श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकत्रिंशः सर्गः
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः ।
प्रविश्य लङ्कां वेगेने रावणं वाक्यमब्रवीत् ।। 3.31.1 ।।
एवं शरणागतिमन्त्रविवरणरूपे श्रीरामायणे इयता गन्थसन्दर्भेण उत्तरखण्डार्थो विवृतः । अनुष्ठानदशायां हि प्रथमखण्डार्थस्य प्राथम्यम्, व्युत्पत्तिदशायां तु उत्तरखण्डार्थस्य फलानुसारेणोपायप्रवृत्तेः, अतो द्वितीयखण्डार्थः प्रथमं विवृतः । तत्र बालकाण्डे प्रथमपदार्थभूतपुरुषकारयोगो दर्शितः, अयोध्याकाण्डे द्वितीयपदार्थभूतसौलभ्यादिगुणयोगः, आरण्यकाण्डे शूर्पणखागमनात्पूर्वभाविवृत्तान्तेन चतुर्थ्यर्थभूता किङ्खरवृत्तिरुक्ता, ततः खरवधान्तवृत्तान्तेन चरमपदार्थभूता विरोधिनिवृत्तिरिति । अथ पूर्वखण्डार्थ उच्यते शास्त्रशेषेण । तत्र चारण्यकाण्डशेषेण विभीषणस्य पुरुषकारसान्निध्यमुच्यते, किष्किन्धाकाण्डेन नारायणपदार्थभूतं वात्सल्यम्, सुन्दरकाण्डेन चरमशब्दोक्तदिव्यमङ्गलविग्रहवैशिष्ट्यम् “रामः कमलपत्त्राक्षः” इत्यादिना तथोक्तेः । युद्धकाण्डे शरणगतिः, उत्तरकाण्डे प्रपन्नचर्येति बोध्यम् । एवमानुषङ्गिकमुनिजनशरणागतिफलं देवशरणागतिकार्यरावणवधाङ्गत्वेनोक्त्वा अथ तन्निमित्तभूतसीतापहाररूपबीजमुपक्षिपति त्वरमाण इत्यादिना । संहृत्य सकलं लोकं पुनः स्रष्टुं च यः क्षमः । तमहं शिरसा वन्दे जानकीप्राणनायकम् ।। त्वरमाणः शूर्पणखागमनापेक्षयेति शेषः । अकम्पनो रावणचारः त्वरमाणो गत्वा वेगेनाब्रवीदित्यन्वयः ।। 3.31.1 ।।
जनस्थानस्थिता राजन् राक्षसा बहवो हताः ।
खरश्च निहतः सङ्ख्ये कथञ्चिदहमागतः ।। 3.31.2 ।।
जनस्थानेति । कथञ्चिदिति स्त्रीवेषधारणेनेति भावः । अत एव शूर्पणखा वक्ष्यति “एका कथञ्चिन्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमानेन राघवेण महात्मना ।।” इति ।। 3.31.2 ।।
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः ।
अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ।। 3.31.3 ।।
एवमिति । क्रुद्धत्वं नारोपितमिति ज्ञापयितुं संरक्तलोचन इत्युक्तम् । कोपातिरेकं दृष्टान्तमुखेनाह निर्दहन्निवेति ।। 3.31.3 ।।
केन रम्यं जनस्थानं हतं मम परासुना ।
को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ।। 3.31.4 ।।
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् ।
प्राप्तुं वैश्रवणेना ऽपि न यमेन न विष्णुना ।। 3.31.5 ।।
केनेति । परा गताः असवः प्राणाः यस्य तेन परासुनेति परुषभाषणमात्रम् । गम्यत इति गतिः स्थानम् ।। 3.31.4,5 ।।
कालस्य चाप्यहं कालो दहेयमपि पावकम् ।
मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ।। 3.31.6 ।।
कालस्यापि काल इत्यत्रोपपत्तिमाह मृत्युमिति ।। 3.31.6 ।।
दहेयमपि सङ्क्रुद्धस्तेजसादित्यपावकौ ।
वातस्य तरसा वेगं निहन्तुमहमुत्सहे ।। 3.31.7 ।।
आदित्यपावकौ परस्परसाहाय्येन संयुक्तावपीत्यर्थः । अतो न पुनरुक्तिः ।। 3.31.7 ।।
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः ।
भयात् सन्दिग्धया वाचा रावणं याचते ऽभयम् ।। 3.31.8 ।।
दशग्रीवो ऽभयं तस्मै प्रददौ रक्षसां वरः ।
स विश्रब्धो ऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः ।। 3.31.9 ।।
पुत्रो दशरथस्या ऽस्ति सिंहसंहननो युवा ।
रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ।। 3.31.10 ।।
वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः ।
हतं तेन जनस्थानं खरश्च सहदूषणः ।। 3.31.11 ।।
सन्दिग्धया सन्दिग्धाक्षरया । याचते अयाचत । अभयमिति च्छेदः ।। 3.31.811 ।।
अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः ।
नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ।। 3.31.12 ।।
नागेन्द्रः सर्पेन्द्रः ।। 3.31.12 ।।
स सुरेन्द्रेण सुंयुक्तो रामः सर्वामरैः सह ।
उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ।। 3.31.13 ।।
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः ।
आचचक्षे बलं तस्य विक्रमं च महात्मनः ।। 3.31.14 ।।
स रामः सुरेन्द्रेणामरैश्च युक्ताः सन् जनस्थानमुपयातः कच्चित्? अन्यथा तस्यैतादृशसामर्थ्यं न युज्यत इति भावः ।। 3.31.13,14 ।।
रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम् ।
दिव्यास्त्रगुणसम्पन्नः पुरन्दरसमो युधि ।। 3.31.15 ।।
इन्द्रादिसहायानपेक्षो राम इत्याशयेनाह रामो नामेत्यादिना । दिव्यास्त्रगुणसम्पन्नः दिव्यास्त्रकृतातिशययुक्तः ।। 3.31.15 ।।
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः ।
कनीयान् लक्ष्मणो नाम भ्राता शशिनिभाननः ।। 3.31.16 ।।
स तेन सह संयुक्तः पावकेनानिलो यथा ।
श्रीमान् राजवरस्तेन जनस्थानं निपातितम् ।। 3.31.17 ।।
तस्येति । रक्ताक्षः रक्तरेखाञ्चितनयनः । दुन्दुभिस्वनः दुन्दुभिवत् गम्भीरस्वनः । संयुक्त इति वर्तत इति शेषः ।। 3.31.16,17 ।।
नैव देवा महात्मानो नात्र कार्या विचारणा ।। 3.31.18 ।।
नैव देवा इति सहायार्थमागता इति शेषः ।। 3.31.18 ।।
शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्ित्रणः ।
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् ।। 3.31.19 ।।
पञ्चाननाः विस्तृतानना भूत्वा भक्षयन्ति स्मेत्युत्प्रेक्षा ।। 3.31.19 ।।
येन येन च गच्छन्ति राक्षसा भयकर्शिताः ।
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् ।
इत्थं विनाशितं तेन जनस्थानं तवानघ ।। 3.31.20 ।।
अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ।। 3.31.21 ।।
राक्षसाः भयकर्शिताः भयपीडिताः सन्तो येन येन मार्गेण गच्छन्ति तेन तेन मार्गेणाग्रतः स्थितं राममेव पश्यन्ति स्म । अत्र विशेषणसामर्थ्याद्रामदर्शनं भयकृतमिति व्यज्यते ।। 3.31.20,21 ।।
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः ।
शृणु राजन् यथावृत्तं रामस्य बलपौरुषम् ।। 3.31.22 ।।
अथेति । यथावृत्तं परमार्थभूतमित्यर्थः ।। 3.31.22 ।।
असाध्यः कुपितो रामो विक्रमेण महायशाः ।
आपगायाः सुपूर्णाया वेगं परिहरेच्छरैः ।। 3.31.23 ।।
असाध्यः अनिग्राह्यः ।। 3.31.23 ।।
सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् ।
असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम् ।। 3.31.24 ।।
सतारेति । ग्रहा नवग्रहाः । नक्षत्राणि सप्तविंशतिनक्षत्राणि । तारास्तदन्यज्योतींषि । अवसादयेत् विशीर्णं कुर्यात् । मज्जन्तीं समुद्र इति शेषः ।। 3.31.24 ।।
भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः ।
वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ।। 3.31.25 ।।
भित्त्वेति । विप्लावयेत् सिञ्चेत् । विधमेत् दहेत् । “घ्मा शब्दाग्निसंयोगयोः” इति धातोर्लिङि धमादेशः ।। 3.31.25 ।।
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः ।
शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ।। 3.31.26 ।।
सहृंत्येति । लोकान् भूरादीन् संहृत्य पुनः स्रष्टुं इमाः प्रजाश्च संहृत्य पुनः स्रष्टुं शक्त इत्यर्थः ।। 3.31.26 ।।
न हि रामो दशग्रीव शक्यो चेतुं त्वया युधि ।
रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ।। 3.31.27 ।।
लोकेन समूहेन ।। 3.31.27 ।।
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि ।
अयं तस्य वधोपायस्तं ममैकमनाः शृणु ।। 3.31.28 ।।
न तमिति । मम मत्तः । एकमनाः सावधानः ।। 3.31.28 ।।
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा ।
श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ।। 3.31.29 ।।
भार्येति । “श्यामा यौवनमध्यस्था” इत्युत्पलः । समं यथा तथा विभक्तानि नेत्रकर्णाद्यङ्गानि यस्याः सा तथोक्ता । स्त्रीरत्नं स्त्रीश्रेष्ठा, अस्तीति शेषः ।। 3.31.29 ।।
नैव देवी न गन्धर्वी नाप्सरा नापि दानवी ।
तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ।। 3.31.30 ।।
देवी देवस्त्री । “पुंयोगादाख्यायाम्” इति ङीष् । एवमुत्तरत्रापि । अप्सरः शब्दः
एकवचनान्तोप्यस्ति । सीमन्तिनी स्त्री ।। 3.31.30 ।।
तस्यापहर भार्यां त्वं प्रमथ्य तु महावने ।
सीतया रहितः कामी रामो हास्यति जीवितम् ।। 3.31.31 ।।
महावने प्रमथ्य विलोड्य येन केनाप्युपायेन रामं वञ्चयेत्यर्थः ।। 3.31.31 ।।
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः ।
चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ।। 3.31.32 ।।
चिन्तयित्वा रामोच्चाटनोपायमिति शेषः ।। 3.31.32 ।।
बाढं काल्यं गमिष्यामि ह्येकः सारथिना सह ।
आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम् ।। 3.31.33 ।।
बाढमित्यङ्गीकारे । काल्यं प्रातः ।। 3.31.33 ।।
अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः ।
रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ।। 3.31.34 ।।
खराः अश्वतराः । तत्स्वरूपमुक्तमश्वशास्त्रे “अश्वसृग्भ्यः समुत्पन्नास्तस्मादश्वतराः खराः । खररूक्षस्वरास्तीक्ष्णाः खरशीलाः खराङ्घ्रयः ।।” इति ।। 3.31.34 ।।
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् ।
सञ्चार्यमाणः शुशुभे जलदे चन्द्रमा इव ।। 3.31.35 ।।
नक्षत्रपथगः आकाशगः । सञ्चार्यमाणः प्रेर्यमाणः ।। 3.31.35 ।।
स मारीचाश्रमं प्राप्य ताटकेयमुपागमत् ।
मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ।। 3.31.36 ।।
ताटकेयं ताटकापुत्रम् । भक्ष्यभोज्यैः पेयखाद्यैः । आमानुषैः मनुष्यलोकदुर्लभैः ।। 3.31.36 ।।
तं स्वयं पूजयित्वा तु आसनेनोदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ।। 3.31.37 ।।
अर्थोपहितया अर्थेन प्रयोजनेन उपहितया विशिष्टया ।। 3.31.37 ।।
कच्चित् सुकुशलं राजन् लोकानां राक्षसेश्वर ।
आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः ।। 3.31.38 ।।
हे राजन् लोकानां राक्षसलोकानां राक्षसेश्वरेति समभिव्याहारादयमर्थो लभ्यते । सुकुशलं कच्चिदिति सामान्येन प्रश्नः । अथ अथवा त्वं यस्तूर्णमिहागतः ततः कारणात् किञ्चिदत्याहितमस्तीत्याशङ्के, तद्विशिष्य न जाने महत्कार्यं विना भवतस्तूर्णमागमनं नोपपद्यत इति भावः । यद्वा लोकानां कच्चित् सुकुशलम् अथ अथवा तेषां कुशलं नेत्याशङ्के यतस्त्वं तूर्णमागतः न जाने तद्विशिष्य न जान इत्यर्थः ।। 3.31.38 ।।
एवमुक्तो महातेजा मारीचेन स रावणः ।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ।। 3.31.39 ।।
एवमुक्त इति । ततः पश्चात् तद्वाक्यादनन्तरम् ।। 3.31.39 ।।
आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा ।
जनस्थानमवध्यं तत् सर्वं युधि निपातितम् ।
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ।। 3.31.40 ।।
राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ।। 3.31.41 ।।
आरक्षः अन्तपालः । उक्तमुपपादयति जनस्थानमित्याद्यर्धेन । जनस्थानशब्देन तत्स्थो रक्षोगणो लक्ष्यते । तत् प्रसिद्धम् । साचिव्यं साहाय्यम् । तस्य मे हृतस्वजनस्य मे ।। 3.31.40,41 ।।
आख्याता केन सीता सा मित्ररूपेण शत्रुणा ।
त्वया राक्षसशार्दूल को न नन्दति निन्दितः ।
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे ।। 3.31.42 ।।
आख्यातेत्याद्यर्धत्रयमेकान्वयम् । यः सीतायाः आख्याता स मित्ररूपः शत्रुः । यश्च तामानयेत्युपदेष्टा सः त्वया निन्दितः सन् तिरस्कृतः सन् त्वदैश्वर्यं न नन्दति तावुभौ ब्रूहीत्यर्थः । ब्रवीहीत्यत्र ईडागमश्छान्दसः ।। 3.31.42 ।।
रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति ।
प्रोत्साहयति कश्चित्त्वां स हि शत्रुरसंशयः ।। 3.31.43 ।।
रक्षोलोकस्येत्यादि । शृङ्गं प्राधान्यम् । “शृङ्गं प्राधान्यसान्वोश्च” इत्यमरः । प्रोत्साहयति सीतानयनं प्रतीति शेषः । स च स एव ।। 3.31.43 ।।
आशीविषमुखाद्दंष्ट्रामुद्धुर्तुं चेच्छति त्वया ।
कर्मणा तेन केना ऽसि कापथं प्रतिपादितः ।। 3.31.44 ।।
सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि ।। 3.31.45 ।।
आशीविषेति । आशीविषः सर्पविशेषः । उद्धर्तुम् उद्धारयितुं क इति शेषः । तेन कर्मणा सीतापहारलक्षणकर्मणा । कापथं कुमार्गम् । “ऋक्पूरब्धूः पथामानक्षे” इति समासान्तः अप्रत्ययः । प्रतिपादितः उपदिष्टो ऽसि । कर्मणा केनेति पाठे केन पुरुषेण केन कर्मणा केनोपायेन कापथं प्रतिपादितो ऽसीत्यन्वयः । मूर्ध्नि केन प्रहृतं केन प्रहारः कृतः । वृथैव केन दुःखमुत्पादितमित्यर्थः ।। 3.31.44,45 ।।
विशुद्धवंशाभिजनाग्रहस्तस्तेजोमदः संस्थितदोर्विषाणः ।
उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती ।। 3.31.46 ।।
रामे कं गुणं दृष्ट्वैवं वदसीत्याशङ्क्याह विशुद्धेति । अनेन रामस्य मत्तगजसमाधिरुच्यते । विशुद्धवंशे अभिजनः अभिजननं तदेवाग्रहस्तो यस्य स तथा । द्वयोरौन्नत्यकरत्वसाम्याद्रूपकं निरूढम् । तेजोमदः तेजः प्रताप एव मदो यस्य सः । तेजोमदयोर्दुर्धर्षताहेतुत्वसाम्याद्रूपकोपपत्तिः ।
उपरितनपदे संस्थितत्वसाम्याद्रूपकम् । संस्थितौ समीचीनसंस्थानवन्तौ दोषौ बाहू एव विषाणे यस्य सः राघव एव गन्धहस्ती मदगजः यस्य गन्धमात्रेणान्ये गजाः पलायन्ते स गन्धहस्तीत्युच्यते । उदीक्षितुमपि इहास्मिन् देशे काले च नयुक्तः ।। 3.31.46 ।।
असौ रणान्तस्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः ।
सुप्तस्त्वया बोधयितुं न युक्तः शराङ्गपूर्णो निशितासिदंष्ट्रः ।। 3.31.47 ।।
पुनरप्यतिशयं वक्तुं रामस्य सिंहसाम्यमाह असाविति । रणान्तो रणाग्रं तत्र स्थितिर्नासीरावस्थानं सैव सन्धिवालो यस्य स तथा सन्दधातीति सन्धिः । “उपसर्गे घोः किः” इति किः । सन्धिभूतः लोमसङ्घभूत इत्यर्थः । वालो लाङ्गूलम् । यद्वा सन्धिर्मध्यः तद्गतो वालो लाङ्गूलं यस्य स तथेति वा । सिंहस्य लाङ्गूलं क्रोधदशायां मध्योपरिप्रदेशे वर्तते इति प्रसिद्धः । तस्य मृगाणां गर्वहेतुत्वेन रणाग्रस्थितिसाम्यम् । विदग्धानि पटूनि रक्षांस्येव मृगाः तान् हन्तीति तथा ब्रह्मादिव्यतिरिक्तेप्युपपदे प्रयोगानुसारात् क्किपि । शराङ्गपूर्णः शरा एवाङ्गानि नखाद्यवयवाः तैः पूर्णः । निशितासिरेव दंष्ट्रे यस्य स तथा नृसिंहो नरश्रेष्ठः सिंह इत्यपि ध्वन्यते । यद्वा नृसिंह एव सिंह इत्येकशेषः । यद्वा विद्वन्मानसहंस इतिवत् श्लिष्टं रूपकम् । यद्वा नृहिंहो रामः पुरुषसिंह इति व्यङ्ग्यम् ।। 3.31.47 ।।
चापावहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे ।
न रामपातालमुखे ऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम् ।। 3.31.48 ।।
सिंहाभिमुखगमने ऽपि दैवादृष्टिवैषम्यान्निवर्तितुं शक्यम् न तु रामाहवगमन इत्याशयेन रामस्य पातालसाम्यमाह चापेति । चाप एवावहारो ग्राहो यस्मिन् स तथा । “ग्राहो ऽवहारः” इत्यमरः । अनेन पतनकाल एव ग्रहणसामग्र्युक्ता । भुजवेगः शरमोक्षणवेगः स एव पङ्को यस्य स तथा अनेन मज्जने निर्गमायोग्यतोक्ता । शरा एवोर्मिमाला तरङ्गपङ्किर्यस्य स तथा । अनेन दुस्तरत्वमुक्तम् । अतिघोरे राम एव पातालं महाबिलं तस्य मुखे मध्ये प्रस्कन्दितुं युक्तम् ।। 3.31.48 ।।
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ ।
त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ।। 3.31.49 ।।
एवमुक्तो दशग्रीवो मारीचेन स रावणः ।
न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम् ।। 3.31.50 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकत्रिंशः सर्गः ।। 31 ।।
एवं वस्तुस्थितिमुक्त्वा प्रेमातिशयेन पुनः पुनः सान्त्वयति प्रसीदेति ।। 3.31.49,50 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकत्रिंशः सर्गः ।। 31 ।।