ्कारः । “निरुक्तिर्योगतो नाम्रामन्वर्थत्वप्रकल्पनम्” इति लक्षणात् ।। 3.16.9 ।।
अत्यन्तसुखसञ्चारा मध्याह्ने स्पर्शतः सुखाः ।
दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ।। 3.16.10 ।।
मध्याह्ने स्पर्शतः उष्णस्पर्शतः । सुखाः सुखकराः अत एव तदानीम् अत्यन्तसुखसञ्चाराः । सुभगादित्याः दर्शनयोग्यादित्याः । छायासलिलदुर्भगाः दुर्भगच्छायासलिलाः । आहिताग्न्यादित्वात्परनिपातः । अतिशीतच्छायासलिला इत्यर्थः । भवन्तीति शेषः । स्वाभावोक्तिरलङ्कारः ।। 3.16.10 ।।
मृदुसूर्याः सनीहाराः पटुशीताः समारूताः ।
शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ।। 3.16.11 ।।
मृदुसूर्याः अक्रूरसूर्याः । पटुशीताः प्रबलशीता । शून्यारण्याः आरण्या वनचराः तैः शून्याः आवरणरहितत्वेन शीतपीडिताः, न बहिः सञ्चरन्तीत्यर्थः । हिमध्वस्ताः हिमध्वस्तजनवन्तः, शैत्येन पीण्डिभूतशरीरजना इत्यर्थः । अनेन राक्षसकृतसार्वत्रिकपीडा द्योतिता ।। 3.16.11 ।।
निवृत्ताकाशशयनाः पुष्यनीता हिमारूणाः ।
शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ।। 3.16.12 ।।
निवृत्ताकाशशयनाः निवृत्तचन्द्रशालाद्यनावृतप्रदेशशयनाः । पुष्यनीताः पुष्यनक्षत्रयुक्ता पौर्णमासी पष्यं तेन नीताः, तत्प्रधाना इत्यर्थः । यद्वा पुष्यः पुष्यमासः तेन नीताः, पुष्यमाससन्निहिता इत्यर्थः । हिमारुणाः हिमधूसराः । शीताः शीतवाताः । वृद्धतरायामाः चतुर्विंशतिघटिकायुक्तत्वेनातिवृद्धतरविस्ताराः त्रियामाः रात्रयः । दिनान्ते अर्धयामस्य दिनादावर्धयामस्य च दिनशेषत्वात् । अनेन स्वर्गलोकोपद्रवः तामसराक्षसवृद्धिः सज्जनक्षयः कल्यनुसारिता चोक्ता । पुष्यः कलिः ।। 3.16.12 ।।
रविसङ्क्रान्तसौभाग्यस्तुषारारुणमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।। 3.16.13 ।।
मन्दरश्मित्वेन सङ्क्रान्तं सम्प्रवृत्तं सौभाग्यं भोग्यत्वं यस्य सः । सूर्ये स्वसौभाग्यं दत्तवानित्यर्थः । तुषारैः हिमशीकरैः अरूणं रक्तं मण्डलं यस्य । हिमशीकरावरणेन चन्द्रसूर्यमण्डलयोरारुण्यं प्रत्यक्षसिद्धम् । निःश्वासेन अन्धः अप्रकाशः आदर्शः दर्पणमिव । उपमालङ्कारः । अनेन रावणापहृतसर्वस्वस्य मलिनाकृतेरिन्द्रस्यावस्थोक्ता ।। 3.16.13 ।।
ज्योत्स्नी तुषारमलिना पौर्णमास्यां न राजते ।
सीतेव चातपश्यामा लक्ष्यते न तु शोभते ।। 3.16.14 ।।
ज्योत्स्नी चन्द्रिकयान्विता रात्रिः । तुषारमलिना सती पौर्णमास्यामपि न राजते न शोभते । एवम्भूता सा आतपश्यामा आतपापहृतवर्णा सीतेव लक्ष्यते, किन्तु सीतावन्न शोभते । व्यतिरेकालङ्कारः । “व्यतिरोको विशेषश्चेदुपमानोपमेययोः” इति तल्लक्षणम् । अनेन सीताया भाविरावणाभिभवः तेनापि सुरनारीजनबन्दीमोक्षणार्थत्वेनातिशयश्च व्यज्यते ।। 3.16.14 ।।
प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम् ।
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ।। 3.16.15 ।।
प्रकृत्या शीतलस्पर्शः वायोः शीतस्पर्श एव स्वभावः, उष्णस्पर्शस्त्वागन्तुक इति हृदयम् । साम्प्रतं हेमन्ते । हिमविद्धः हिमयुक्तः । काले प्रातःकाले । द्विगुणशीतलः द्विरावृत्त्या शीतलः । “अथो गुणः । रूपादौ सूदशिञ्जिन्योरावृत्तीन्द्रियतन्तुषु । सन्ध्यादावपि सत्त्वादौ त्यागादावुपसर्जने ।।” इति रत्नमाला। पश्चिमो वायुः पश्चिमदिग्वायुः। अनेन स्वभावतः करुणाशीतलस्य अवतारकाले देवप्रार्थनोत्तम्भितकृपस्य पुनर्मुन्याश्रमे द्विगुणितकरुणस्य रामस्य व्यापारः सूचितः ।। 3.16.15 ।।
बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च ।
शोभन्ते ऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ।। 3.16.16 ।।
बाष्पैः ऊष्मभिः छन्नानि यथा कूपोदकेभ्यो निर्गच्छन्तो धूमाकारा बाष्पाः । अनेन रामसमागमानन्तरभाव्याश्रमसमृद्धिरुच्यते । बाष्पशब्देन रामकृपोच्यते । यवेत्यादिना तपस्समृद्धिः । नदद्भिरिति वेदघोषः ।। 3.16.16 ।।
खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः ।
शोभन्ते किञ्चिदानम्राः शालयः कनकप्रभाः ।। 3.16.17 ।।
खर्जूरपुष्पाकृतिभिः तद्वत्पिशङ्गवर्णैः शिरोभिः कणिशैः कनकप्रभाः परिपक्वनालपत्त्रवत्त्वात्कनकवर्णाः । अनेन वृद्धा अपि जटाभरितशिरोभिस्त्वां प्रणमन्तीति द्योतितम् ।। 3.16.17 ।।
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ।
दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ।। 3.16.18 ।।
हिमनीहारैः शीतलनीहारैः संवृताः तैः । अनेन बहुकालं समागतो ऽपि राक्षसप्रभाभिभूततेजस्को मृदुरिव किमर्थं वर्तस इत्यर्थस्सूच्यते ।। 3.16.18 ।।
अग्राह्यवीर्यः पूर्वाह्णे मध्यह्ने स्पर्शतः सुखः ।
संरक्तः किञ्चिदापाण्डुरातपः शोभते क्षितौ ।। 3.16.19 ।।
पूर्वाह्णे अग्राह्यवीर्यः अग्राह्यौष्ण्यः, चन्द्रिकायमाणो वर्तत इत्यर्थः । ईषदर्थे वा नञ्, अनुदरा
कन्येतिवत् । तदुक्तम् “तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः” इति । मध्याह्ने स्पर्शेन । सुखः सुखकरः । किञ्चित्संरक्तः किञ्चिदापाण्डुश्च, अनेनापि राक्षसाक्रमेप्यपराक्रमत्वमनुचितमिति गम्यते ।। 3.16.19 ।।
अवश्यायनिपातेन किञ्चित्प्रक्लिन्नशाद्वला ।
वनानां शोभते भूमिर्निविष्टतरुणातपा ।। 3.16.20 ।।
अवश्यायः हिमम् । शाद्वलः शष्पप्रचुरा भूमिः “नडशादाद्वलच् ” इति वलच् । अनेन राक्षसाभिभवकृतमुनिजनरोदनं रामकृपाप्रवृत्तिश्चोच्यते ।। 3.16.20 ।।
स्पृशंस्तु विपुलं शीतमुदकं द्विरदः सुखम् ।
अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ।। 3.16.21 ।।
प्रतिसंहरते । अतिदुःसहशैत्यवत्त्वादिति भावः । अनेनेन्द्रस्य राज्यभोगाभिलाषिणो ऽपि तद्भोगभीरुत्वं सूचितम् ।। 3.16.21 ।।
एते हि समुपासीना विहगा जलचारिणः ।
न विगाहन्ति सलिलमप्रगल्भा इवाहवम् ।। 3.16.22 ।।
समुपासीनाः जलमिति शेषः । अनेन मुनीनां समाधिभङ्गो द्योत्यते । अप्रगल्भाः अधृष्टाः । आहवं युद्धम् ।। 3.16.22 ।।
अवश्यायतमोनद्धा नीहारतमसावृताः ।
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ।। 3.16.23 ।।
अवश्यायः हिमसलिलम्, स एव तमः नद्धा बद्धाः, अनेन निश्चलत्वं लक्ष्यते । हिमक्लिन्ना हि लता निश्चलीभवन्ति । नीहारः अजलवर्षिमहाहिमं तदेव तमः तेनावृताः । अनेन प्रच्छादनपटाच्छन्नत्वं व्यज्यते । विपुष्पा इत्यनेन निमीलिताक्षत्वमुक्तम् । अनेन वनवासिनां दैन्यातिशय उक्तः । अत्रोत्प्रेक्षालङ्कारः ।। 3.16.23 ।।
बाष्पसञ्छन्नसलिला रुतविज्ञेयसारसाः ।
हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् ।। 3.16.24 ।।
रुतं शब्दः । हिमार्द्रवालुकैः हिमसिक्तसिकतैः, अनेनापि ऋषिजनदैन्यमेव द्येत्यते ।। 3.16.24 ।।
तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च ।
शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ।। 3.16.25 ।।
तुषारः हिमम् । आगाग्रस्थमपि निर्मलशिलातलस्थमपि । रसवत् विषवत् “रसो रागे विषे द्रव्ये शृङ्गारादौ पराक्रमे” इति बाणः । शैत्यातिशयेन विषवदनुपादेयं भवतीत्यर्थः । एतेन राक्षसप्रकोपात् भवतश्चानुद्योगान्मुनिमनो दुखितं भवतीति द्योत्यते ।। 3.16.25 ।।
जराजर्झरितैः पद्मैः शूर्णकेसरकर्णिकैः ।
नालशेषैर्हिमध्वस्तैर्न भान्ति कमलाकराः ।। 3.16.26 ।।
जरया चिरप्ररूढतया जर्झरितैः विवर्णैः । शीर्णकेसरकर्णिकैः शिथिलकिञ्जल्ककर्णिकैः पद्मैर्न भान्ति । स्पष्टं व्यङ्ग्यम् ।। 3.16.26 ।।
अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः ।
तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ।। 3.16.27 ।।
एवमृषिपीडातिशये ऽपि रामस्य राक्षसवधानुद्यममुक्त्वा भरतस्य त्वदागमनव्यसनित्वात्तद्दर्शनकालो ऽपि सन्निहित इत्याशयेनाह अस्मिन्नित्यादिना । दुःखसमन्वितः त्वद्विरहादिति शेषः ।। 3.16.27 ।।
त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान् बहून् ।
तपस्वी नियताहारः शेते शीते महीतले ।। 3.16.28 ।।
राज्यं राजत्वं प्रभुत्वमित्यर्थः । मानं राजपुत्रोहमित्यभिमानम् । भोगान् स्रक्चन्दनवनितादीन् । बहूनित्यपरित्याज्यत्वमुच्यते । तपस्वी तपस्विचिह्नजटादिमान् । नियताहारः फलमूलाद्यशनः । शीत इत्यनेनावरणराहित्यमुच्यते । महीतल इत्यनेन खट्वादिराहित्यम् ।। 3.16.28 ।।
सो ऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः ।
वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूनदीम् ।। 3.16.29 ।।
सो ऽपीति । वेलां प्राप्येति शेषः । प्रकृतिभिरिति उपभोक्तुं व्यस्यन्ति “पौरा वै धर्मवत्सलम्” इति वक्ष्यमाणरीत्या भरतभक्त्या त्वद्भक्त्या च भरतमनुसरन्तीभिरित्यर्थः ।। 3.16.29 ।।
अत्यन्तसुखसंवृद्धः सुकुमारः सुखोचितः ।
कथं न्वपररात्रेषु सरयूमवगाहते ।। 3.16.30 ।।
अत्यन्तसुखसंवृद्धः राज्ञा उपलालितत्वात् सुखसंवृद्धः, त्वयापि लालितत्वादत्यन्तसुखसंवृद्धः । सुकुमारः भवतो ऽपि दृष्ट्यवेक्षणासहसौकुमार्यः । सुखोचितः त्वया सह वस्तुं यौग्यः न तु त्वद्वियोगार्हः । कथं आत्मौपम्येन मन्यते स्वस्य रामविरहाभावेन शैत्यानुभवः तस्य रामतापात् ‘उपतप्तोदका नद्यः’ इत्यक्तरीत्या नदीनामपि रामविरहेणोष्णत्वाच्च शैत्यप्रसक्तिरेव नास्ति । अपररात्रेषु यथा नववैधव्याः स्त्रियः मनुष्यसञ्चारात् पूर्वमेव मनुष्यमुखमनवलोकयन्त्यो गच्छन्ति तथायमपि कैकेयीपुत्रो ऽयम् एतन्निमित्त एवानर्थ इति जना वक्ष्यन्तीति भीत्या अपररात्रेष्वेव गच्छति । सरयूमवगाहते निर्वेदातिशयेनातित्वरितगामिनीमपि सरयूं निर्भयो ऽवगाहते । अवगाहते जले निमग्नश्चेन्मनुष्यादातव्यो भवति ।। 3.16.30 ।।
पद्मपत्त्रेक्षणो वीरः शयामो निरुदरो महान् ।
धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः ।। 3.16.31 ।।
प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः ।
सन्त्यज्य विविधान् भोगानार्यं सर्वात्मना श्रितः ।। 3.16.32 ।।
निरुदरः अतुन्दिलः । ह्रीनिषेधः ह्रिया लज्जया निषेधः अकृत्योभ्यो निवर्तनं यस्य सः । मधुरः मधुरवाक् सुन्दरो वा । आर्यं ज्येष्ठं त्वाम् सर्वात्मना करणत्रयेण श्रितः ।। 3.16.31,32 ।।
जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना ।
वनस्थमपि तापस्ये यस्त्वामनुविधीयते ।। 3.16.33 ।।
स्वर्गः रामप्राप्त्यन्तरायभूतः स्वर्गः जितः तिरस्कृतः । वनस्थमपि त्वां तापस्ये तापसकर्मविषये अनुविधीयते अनुकरोति । श्यन्नार्षः ।। 3.16.33 ।।
न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति ।
ख्यातो लोकप्रवादो ऽयं भरतेनान्यथा कृतः ।। 3.16.34 ।।
भर्ता दशरथो यस्याः साधुश्च भरतः सुतः ।
कथं नु साम्बा कैकेयी तादृशी क्रूरशीलिनी ।। 3.16.35 ।।
एवं प्रतिज्ञातराक्षसवधे विलम्बः कृतः, भरतक्लेशेन तत्रापि शीघ्रं गन्तव्यम् । अतः किमत्र कृत्यमिति सूचयित्वा सर्वस्यानर्थस्य मूलभूता कैकेयीत्याशयेनाह न पित्रमित्यादिश्लोकद्वयेन । पित्र्यं पितृस्वभावम् । द्वे पदे येषां ते द्विपादाः मनुष्याः । अन्यथाकृतः पितृस्वभाव एवानुकृतो न मातृस्वभाव इत्यर्थः । भर्तेति साधुशब्दस्य भर्तरि भरते चान्वयः । तादृशीति पूर्वं कैकेय्युक्तस्मरणम् ।। 3.16.34,35 ।।
इत्येवं लक्ष्मणे वाक्यं स्नेहाद् ब्रुवति धार्मिके ।
परिवादं जनन्यास्तमसहन् राघवो ऽब्रवीत् ।। 3.16.36 ।।
इत्येवमिति अनेन लक्ष्मणः प्रत्यूषे रामस्य ससीतस्य सरःस्नानादिक्लेशमालोक्य सुदुःखिततया कैकेयीं निन्दितुमुपक्रम्य झटिति निन्दायां रामः कुप्येदिति प्रथमं हेमन्तस्वभावं प्रस्तुत्य तत्प्रसङ्गेन भरतमुपक्षिप्य कैकेयीं निन्दति स्मेति गम्यते । स्नेहात् रामस्नेहात् । परिवादम् अपवादम् । असहन् असहमानः ।। 3.16.36 ।।
न ते ऽम्बा मध्यमा तात गर्हितव्या कथञ्चन ।
तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ।। 3.16.37 ।।
मध्यमा सर्वदशरथपत्न्यपेक्षया । कथञ्चन प्रासङ्गितककथायामपि मध्यमाम्बेति स्वाभिमानद्योतनाय । इक्ष्वाकुनाथस्य राजनि स्वर्गं गते अस्मासु च वनं गतेषु पूर्वतरास्मत्कुलमर्यादास्थापकस्य ।। 3.16.37 ।।
निश्चितापि हि मे बुद्धिर्वनवासे दृढब्रता ।
भरतस्नेहसन्तप्ता बालिशीक्रियते पुनः ।। 3.16.38 ।।
वनवासे निश्चिता दृढव्रतापि मे बुद्धिः भरते स्नेहसन्तप्ता सति बालिशीक्रियते बालबुद्धिरिव भवति, असम्पूर्णो ऽपि वनवासकाले तद्दर्शने सञ्जातकुतूहला भवतीत्यर्थः ।। 3.16.38 ।।
संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च ।
हृद्यान्यमृतकल्पानि मनः प्रह्लादनानि च ।। 3.16.39 ।।
स्नेहमेव प्रकाशयति संस्मरामीत्यादिना । लोके कैश्चिदुक्तानि वाक्यानि प्रियाण्यपि कर्णकठोराणि भवन्तीति तद्व्युदासायाह मधुराणीति । हृद्यानि हृदयादनपेतानि । अमृतकल्पानि शुभोदर्काणि । इदानीमपि मनःप्रह्लादनानि ।। 3.16.39 ।।
कदान्वहं समेष्यामि भरतेन महात्मना ।
शत्रुघ्नेन च वीरेण त्वाया च रघुनन्दन ।। 3.16.40 ।।
कदेति । भरतसाहित्याभावेन विद्यमानाभ्यां सीतालक्ष्मणाभ्यामपि विरहितमात्मानं मन्यते भरतस्नेहातिशयप्रकातरो ऽयम् ।। 3.16.40 ।।
इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम् ।
चक्रे ऽभिषेकं काकुत्स्थः सानुजः सह सीतया ।। 3.16.41 ।।
इत्येवं विलपन् भरतस्नेहकृतानि बहूनि वाक्यानि जल्पन्नित्यर्थः । अभिषेकं स्नानम् ।। 3.16.41 ।।
तर्पयित्वाथ सलिलैस्ते पितृ़न् दैवतानि च ।
स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः ।। 3.16.42 ।।
तर्पयित्वेति ऋषितर्पणस्याप्युपलक्षणम् । स्तुवन्ति स्म उपतस्थिरे “मित्रस्य” इत्यादिमन्त्रैः । सीतात्वमन्त्रेण । देवताः सन्ध्यादिदेवताः ।। 3.16.42 ।।
कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन ।
कृताभिषेको गिरिराजपुत्र्या रुद्रः सनन्दी भगवानिवेशः ।। 3.16.43 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षोडशः सर्गः ।। 16 ।।
रुद्रः सनन्दीत्युपमया दुष्प्रधर्षणत्वमुच्यते । रूद्रः सविष्णुर्भगवानिवेश इति न क्वचिदपि कोशे दृश्यते । कश्चिद्दृश्यत इत्याह तदा अभूतोपमेति युक्तमिति ज्ञेयम् ।। 3.16.43 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षोडशः सर्गः ।। 16 ।।