[highlight_content]

39 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्वारिंशः सर्गः

एवमस्मि तदा मुक्तः कथञ्ित्तेन संयुगे ।

इदानीमपि यद्वृतं त्छृणुष्व निरुत्तरम् ।। 3.39.1 ।।

अपराधविहीनेषु नापराधं करोति यः । दयालुं सर्वभूतेषु तमहं राममाश्रये ।। एवमित्यादि । इदानीमपि । यद्वृत्तं मद्विषयमभूत् तत् निरुत्तरं शृणुष्व मध्ये वाक्यावि्छेदाकरणेन शृण्वित्यर्थः । यदुत्तरमिति पाठे यत्सर्वान्तोत्तरं तदतिरिक्तासाध्यं तदपि शृण्वित्यर्थः ।। 3.39.1 ।।

राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः ।

सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ।। 3.39.2 ।।

राक्षसाभ्यामिति । तथाकृतः उक्तरीत्या प्राणसङ्कटं प्रापितो ऽपि । अनिर्विण्णः निर्वेदरहितः,

निर्वेदो निष्फलत्वधीः । अप्राप्ततद्विषयप्रवृत्तिवैराग्य इत्यर्थः ।। 3.39.2 ।।

दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः ।

व्यरं दण्डकारण्यं मांसभक्षो महामृगः ।। 3.39.3 ।।

अग्निहोत्रेषु तीर्थेषु ैत्यवृक्षेषु रावण ।

अत्यन्तघोरो व्यरं तापसान् सम्प्रधर्षयन् ।। 3.39.4 ।।

निहत्य दण्डकारण्ये तापसान् धर्मारिणः ।

रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् ।। 3.39.5 ।।

ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोरान् ।

तथा रुधिरमत्तोहं विरन् धर्मदूषकः ।। 3.39.6 ।।

आसादयं तदा रामं तापसं धर्मारिणम् ।

वैदेहीं महाभागां लक्ष्मणं महारथम् ।। 3.39.7 ।।

दीप्तजिह्वा इत्यादिविशेषणत्रयेण निरपेक्षहननसाधनभूयस्त्वं विवक्ष्यते ।। 3.39.37 ।।

तापसं नियताहारं सर्वभूतहिते रतम् ।

सो ऽहं वनगतं रामं परिभूय महाबलम् ।। 3.39.8 ।।

तापसो ऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् ।

अभ्यधावं हि सङ्क्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ।। 3.39.9 ।।

जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ।

तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः ।

विकृष्य बलवापं सुपर्णानिलनिस्वनाः ।। 3.39.10 ।।

रामपराक्रमं जानन्नपि कथं तत्परिभवायोद्युक्त इत्यत्राह तापसो ऽयमिति । ज्ञात्वेति तापसत्वादहिंसापरेण भवितव्यमिति विश्वस्येत्यर्थः । एवंविधदुर्व्यापारप्रयोजकं वैरस्मरणम् अकृता अप्रवर्तिता प्रज्ञा बुद्धिर्यस्य सः ।। 3.39.810 ।।

ते बाणा वज्रसङ्काशाः सुमुक्ता रक्तभोजनाः ।

आजुग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः ।। 3.39.11 ।।

सर्वे इति प्रयोगयौगपद्यार्थमुक्तम् । सन्नतपर्वणः सन्नतपर्वाणः ।। 3.39.11 ।।

पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा ।

समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ।। 3.39.12 ।।

दृष्टं भयं येन करणेन स दृष्टभयः । उद्भ्रान्तः पलाय्य गतः । मुक्त इति पलायितेषु रामशराप्रवृत्तेरिति भावः । रामस्येति पदं काकाक्षिन्यायात् पूर्वोत्तरपदयोरन्वेति । यतः मया रामस्य शरः पुरा दृष्टभयः ततः रामस्य पराक्रमज्ञो ऽहं समुद्भ्रान्तः सन् मुक्तः । रामपराक्रमाज्ञौ तावुभौ राक्षसौ तु हतावित्यन्वयः ।। 3.39.12 ।।

शरेण मुक्तो रामस्य कथञ्ित्प्राप्य जीवितम् ।

इह प्रव्राजितो युक्तस्तापसो ऽहं समाहितः ।। 3.39.13 ।।

प्रव्राजितः कृतसकलदुर्वृत्तपरित्याग इत्यर्थः । युक्तः उितारणः । तापसः तपोनिष्ठः । समाहितः नियतमनस्कः ।। 3.39.13 ।।

वृक्षे वृक्षे पश्यामि ीरकृष्णाजिनाम्बरम् ।

गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ।। 3.39.14 ।।

वृक्षे वृक्षे इति । “हृदयान्नापयातो ऽसि दिक्षु सर्वासु दृश्यसे ।” “रामभूतं जगदभूद्रामे राज्यं प्रशासति ।” इत्यादाविव शोकरागभयादिजनितनिरन्तरसन्तन्यमानिन्तासक्तस्य साक्षात्कारोपपत्तिः । भयस्योत्तरोत्तरभूमिकाभिप्रायेण दर्शनस्याप्युत्तरोत्तरदशेत्यनुसन्धेयम् ।। 3.39.14 ।।

अपि रामसहस्राणि भूतः पश्यामि रावण ।

रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ।। 3.39.15 ।।

एकस्यैव रामस्य प्रतिवृक्षं गत्वा गत्वा दृश्यमानत्वमु्यत इति भ्रमं वारयति अपीति । न केवलं प्रतिवृक्षं किन्तु सर्वत्र प्रदेश इत्याह रामभूतमिति ।। 3.39.15 ।।

राममेव हि पश्यामि रहिते राक्षसाधिप ।

दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विेतनः ।। 3.39.16 ।।

नेदं रामस्य मायाकृतमित्याह राममेवेति । रहिते रामरहिते प्रदेशे । न केवलं जाग्रद्दशायामेव प्रतीतो ऽयं किन्तु स्वप्नदशायामपीत्याह दृष्ट्वेति । उद्भ्रमामि भ्रान्तं प्रलापं करोमीत्यर्थः ।। 3.39.16 ।।

रकारादीनि नामानि रामत्रस्तस्य रावण ।

रत्नानि रथाश्ैव त्रासं सञ्जनयन्ति मे ।। 3.39.17 ।।

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ।

बलिं वा नमुिं वापि हन्याद्धि रघुनन्दनः ।। 3.39.18 ।।

न केवलं दर्शनदशायां भीतिकार्यम्, श्रवणदशायामपीत्याह रकारादीनीति । कारप्रत्ययश्छान्दसः । रेफादीनि यानि रत्नादीनि नामानि तेषामाद्याक्षरोारणे राममेवायमब्रवीदिति त्रासो जायते । द्वितीयाक्षरोारणे शनैः स निवर्तत इति भावः ।। 3.39.17,18 ।।

रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस ।

न ते रामकथा कार्या यदि मां द्रष्टुमि्छसि ।। 3.39.19 ।।

यदि वैरनिर्यातनं कर्तुमि्छसि तदा रामेण रणे युद्ध्यस्व । यद्वा क्षमां कुरु खरादिवधं सहस्व सर्वथा ौरव्यापारो न कर्तव्य इति भावः । हितं ाह न त इति । रामकथा रामप्रसङ्गो ऽपि । ते त्वया न कार्या यदि मां द्रष्टुमि्छसि जीवितुमि्छसीत्यर्थः ।। 3.39.19 ।।

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ।

परेषामपराधेन विनष्टाः सपरि्छदाः ।। 3.39.20 ।।

लोकन्यायमाह बहव इति । युक्ताः सम्यगााराः धर्मम् अनुष्ठिताः अनुष्ठितवन्तः साधवो ऽपि परेषामपराधेन विनष्टाः असत्संसर्गदोषेणेत्यर्थः ।। 3.39.20 ।।

सो ऽहं तवापराधेन विनश्येयं निशार ।

कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह ।। 3.39.21 ।।

सामान्यन्यायं स्वविषये दर्शयति सो ऽहमिति । सो ऽहं साधुभूतो ऽहम् । यत्ते क्षमं यत्त्वया कर्तुं शक्यं तत् त्वमेव कुरु । अहं त्वा त्वां नानुयामि अनर्थस्य निश्ितत्वादित्यर्थः ।। 3.39.21 ।।

रामश् हि महातेजा महासत्त्वो महाबलः ।

अपि राक्षसलोकस्य न भवेदन्तको ऽपि सः ।। 3.39.22 ।।

तत्र हेतुमाह रामश् हीति । हिः प्रसिद्धौ । अपिः कामारकरणे “अपिः सम्भावनाप्रश्नशङ्कागर्हासमु़ये । तथा युक्तपदार्थेषु कामारप्रियासु ” इति विश्वः । द्वितीयो ऽपिशब्दः अवधारणे ।। 3.39.22 ।।

यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ।

अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।। 3.39.23 ।।

अत्र ब्रूबि यथातत्त्वं को रामस्य व्यतिक्रमः ।। 3.39.24 ।।

खरवधेन नाग्रहः कार्य इत्याह यदीति । सीतापरिभवकरणेन शूर्पणखा विरूपिता खरश्ातिवृत्तो रामस्योपरि गत्वा प्रहारोद्युक्तो रामेण हतः अत्र रामस्य व्यतिक्रमः कः? न कोपीत्यर्थः ।। 3.39.23,24 ।।

इदं वो बन्धुहितार्थिना मया यथो्यमानं यदि नाभिपत्स्यसे ।

सबान्धवस्त्यक्ष्यसि जीवितं रणे हतो ऽद्य रामेण शरैरजिह्मगैः ।। 3.39.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्वारिंशः सर्गः ।। 39 ।।

अवश्यं वक्तव्यमर्थं पुनर्निष्कृष्य दर्शयति इदमिति । यथो्यमानं परमार्थत उ्यमानम् । नाभिपत्स्यसे नाङ्गीकरोषि ।। 3.39.25 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनत्वारिंशः सर्गः ।। 39 ।।

Languages

Related Parts

error: Content is protected !!