श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिंशः सर्गः
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ।
स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ।। 3.30.1 ।।
एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम ।
शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ।। 3.30.2 ।।
निरस्तनिखिलालम्बमहङ्कारमिव स्थितम् । खरं निहत्य साधूनां सुखावहमहं भजे ।। भित्त्वा त्वित्यादि । धर्मवत्सल इत्यनेन निरायुधवधो ऽनुचित इति श्रीरामो ऽमन्यतेति गम्यते । स्मयमानः परिहसन्नित्यर्थः । संरब्धं भ्रान्तमिति खरविशेषणम् । “संरम्भः सम्भ्रमे कोपे” इत्यमरः ।। 3.30.1,2 ।।
एषा बाणविनिर्भिन्ना गदा भूमितलं गता ।
अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी ।। 3.30.3 ।।
यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम् ।
राक्षसानां करोमीति मिथ्या तदपि ते वचः ।। 3.30.4 ।।
अभिधाने वचसि । प्रगल्भस्य धृष्टस्य । प्रत्यरिघातिनीति वीप्सायां प्रतिः । अरीनरीन् प्रतिघातिनी गदा ।। 3.30.3,4 ।।
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः ।
प्राणानपहरिष्यामि गरुत्मानमृतं यथा ।। 3.30.5 ।।
नीचस्य केवलवाचाटकत्वेन क्षुद्रस्य । क्षुद्रशीलस्य हीनस्वभावस्य । मिथ्यावृत्तस्य असद्वृत्तस्य ।। 3.30.5 ।।
अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम् ।
विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ।। 3.30.6 ।।
फेनबुद्बुदाभ्यां भूषितम् अलङ्कृतम्, अनेन नूतनत्वमुक्तम् । विदारितस्य विदारितोदरस्य ।। 3.30.6 ।।
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः ।
स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव ।। 3.30.7 ।।
पांसुरूषितेति । रूषितं लिप्तम् । स्रस्तं यथा तथा भुवि भुजद्वयं येन । गां भूमिं समालिङ्ग्येत्यनेनावाग्भूतत्वमुच्यते ।। 3.30.7 ।।
प्रवृद्धनिद्रे शयिते त्वयि राशक्षसपांसने ।
भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ।। 3.30.8 ।।
प्रवृद्धनिद्रे दीर्घनिद्रे । अशरण्यानाम् ऋष्यादीनामगतीनाम् । शरण्याः सुखावासभूताः ।। 3.30.8 ।।
जनस्थाने हतस्थाने तव राक्षस मच्छरैः ।
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ।। 3.30.9 ।।
हतस्थाने हतराक्षसावस्थानसन्निवेषे ।। 3.30.9 ।।
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः ।
बाष्पार्द्रवदना दीना भयादन्यभयावहाः ।। 3.30.10 ।।
पूर्वमन्यभयावहाः राक्षस्यः अद्य मद्भयात् जनस्थानात् । विप्रसरिष्यन्ति पलायिष्यन्ते ।। 3.30.10 ।।
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः ।
अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ।। 3.30.11 ।।
अद्येति । यासां त्वमीदृशः पापी पतिः ताः पन्त्यः अनुरूपकुलाः त्वत्सदृशदुर्वृत्ता इत्यर्थः । इतः, पूर्वं शोकानभिज्ञा अपि अद्य शोकरसज्ञाः, निरर्थकाः निर्गतकामपुरुषार्थाः भविष्यन्ति ।। 3.30.11 ।।
नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक ।
यत्कृते शङ्कितैरर्ग्नौ मुनिभिः पात्यते हविः ।। 3.30.12 ।।
तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे ।
खरो निर्भर्त्सयामास रोषात्खरतरस्वनः ।। 3.30.13 ।।
ईदृश इत्युक्तं विवृणोति नृशंसेति । नृशंस घातुक नीच वृत्ततो हीन क्षुद्रात्मन् क्षुद्रबुद्धे मुनिभिः यत्कृते यन्निमित्तं शङ्कितैः सद्भिः अग्नौः हविः पात्यते हविर्दानसमये ऽपि किमेतदपहरिष्यन्तीति भीता भवन्तीत्यर्थः ।। 3.30.12,13 ।।
दृढं खल्ववलिप्तो ऽसि भयेष्वपि च निर्भयः ।
वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुद्ध्यसे ।। 3.30.14 ।।
अवलिप्तो ऽसि गर्वितो ऽसि । दृढं निश्चितम् । ततः कारणात् । भयेषु भयकारणेषु सत्स्वपि निर्भयो ऽसि । वाच्यं चावाच्यं च वाच्यावाच्यम् “योषां च विरोधः शाश्वतिकः” इति द्वन्दैकवद्भावः । तत् मृत्युवश्यः सन् न बुध्यस इति योजना ।। 3.30.14 ।।
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये ।
कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ।। 3.30.15 ।।
उक्तमर्थं विशिष्य दर्शयति कालेति । परिक्षिप्ताः बद्धाः निरस्तषडिन्द्रियाः निरस्तषडिन्द्रियव्यापाराः ।। 3.30.15 ।।
एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः ।
स ददर्श महासालमविदूरे निशाचरः ।
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ।। 3.30.16 ।।
भ्रुकुटीं सरुद्ध्य कृत्वेत्यर्थः । प्रहरणस्यार्थे आयुधार्थं सर्वतो ऽवलोकयन् सन्नपि दूरे महासालं ददर्शेत्यन्वयः ।। 3.30.16 ।।
स तमुत्पाटयामास सन्दश्य दशनच्छदम् ।
तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः ।। 3.30.17 ।।
राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ।। 3.30.18 ।।
दशनच्छदम् अधरम् । सन्दश्य निपीड्य, अनेन सालस्य दुर्ग्रहत्वमुक्तम् । बाहुभ्यामित्यनेन सालस्थौल्यमुक्तम् । विनद्येत्यादिना जयाशोच्यते ।। 3.30.17,18 ।।
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् ।
रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ।। 3.30.19 ।।
रोषमिति सर्वसामग्रीविरहेप्यानुकूल्यलेशाभावादिति भावः ।। 3.30.19 ।।
जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः ।
निर्बिभेद सहस्रेण बाणानां समरे खरम् ।। 3.30.20 ।।
जातस्वेद इति रोषाज्जातस्वेदः न तु श्रमात् । रक्तान्तलोचनः रक्तवर्णापाङ्गः ।। 3.30.20 ।।
तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् ।
गिरेः प्रस्रवणस्येव तोयधारावरिस्रवः ।। 3.30.21 ।।
बाणान्तरात् बाणक्षतविवरात् । फेनिलं फेनवत् । प्रस्रवणस्य प्रस्रवणाख्यस्य । परिस्रवः प्रवाहः ।। 3.30.21 ।।
विह्वलः स कृतो बाणैः खरो रामेण संयुगे ।
मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् ।। 3.30.22 ।।
विह्वलः विक्लवः । रुधिरगन्धेनोपलक्षितः ।। 3.30.22 ।।
तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् ।
अपासर्पत् प्रतिपदं किञ्चित्त्वरितविक्रमः ।। 3.30.23 ।।
तमापतन्तमिति । संरब्धं सम्भ्रान्तं प्रतिपदम् अस्त्रमोचनप्रतिकूलं तं खरं किञ्चिदपासर्पत् पश्चादागतः, तस्मादपासर्पदित्यर्थः । अपसर्पणनिमित्तमाह कृतास्त्र इति । संहितास्त्रत्वात् अस्त्रमोचनावकाशलाभायापासर्पदिति भावः । निमित्तान्तरमाह रुधिराप्लुतमिति । तत्स्पर्शबीभत्सेनापसर्पणमित्यर्थः । यद्यपि रणे किञ्चिदपसर्पणं शूरस्यायुक्तम् तथापि “सर्वतो बलवती ह्यन्यथानुपपत्तिः” इति न्यायेनापसर्पणं विना तत्संहारहेत्वलाभादपसर्पणं न दोष इति हृदयम् ।। 3.30.23 ।।
ततः पावकसङ्काशं वधाय समरे शरम् ।
खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ।। 3.30.24 ।।
ततः बाणपातावसरलाभात् । ब्रह्मदण्डं ब्रह्मशापम् ।। 3.30.24 ।।
स तं दत्तं मघवता सुरराजेन धीमता ।
सन्दधे चापि धर्मात्मा मुमोच च खरं प्रति ।। 3.30.25 ।।
धीमता भावज्ञेन दत्तम्, अगस्त्यमुखेनेति शेषः ।। 3.30.25 ।।
स विमुक्तो महाबाणो निर्घातसमनिस्वनः ।
रामेण धनुरायम्य खरस्योरसि चापतत् ।। 3.30.26 ।।
रामेण धनुरायम्य आकृष्य विमुक्तः इत्यन्वयः ।। 3.30.26 ।।
स पपात खऱो भूमौ दह्यमानः शराग्निना ।
रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्तकः ।। 3.30.27 ।।
स खरः शराग्निना दह्यमानः सन् रुद्रेण रुद्रनेत्राग्निना दग्धो ऽन्तक इव श्वेतारण्ये यथा श्वेतारण्य इव भूमौ पपात ।। 3.30.27 ।।
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा ।
बलो वेन्द्राशनिहतो निपपात हतः खरः ।। 3.30.28 ।।
सः रामबाणेन हतः खरः । अमोघबाणहतत्वज्ञापनाय प्रथमो दृष्टान्तः । लीलया हतत्वज्ञापनाय द्वितीयः । समर्थाधिष्ठितत्वज्ञापनाय तृतीयः । आर्द्राच्छुष्काच्चावध्यत्वं नमुचेर्लब्धं तदर्थं फेनेन हतः । बलो वेति वाशब्द इवार्थः । वृत्रादित्रयमिन्द्रेणैव हतम् ।। 3.30.28 ।।
ततो राजर्षयः सर्वे सङ्गताः परमर्षयः ।
सभाज्य मुदिता राममिदं वचनमब्रुवन् ।। 3.30.29 ।।
परमर्षयः ब्रह्मर्षयः । सभाज्य सम्पूज्य ।। 3.30.29 ।।
एतदर्थं महातेजा महेन्द्रः पाकशासनः ।
शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः ।। 3.30.30 ।।
एतदर्थम् एतद्वधाय ।। 3.30.30 ।।
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः ।
एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ।। 3.30.31 ।।
तदिदं नः कृतं कार्यं त्वया दशरथात्मज ।
सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ।। 3.30.32 ।।
इममुपपादयति आनीत इति । उपायेन तत्तदाश्रमदर्शनव्याजेन ।। 3.30.31,32 ।।
एतस्मिन्नन्तरे देवाश्चारणैः सह सङ्गताः ।
दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः ।
रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा ।। 3.30.33 ।।
एतस्मिन्नित्याद्यर्धत्रयमेकान्वयम् ।। 3.30.33 ।।
अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः ।
चतुर्दशसहस्राणिरक्षसां भीमकर्मणाम् ।। 3.30.34 ।।
खरदूषणमुख्यानां निहतानि महाहवे ।
अहो बत महत् कर्म रामस्य विदितात्मनः ।। 3.30.35 ।।
अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते ।
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् ।। 3.30.36 ।।
रामं स्तुवन्ति अर्धेत्यादिना । अर्धाधिकमुहूर्तेन घटिकात्रयेण । दाक्ष्यं सर्वसंहारचातुर्यम् ।। 3.30.3436 ।।
एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया ।
गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ।। 3.30.37 ।।
ततो रामस्तु विजयीपूज्यमानो महर्षिभिः ।
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ।। 3.30.38 ।।
एतस्मिन्निति । अन्तरे अवसरे । गिरिदुर्गात् गिरिदुर्गप्रदेशात् । सुखी रामपराक्रमदर्शनजन्यसन्तोषवान् ।। 3.30.37,38 ।।
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ।। 3.30.39 ।।
तं दृष्ट्वेति । चतुर्दशसहस्ररक्षोभिरयमेकाकी किं करिष्यतीत्युद्विग्ना सीता रामेण जिते वीरतारतम्याभिज्ञकुलप्रसूततया सबहुमानं परिषस्वज इत्याह । तं दृष्ट्वा पूर्वं महासमरे अदृश्यतया स्थितम् इदानीं दृष्ट्वा । तं दृष्ट्वा वीरव्रणेन विगलद्रुधिरेण रोमकूपोल्लसद्भिरपि घर्मपयःकयणौघैः “कोदण्डदण्डमवलम्ब्य विनीय वर्म किञ्चित्परिश्रमभृतं प्रियमीक्षमाणा ।” इत्युक्तप्रकारं दृष्ट्वा । तं दृष्ट्वा ततोद्ग्रथितजटामण्डलेन दृढबद्धकक्ष्यतया स्कन्धावलम्बितूणीरेण रणावसाननिर्वापितकोपाग्नितया प्रसन्नवदनेन सीतालक्ष्मणमार्गावलोकनेन पुनरपि किमागमिष्यन्ति राक्षसा इति दत्तावधानेन च लक्षितं दृष्ट्वा । तं दृष्ट्वा पूर्वं वीर इति श्रुतम्, इदानीं निर्वर्तितवीरकृत्यं दृष्ट्वा । दर्शनप्रकारमाह शत्रुहन्तारम् । हननव्यापारे कर्मभावः शत्रूणां स्वस्य तु कर्तृभाव एव । हन्तारं हननव्यापार एव दृष्टः न तु शरसन्धानादिव्यापार इत्यर्थः । शत्रुपदेन देवगन्धर्वादिसङ्घे सत्यपि शत्रूनेव हतवानित्युच्यते । दुष्टनिग्रह उक्तः । शिष्ट परिपालनमाह महर्षीणां सुखावहम् । महर्षीणां तपोलेशेन हन्तुं सामर्थ्येपि रक्षकस्वरूपस्य रक्ष्यभूतस्वस्वरूपस्य च हानिर्मा भूदिति केवलं रक्षकव्यापारप्रतीक्षाणां रामप्रतिज्ञामेवावलोकयताम् । सुखावहम् “एहि पश्य शरीराणि” इत्युक्तदुःखगन्धं निवर्त्य सुखस्यैव प्रापकम् । बभूव बहुतरशत्रुगणाक्रमणाद्रामस्यैकाकितया च पूर्वं सत्तारहिता सीता सम्प्रति सत्तां लेभे, जगत्प्राणस्य रामस्य सत्तालाभात् स्वयमपि सत्तामवाप । “आत्मा वै पुरुषस्य दाराः” इत्युक्तरीत्या रामसत्तालाभात् स्वस्या अपि सत्ता जातेति भावः । यद्वा “भू प्राप्तौ” इत्यस्माल्लिटि व्यत्ययेन परस्मैपदम् । भर्तारं विजयिनमालोक्य सरभसं गुहान्तरादागतेत्यर्थः । हृष्टा “सति धर्मिणि धर्माः” इति न्यायेन धर्मिलाभानन्तरं तद्धर्महर्षो ऽभूदित्यर्थः । यद्वा आन्तरप्रीत्यङ्कुरोपमरोमाञ्चाञ्चितेत्यर्थः । एवं शौर्यावलोकनप्रीतत्वे हेतुमाह वैदेही । “मिथिलाधिपतिर्वीरः” इत्युक्तरीत्या वीरकुलप्रसूतत्वादित्यर्थः । भर्तारं परिषस्वजे तादृशनिरवधिकप्रेमभारभरिततया स्वयमालिलिङ्गे । भर्तरं लोकभर्तारं सर्वलोकमातृत्वेन सर्वप्रजारक्षणं दृष्ट्वा परिषस्वजे । आयुधक्षतव्रणेषु सुखोष्णाभ्यां स्तनाभ्यां पस्पर्श । परिषस्वजे पर्याप्तं सस्वजे, पश्चात् पुरस्तात् पार्श्वतश्च पस्पर्शेत्यर्थः । यद्यपि रणे अपलायमानस्य पृष्ठे शरपातप्रसङ्ग एव नास्ति तथापि सर्वतः समावृत्य आयुधप्रक्षेपात् पृष्ठतो ऽपि व्रणसम्भवः बाणानां सम्यक् क्षिप्तानां पृष्ठतो निर्गमो ऽपि सम्भवति । महर्षीणां सुखावहं परिषस्वजे पुत्रविषये स्वभर्त्रोपकारकरणे पुत्रवात्सल्यात् भर्तरि सन्तुष्टा भार्येव ऋषिजनसंरक्षणेन प्रीता परिषस्वजे । रामं विना गुहागता सीता ततो निर्गत्य निरस्तसमस्तशत्रुं रामं पिरषस्वज इत्यनेन हृदयगुहागतो जीवः परतन्त्रः आचार्यमुखेन परमशेषिणं दृष्ट्वा तेन सकलविरोधिवर्गे निवर्तिते ततो निर्गत्य नित्यसूरिपरिषदासीनं शेषिणमासाद्य तद्भोगरिवाहमनुबभूवेति ध्वन्यते ।। 3.30.39 ।।
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् ।
रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा ।। 3.30.40 ।।
ततस्तु तं राक्षससङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः ।
पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा ।। 3.30.41 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिंशः सर्गः ।। 30 ।।
उक्तमेवार्थं विशदं दर्शयति द्वाभाम् मुदेत्यादि ।। 3.30.40,41 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिंशः सर्गः ।। 30 ।।