श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चत्रिंशः सर्गः
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।
सचिवानभ्यनुज्ञाय कार्यं बुध्वा जगाम सः ।। 3.35.1 ।।
यद्वाहनस्य माहात्म्यं सर्वेषां विस्मयावहम् । अवतीर्णं रघोर्वंशे तमहं विष्णुमाश्रये ।। तत इति । रोमहर्षणं भयोत्पादकत्वेन रोमाञ्चकरम् । सचिवमुखेन कार्यं बुद्धा तानभ्यनुज्ञाय विसृज्य ।। 3.35.1 ।।
तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।। 3.35.2 ।।
इतिकर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ।। 3.35.3 ।।
तदित्यादिश्लोकद्वयमेकान्वयम् । अनुगम्य स्वयमनुसन्धाय, पर्यालोच्येत्यर्थः । यथावदुपलभ्य इदमित्थमिति निश्चित्य । पुनरपि दार्ढ्याय गुणदोषप्राबल्यदौर्बल्यविषयचिन्तां निर्णयान्तां दर्शयति दोषाणां चेति । इदमत्र सम्प्रधार्य स्वेन चिकीर्षितं सीतापहारलक्षणं कार्यं किं पौरुषेण सुकरम् आहोस्विच्चौर्येण कर्तव्यमिति । कतरस्मिन् पक्षे दोषाल्पत्वं गुणभूयस्त्वमिति, तत्र पौरुषेण कर्तुमशक्यम्, खरादियुद्धे रामस्याचिन्त्यपराक्रमत्वेन श्रुतत्वात् । उपायपरिकल्पितचौर्याश्रयणे तादात्विकदोषा न लक्ष्यन्ते सीतारहितेन तद्व्यसनिना रामेण कापि हानिर्न सम्भाव्यते तस्मादयमेव पक्षः सम्यगिति एवं निश्चित्य प्रावर्ततेत्यर्थः । स्थिरबुद्धिः निश्चलबुद्धिः । यानशालाम् अश्वशालाम् ।। 3.35.2,3 ।।
यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः ।
सूतं सञ्चोदयामास रथः संयोज्यतामिति ।। 3.35.4 ।।
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः ।
रथं संयोजयामास तस्याभिमतमुत्तमम् ।। 3.35.5 ।।
काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ।
पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः ।। 3.35.6 ।।
मेघप्रतिमनादेन स तेन धनदामुजः ।
राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ।। 3.35.7 ।।
स श्वेतवालव्यजनः श्वेतच्छत्त्रो दशाननः ।
स्निग्धवैडूर्यसङ्काशस्तप्तकाञ्चनकुण्डलः ।। 3.35.8 ।।
विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः ।
त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ।। 3.35.9 ।।
यानशालामिति । प्रच्छन्न इति प्रकाशश्चेद्वृद्धा मन्दोदर्यादयश्च वारयिष्यन्तीति भावः । यद्वा पौरुषं विहाय चौर्यमार्गाश्रयणं लज्जावहमिति प्रच्छन्नमार्गाश्रयणम् । यद्वा तत इत्यादि सचिवान् तदानीं सभास्थितान् विसृज्य स्वयं कार्यं बुद्धेत्यर्थः । अत एव सचिवैः पर्यालोचनाभावात् प्रच्छन्न इत्युक्तम् । अत एव कुम्भकर्णादिभिरुच्यते सचिवैरमन्त्रयित्वा कृतस्य कथमिदानीं प्रतीकार इति । खरलक्षणं पूर्वमुक्तम् ।। 3.35.49 ।।
कामगं रथमास्थाय शुशुभे राक्षसेश्वरः ।
विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे ।। 3.35.10 ।।
विद्युत्स्थाने आभरणानि, मेघस्थाने रावणः, बलाहकस्थाने अलङ्कृतरथः ।। 3.35.10 ।।
सशैलं सागरानूपं वीर्यवानवलोकयन् ।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ।। 3.35.11 ।।
सशैलं शैलसहितम् । सागरानूपं समुद्रतीरम् ।। 3.35.11 ।।
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः ।
विशालैराश्रमपदैर्वेदिमद्भिः समावृतम् ।। 3.35.12 ।।
मङ्गलतोयाभिः शुभजलाभिः । पद्मिनीभिरिति समावृतमित्यनुकर्षः ।। 3.35.12 ।।
कदल्याढकिसम्बाधं नालिकेरोपशोभितम् ।
सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ।। 3.35.13 ।।
आढाकिः सूपोपयुक्तधान्यस्तम्बः ।। 3.35.13 ।।
नागैः सुपर्णैर्गन्धर्वैः किन्नरैश्च सहस्रशः ।
अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ।। 3.35.14 ।।
अत्यन्तनियताहारैः शोभितं परमर्षिभिः ।
जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ।। 3.35.15 ।।
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।
क्रीडारतिविधिज्ञाभिरप्सरोभिः सहस्रशः ।। 3.35.16 ।।
सुपर्णैः गरुडैः । अजैः अयोनिजैः । वैखानसैः ब्रह्मनखजैः । “ये नखास्ते वैखानसाः” इति श्रुतेः । माषैः माषगोत्रजैः । वालखिल्यैः ब्रह्मवालजैः । “ये वालास्ते वालखिल्याः” इति श्रुतेः । मरीचिपैः रविकिरणपानव्रतनिष्ठैः ।। 3.35.1416 ।।
सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् ।
देवदानवसङ्घैश्च चरितं त्वमृताशिभिः ।। 3.35.17 ।।
अमृताशिभिः देवैश्चेति शेषः । यद्वा “ऋतामृताभ्यां जीवेत” इत्युक्तायाचितलब्धाशिभिः । “ऋतमुञ्छशिलं प्रोक्तममृतं स्यादयाचितम् ।” इति मनुः ।। 3.35.17 ।।
हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रणादितम् ।
वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ।। 3.35.18 ।।
प्लवाः जलकुक्कुटाः मण्डूका इत्यप्याहुः । वैडूर्यप्रस्तरं वैडूर्यमयाः प्रस्तराः शिलाः यस्मिन् तम् । “पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्” इत्यमरः ।। 3.35.18 ।।
पाण्डराणि विशालानि दिव्यमाल्ययुतानि च ।
तूर्यगीताभिजुष्टानि विमानानि समन्ततः ।। 3.35.19 ।।
तपसा जितलोकानां कामगान्यभिसम्पतन् ।
गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ।। 3.35.20 ।।
तपसा जितलोकानां पुरुषाणां विमानानीत्यन्वयः । अभिसम्पतन् मार्गवशात् प्राप्नुवन् । सशैलं नाना पुष्पफलैर्वृक्षैरनुकीर्णमित्यारम्य सागरतेजसा स्निग्धमित्यन्तविशेषणविशिष्टं सागरानूपमवलोकयन् पाण्डरत्वादिविशेषणविशिष्टानि । तपसा जितलोकानां विमानान्यभिसम्पतन् गन्धर्वाप्सरसो ददर्शेत्यन्वयः ।। 3.35.19,20 ।।
निर्यासरसमूलानां चन्दनानां सहस्रशः ।
वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ।। 3.35.21 ।।
अगरूणां च मुख्यानां वनान्युपवनानि च ।
तक्कोलानां च जात्यनां फलानां च सुगन्धिनाम् ।। 3.35.22 ।।
पुष्पणि च तमालस्य गुल्मानि मरिचस्य च ।
मुक्तानां च समूहानि शुष्यमाणानि तीरतः ।। 3.35.23 ।।
शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा ।
काञ्चनानि च शैलानि राजतानि च सर्वशः ।। 3.35.24 ।।
प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च ।
धनधान्योपपन्नानि स्त्रीरत्नैः शोभितानि च ।। 3.35.25 ।।
हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ।
तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ।
अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ।। 3.35.26 ।।
निर्यासरसमूलानामित्यादिसार्धश्लोकषट्कमेकान्वयम् । निर्यासरसमूलानां हिङ्गुरूपनिर्यासरसयुक्तमूलानां मूलाख्यौषधीविशेषाणाण् । मूलाख्यौषधीमूलाद्धिङ्गुरूपनिर्यासा उत्पद्यन्त इति प्रसिद्धिः । वनानि अकृत्रिमाणि । उपवनानि कृत्रिमाणि । तक्कोलानां गन्धद्रव्याणाम् । जात्यानां जातिभवानाम् । फलानां जातिफलानामित्यर्थः । सुगन्धिनाम् उपवनानीत्यन्वयः । गुल्मानि स्तम्बान् । मरिचस्य मरीचस्य । समूहानीति नपुंसकत्वमार्षम् । शुष्यमाणानि चिरसङ्गतत्वेनानार्द्राणीत्यर्थः । तीरतः तीरे । शैलानीति नपुंसकत्वमार्षम् । तथा प्रस्रवह्रदशब्दयोः । प्रस्तरं समूहं निचयं समूहम् । प्रस्रवाणि प्रस्रवणानि निर्झरानित्यर्थः । गाढानि निबिडानि । एवं बहुधा सागरानूपवर्णनं पुनर्बहुदूरमार्गगमनप्रयासेन मारीचोपदेशान्निवर्त्याध्यवसायविशेषं व्यञ्जयितुम् ।। 3.35.2126 ।।
तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ।
समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ।। 3.35.27 ।।
यस्य वाहनप्रभावोप्यपरिच्छेद्यस्तेन रामेण विरुणद्धि रावणो मूढ इति परिहसन्नाह तत्रापश्यदित्यादिना । ताः प्रसिद्धाः ।। 3.35.27 ।।
यस्य हस्तिनमादाय महाकायं च कच्छपम् ।
भक्षार्थं गरुडः शाखामाजगाम महाबलः ।। 3.35.28 ।।
तस्य तां सहसा शाखां भारेण पतगोत्तमः ।
सुपर्णः पर्णबहुलां बभञ्ज च महाबलः ।। 3.35.29 ।।
यस्येति । गरुडः महाकायं महाप्रमाणम् । हस्तिनं गजं कच्छपं चादाय यस्य शाखामाजगामेत्यन्वयः । भारेण बभ़ञ्ज न तु यत्नेनेत्यर्थः । महागजकच्छपवहनात् भारेण शाखा भग्नाभूदित्यर्थः ।। 3.35.28,29 ।।
तत्र वैखानसा माषा वालखिल्या मरीचिपाः ।
अजा बभूवुर्धूम्राश्च सङ्गताः परमर्षयः ।। 3.35.30 ।।
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ।
जगामादाय वेगेन तौ चौभौ गजकच्छपौ ।। 3.35.31 ।।
तत्र शाखाया अधः प्रदेशे ये सङ्गताः मरीचिपाः रविकिरणपानव्रताः, धूम्राः धूमपाः तेषां दयार्थं शाखापातेन पीडा माभूदिति तदुनुग्रहार्थमित्यर्थः । एकपादेन आदाय अवष्टभ्येत्यर्थः । भक्षयित्वा आकाश एवेति शेषः ।। 3.35.30,31 ।।
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ।
निषादविषयं हत्वा शाखया पतगोत्तमः ।। 3.35.32 ।।
प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ।। 3.35.33 ।।
[शाखानिपातभीतांश्च शाखां चोत्सृज्य सर्ववित् ।।]
आमिषं गजकच्छपरूपं मांसम् । निषादविषयं निषादग्रामं शाखया हत्वा तानपि भक्षयित्वा महामुनीन् वैखानसादीन् निषादविषयस्थब्राह्मणान् वा निषादैः पीड्यमानान्वा, तद्रक्षणार्थमेव तद्धननमिति भावः । तादृशशाखारूपप्रहरणलाभेन तदैव मुनिबाधकनिषाददैशं सर्वं हत्वा शिष्टपालनाद्दुष्टनिग्रहाच्चातुलं प्रहर्षं लेभ इति भावः ।। 3.35.32,33 ।।
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।
अमृतानयनार्थं वै चकार मतिमान् मतिम् ।। 3.35.34 ।।
तेनैव भक्षणजन्येनेत्यर्थः ।। 3.35.34 ।।
अयोजालानि निर्मथ्य भित्त्वा रत्नमयं गृहम् ।
महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ।। 3.35.35 ।।
अयोजालानि अयोनिर्मितजालकानि । निर्मथ्य ध्वंसयित्वा तदन्तर्वर्तिरत्नमयं गृहं भित्त्वा ततः तदन्तरे गुप्तममृतं महेन्द्रभवनादाजहार ।। 3.35.35 ।।
तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ।
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ।। 3.35.36 ।।
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।
ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे ।। 3.35.37 ।।
सुपर्णकृतलक्षणं सुपर्णेन गरुडेन कृतं भग्नैकशाखत्वरूपं लक्षणं चिह्नं यस्य ।। 3.35.36,37 ।।
तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ।
ददर्श नियताहारं मारीचं नाम राक्षसम् ।। 3.35.38 ।।
तत्रेति । कृष्णाजिनेत्यादिना रामभक्ततया जनितवैराग्यचिह्नोक्तिः ।। 3.35.38 ।।
स रावणः समागम्य विधिवत्तेन रक्षसा ।
मारीचेनार्चितो राजा सर्वकामैरमानुषैः ।। 3.35.39 ।।
तं स्वयं पूजयित्वा तु भोजनेनोदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ।। 3.35.40 ।।
समागम्य मारीचं प्राप्य । सर्वकामैः सर्वभोग्यवस्तुभिः अर्चितो बभूव ।। 3.35.39,40 ।।
कच्चित् सुकुशलं राजन् लङ्कायां राक्षसेश्वर ।
केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ।। 3.35.41 ।।
एवं तूर्णम् एकाकितया शीघ्रम् ।। 3.35.41 ।।
एवमुक्तो महातेजा मारीचेन स रावणः ।
तं तु पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ।। 3.35.42 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चत्रिंशः सर्गः ।। 35 ।।
एवमिति । इदम् उत्तरसर्गे वक्ष्यमाणम् ।। 3.35.42 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ।। 35 ।।