श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुस्त्रिंशः सर्गः
ततः शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः ।
अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः ।। 3.34.1 ।।
परगोष्ठीप्रसिद्धानां गुणानामाकरो महान् । अनुजो यस्य सौमित्रिस्तमहं राममाश्रये ।। तत इति । सङ्क्रुद्धः शत्रुविषये ऽतीव क्रोधवान् ।। 3.34.1 ।।
कश्च रामः कथंवीर्यः किंरूपः किम्पराक्रमः ।
किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ।। 3.34.2 ।।
कथंवीर्यः कीदृशवीर्यः ।। 3.34.2 ।।
आयुधं किञ्च रामस्य निहता येन राक्षसाः ।
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ।। 3.34.3 ।।
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता ।
ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ।। 3.34.4 ।।
येन खरदूषणत्रिशिरःप्रभृतयो राक्षसा निहतास्तादृशं तदीयमायुधं किं किंरूपम् इति परिपप्रच्छेति पूर्वेणान्वयः ।। 3.34.3,4 ।।
दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ।
कन्दर्पसमरूपश्च रामो दशरथात्मजः ।। 3.34.5 ।।
रामानुजपरवशहृदयापि तदग्रजकृतमहोन्मादहेतुभूतं रामलावण्यं सङ्ग्रहेणाभिधत्ते दीर्घबाहुरित्यादिना ।। 3.34.5 ।।
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् ।
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ।। 3.34.6 ।।
कनकाङ्गदं कनकमयपट्टबन्धम् ।। 3.34.6 ।।
नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान् ।
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ।। 3.34.7 ।।
हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ।
इन्द्रेणोवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ।। 3.34.8 ।।
रक्षसां भीमरूपाणां सहस्राणि चतुर्दश ।
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ।। 3.34.9 ।।
नाददानमिति अत्रादानमोचनविकर्षणानि लक्ष्यन्ते । वेगातिशयेनादानादिकं न पश्यामि, किन्तु हननमेवेति भावः । अश्मवृष्टिभिः करकामयवर्षैः ।। 3.34.79 ।।
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ।। 3.34.10 ।।
अर्धाधिकमुहूर्तेन घटिकात्रयेण ससैन्यः खरो हत इत्यर्थः ।। 3.34.10 ।।
एका कथञ्चिन्मुक्ताहं परिभूय महात्मना ।
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ।। 3.34.11 ।।
एकेति । स्त्रीवधं शङ्कमानेन स्त्रीवधो भविष्यतीति शङ्कमानेनेत्यर्थः ।। 3.34.11 ।।
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः ।
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ।। 3.34.12 ।।
अनुरक्तः अनुरागवान् । भक्तः तत्कार्यभजनशीलः ।। 3.34.12 ।।
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ।। 3.34.13 ।।
दक्षिणो बाहुरित्यनेन सर्वकार्यधुरन्धरत्वमुक्तम् । प्राणत्वरूपणेन निरतिशयप्रेमास्पदत्वम् । अनुरक्त इत्यस्य दृष्टान्तो ऽयमिति न पुनरुक्तिः ।। 3.34.13 ।।
राम्सय तु विशालाक्षी पूर्णेन्दुसदृशानना ।
धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ।। 3.34.14 ।।
रामस्य प्रियास्तीत्यन्वयः ।। 3.34.14 ।।
सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।
देवतेव वनस्यास्य राजते श्रीरिवापरा ।। 3.34.15 ।।
तां वर्णाति सेत्यादिना । यशस्विनी उक्तरूपादिमत्त्वकीर्तिमती । वनस्य देवतेव स्थिता श्रीरिव राजते ।। 3.34.15 ।।
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा ।
सीता नाम वरारोहा वैदेही तनुमध्यमा ।। 3.34.16 ।।
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनवर्णतुल्या आभा यस्याः सा । वैदेही विदेहराजेन पुत्रीकृता ।। 3.34.16 ।।
नैव दैवी न गन्धर्वी न यक्षी न च किन्नरी ।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।। 3.34.17 ।।
एवंरूपा देवी च न दृष्टपूर्वा गन्द्रर्वी च न दृष्टपूर्वा किन्नरी च न दृष्टरूर्वा एवंरूपा नारी महीतले ऽपि न दृष्टपूर्वा इत्यन्वयः । उत्तरार्धे महीतल इत्यनेन पूर्वार्धे स्वर्गलोक इति सिद्धम् । देव्यादीनां तत्रैव वाससम्भवात् । यद्वा महीतल इति सर्वलोकोपलक्षणम् ।। 3.34.17 ।।
यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ।
अतिजीवेत् स सर्वेषु लोकेष्वपि पुरन्दरात् ।। 3.34.18 ।।
परिष्वङ्गं विना भार्यात्वेन स्थिता चेत् सः सर्वेषु लोकेषु सर्वानपि लोकान् । अतिजीवेत् अतीत्य जिवेत् । सर्वलोकोत्तीर्णपरमसुखमयजीवन इत्यर्थः । परिष्वङ्गाभावे ऽपि सदा सन्निधानादिसौक्यादिति भावः । भार्यात्वं विनापि यं सकृत् परिष्वजेत् सः पुरन्दरादपि पुरन्दरमपि अतिजीवेत् अतिशय्य जीवेत् ।। 3.34.18 ।।
सा सुशीला वपुःश्लाध्या रूपेणाप्रतिमा भुवि ।
तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः ।। 3.34.19 ।।
सा सुशीलेति । वपुः श्लाध्या वपुषा श्लाध्या, सर्वानवद्याङ्गीत्यर्थः ।। 3.34.19 ।।
तां तु विस्तीर्णजघनां पीनश्रोणीपयोधराम् ।
भार्यार्थे च तवानेतुमुद्यताहं वराननाम् ।
विरूपिता ऽस्मि क्रूरेण लक्ष्मणेन महाभुज ।। 3.34.20 ।।
तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ।
मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि ।। 3.34.21 ।।
यदि तस्यामभिप्रायो भार्यार्थे तव जायते ।
शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ।। 3.34.22 ।।
कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ।
वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ।। 3.34.23 ।।
तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ।
हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि ।। 3.34.24 ।।
विस्तीर्णजघनां विशालजघनां तव चेत्यन्वयः ।। 3.34.2024 ।।
रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर ।
क्रियतां निर्विशङ्केन वचनं मम रावण ।। 3.34.25 ।।
रोचत इति । ते तुभ्यम् । “रुच्यर्थानां प्रीयमाणः” इति चतुर्थी । निर्विशङ्केन त्वयेति शेषः ।। 3.34.25 ।।
विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् ।
सीता सर्वानवद्याङ्गी भार्यार्थे राक्षसेश्वर ।। 3.34.26 ।।
विज्ञायेति । आत्मशक्तिं स्वबलम् । “शक्तिर्बले प्रभावादौ” इति विश्वः । विज्ञाय पर्यालोच्य । बलात् पौरुषेण सीता भार्यार्थे ह्रियताम् ।। 3.34.26 ।।
निशम्य रामेण शरैरजिह्मगैर्हतान् जनस्थानगतान्निशाचरान् ।
खरं च बुध्वा निहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ।। 3.34.27 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुस्त्रिंशः सर्गः ।। 34 ।।
उक्तमर्थं सर्गान्ते पुनः सङ्गृह्णाति निशम्येति । प्रतिपत्तुं ज्ञातुम् ।। 3.34.27 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ।। 34 ।।