श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोविंशः सर्गः
तस्मिन् याते जनस्थानादशिवं शोणितोदकम् ।
अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ।। 3.23.1 ।।
अथ युद्धाय प्रयातस्य खरस्य उत्पातवर्णनं त्रयोविंशे तस्मिन् यात इत्यादि । अशिवम् अशुभावहम् । शोणितोदकम् रक्तवर्णजलम् । तुमुलः सङ्कुलः । गर्दभारुणः गर्दभवद्धूसरः । 3.23.1 ।।
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ।
समे पुष्पचिते देशे राजमार्गे यदृच्छया ।। 3.23.2 ।।
निपेतुः स्खलिताः । रथयुक्ताः रथे बद्धाः । पुष्पचिते पुष्पैः निबिडे । यदृच्छया दैवगत्या ।। 3.23.2 ।।
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् ।
अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ।। 3.23.3 ।।
सूर्यपरिवेषमाह श्याममिति । सर्वत्र श्यामम् । पर्यन्ते प्रान्ते रुधिरं रुधिरवर्णम् । अलातचक्रप्रतिममिति ह्रस्वत्वमुच्यते । परिवेषणं परिवेषः । परिगृह्य परितो व्याप्य ।। 3.23.3 ।।
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् ।
समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ।। 3.23.4 ।।
समुच्छ्रितम् उन्नतम् । ध्वजमुपागम्य समाक्रम्य परिक्रम्य तस्थौ ।। 3.23.4 ।।
जनस्थानसमीपे तु समागम्य खरस्वनाः ।
विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ।। 3.23.5 ।।
खरस्वनाः परुषस्वनाः । विस्वरान् विकृतस्वरान् । मांसमदन्तीति मांसादाः ।। 3.23.5 ।।
व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् ।
अशिवं यातुधानानां शिवा घोरा महास्वनाः ।। 3.23.6 ।।
प्रदीप्तायां दिशि सूर्यसन्निहितदिशीत्यर्थः । शिवाः सृगालाः । घोराः ज्वालामुखाः ।। 3.23.6 ।।
प्रभिन्नगिरि सङ्काशास्तोयशोणितधारिणः ।
आकाशं तदनाकाशं चक्रुर्मीमा बलाहकाः ।। 3.23.7 ।।
प्रभिन्नाः इन्द्रच्छिन्नपक्षाः । तोयशोणितधारिणः शोणिततोयधारिणः । परनिपातः । अनाकाशम् अप्रकाशम्, छन्नमिति यावत् । बलाहकाः मेघाः ।। 3.23.7 ।।
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ।
दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ।। 3.23.8 ।।
उद्धतं सान्द्रम् ।। 3.23.8 ।।
क्षतजाद्रसवर्णाभा सन्ध्या कालं विना बभौ ।
खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः ।
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः ।। 3.23.9 ।।
क्षतजार्द्रसवर्णाभा क्षतजेन रक्तेनार्द्रं संसिक्तं यत् पटादिकं तत्तुल्याभा । कालं विना । सन्ध्या बभौ, मेघेष्विति शेषः खरस्येति पूर्वं सूर्याधिष्ठितदिशि शिवारुतयुक्तम् अधुना खरस्याभिमुखमुच्यते । घोरमृगाः श्वापदादयः । कङ्काः स्थूलकायाः । भयङ्कराः मृतपशुनरादिभक्षणशीलाः पक्षिविशेषाः ।। 3.23.9 ।।
नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः ।
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ।। 3.23.10 ।।
सेनाभिमुखशिवारुतमाह नित्येति । युद्धे नित्यमशुभकराः अशुभशंसिनः । घोरनिदर्शनाः । घोरफलकनिदर्शनाः । शिवाः गोमायवः । “स्त्रियां शिवाभूरिमायगोमायुमृगधूर्तकाः” इत्यमरः । ज्वालामुद्गिरन्तीति ज्वालोद्गारीणि तैः आननैः । उपलक्षणे तृतीया ।। 3.23.10 ।।
कबन्धः परिघाभासो दृश्यते भास्करान्तिके ।
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ।। 3.23.11 ।।
परिघवत् परिघायुधवदाभासत इति परिघाभासः । कबन्धः शिरःशून्यमनुष्यकायः । भास्करान्तिके सूर्यस्य समीपे । दृश्यते अदृश्यत । तथोक्तं कामन्दकीये “सूर्यदृष्टकबन्धादिरकस्मान्मूढवाहनः ।” इति । कबन्धाकारमेघखण्ड इति यावत् । महानाग्रहो यस्य स महाग्रहः । स्वर्भानुः राहुः । अपर्वणि प्रतिपद्दर्शसन्धिः पर्व तस्मादन्यस्मिन् काले सूर्यं जग्राह । तदाह वराहमिहिरः “अपर्वणि तथा राहुग्रहणं चन्द्रसूर्ययोः” इति ।। 3.23.11 ।।
प्रवाति मारुतः शीघ्रं निष्प्रभो ऽभूद्दिवाकरः ।
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ।। 3.23.12 ।।
प्रवाति प्रतिकूलो वाति । उत्पेतुः प्रचकाशिरे खद्योतसप्रभाः ज्योतिरिङ्गणसमानकान्तयः ।। 3.23.12 ।।
संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः ।
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः ।। 3.23.13 ।।
सँल्लीनाः जलान्तर्गाताः । पुष्पफलैर्विना बभूवुः गलितपुष्पादिका बभूवुरित्यर्थः ।। 3.23.13 ।।
उद्धूतश्च विना वातं रेणुर्जलधरारुणः ।
वीचीकूचिति वाश्यन्त्यो बभूवुस्तत्र शारिकाः ।। 3.23.14 ।।
उद्धूतः उत्क्षिप्तः । जलधारारुणः मेघवद्धूसरः । वीचीकूचीति शब्दानुकारः । वाश्यन्त्यः शब्दं कुर्वन्त्यः ।। 3.23.14 ।।
उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः ।
प्रचचाल मही सर्वा सशैलवनकानना ।। 3.23.15 ।।
उल्कानिर्घातौ ज्योतिर्वायुविशेषौ । अत्र वराहमिहिरः “उल्का शिरसि विशाला निपतन्ती वर्धते तनुप्रभया । पवनाभिहता गगनादवनौ च यदा समापतति । भवति तदा निर्घातः स च पापो दीर्घखगविरुतः ।।” इति ।। 3.23.15 ।।
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ।
प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत ।। 3.23.16 ।।
अवसज्जत अवासज्जत । गद्गदकण्ठतया प्रतिबद्धो ऽभूदित्यर्थः ।। 3.23.16 ।।
सास्रा समपद्यते दृष्टिः पश्यमानस्य सर्वतः ।
ललाटेः च रुजा जाता न च मोहान्न्यवर्तत ।। 3.23.17 ।।
रुजा पीडा । “स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः” इत्यमरः । मोहात् अज्ञानात् । न न्यवर्तत एवमनेकदुर्निमित्तदर्शनेपि युद्धगमनान्न न्यवर्ततेत्यर्थः ।। 3.23.17 ।।
तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान् ।
अब्रवीद्राक्षसान् सर्वान् प्रहसन् स खरस्तदा ।। 3.23.18 ।।
उत्थितान् उद्भूतान् । रोमहर्षणान् रोमाञ्चकरान् भयजनकानित्यर्थः । तदुक्तं साहित्यचिन्तामणै “उल्कानिपातनिर्घातव्यालव्याघ्रादिदर्शनैः । उत्पन्नः सहसा चित्तविक्षोभस्त्रास इष्यते ।। नेत्रसम्मीलनोत्कम्पगात्रसङ्कोचगद्गदैः । वैवर्ण्यस्वेदरोमाञ्चस्तम्भाद्यैरमनुभाव्यते ।।” इति। प्रहसन्नित्यनेन गर्वः सूच्यते। 3.23.18 ।।
महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान् ।
न चिन्तयाम्यहं वीर्याद्बलवान् दुर्बलानिव ।। 3.23.19 ।।
तारा अपि शरैस्थीक्ष्णैः पातयामि नभःस्थलात् ।
मृत्युं मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम् ।। 3.23.20 ।।
तत्कार्यप्रतिज्ञामाह महोत्पातानिति । तथा चोक्तं चिन्तामणौ “कुलरूपवयोविद्याबलैश्वर्यधनादिभिः । या भवेदात्मनः श्लाघा स गर्व इति कथ्यते । उद्ग्रीवावेक्षणावज्ञाप्रतिज्ञातिर्भवेदिह ।।” इति। दुर्बलानिव पुरुषान् ।। 3.23.19,20 ।।
राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् ।
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ।। 3.23.21 ।।
सकामा भगिनी मे ऽस्तु पीत्वा तु रुधिरं तयोः ।
यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः ।। 3.23.22 ।।
न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः ।
युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ।। 3.23.23 ।।
देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ।
वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ।। 3.23.24 ।।
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ।
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ।। 3.23.25 ।।
उत्सिक्तं गर्वितम् ।। 3.23.2125 ।।
समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ।
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः ।। 3.23.26 ।।
समेत्य चोचुः सहितास्ते ऽन्योन्यं पुम्यकर्मणः ।। 3.23.27 ।।
समीयुः सङ्गताः । सहिताः लोकहितपराः । पुण्यकर्मणः पुण्यकर्माणः । दीर्घाभाव आर्षः ।। 3.23.26,27 ।।
स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकानां ये ऽभिसङ्गताः ।
जयतां राघवः सङ्ख्ये पौलस्त्यान् रजनीचरान् ।। 3.23.28 ।।
चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान् ।
एतच्चन्यच्च बहुशो ब्रुवाणाः परमर्षयः ।। 3.23.29 ।।
जातकौतूहलास्तत्र विमानस्थाश्च देवताः ।
ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ।। 3.23.30 ।।
लोकानामभिसङ्गता इति ये लोकानाम् अभिसङ्गताः अनुकूलाः तेभ्यो ऽपि स्वस्त्यस्त्वित्यर्थः । जयतां जयतु । आर्ष आत्मने पदम् । सङ्ख्ये युद्धे । चक्रहस्तो विष्णुः । वाहिनीं सेनाम् । गतायुषां गन्तुमुद्युक्तायुषाम् । एतत् स्वस्तीत्यादिवाक्यम् । अन्यच्च राघवजयविषयकं वाक्यं ब्रुवाणाः परमर्षयः विमानस्था देवताश्च जातकौतूहलाः सन्तः राक्षसानां वाहिनीं ददृशुरिति सम्बन्धः ।। 3.23.2830 ।।
रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः ।
तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्सृताः ।। 3.23.31 ।।
रथेनेति । वेगात् रथवेगात् । विनिस्सृतः गतः ।। 3.23.31 ।।
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ।
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।। 3.23.32 ।।
मेघमाली महामाली सर्पास्यो रुधिराशनः ।
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ।। 3.23.33 ।।
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा ।
चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ।। 3.23.34 ।।
श्येनेत्यादि । श्येनगाम्यादयो द्वादश खरामात्याः ।। 3.23.3234 ।।
सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना ।
तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ ।। 3.23.35 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोविंशः सर्गः ।। 23 ।।
सेति । समराभिकामा युद्धेप्सुः । ग्रहाणामङ्गारकादीनम् ।। 3.23.35 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयोविंशः सर्गः ।। 23 ।।