श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चत्वारिंशः सर्गः
मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः ।
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ।। 3.40.1 ।।
यस्य तत्त्वं समुद्दिष्टं नाभिजानन्ति दुर्जनाः । तमहं शिरसा वन्दे रघुनाथं गुणार्णवम् ।। मारीचेन त्वित्यादि । क्षमं निवर्तनसमर्थम् । युक्तं कार्यम् ।। 3.40.1 ।।
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।
अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ।। 3.40.2 ।।
पथ्यम् अनपायम् । हितं सुखावहम् । अयुक्तम् अयुक्तार्थम् ।। 3.40.2 ।।
यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते ।
वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे ।। 3.40.3 ।।
अयुक्तार्थं राजचित्तप्रतिकूलत्वादनुचितार्थम् । उप्तं निक्षिप्तम् ।। 3.40.3 ।।
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे ।
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ।। 3.40.4 ।।
रामस्य संयुगे विषये मां भेत्तुं सीतापहरणोपायाद्युद्धे मां प्रवर्तयितुं त्वद्वाक्यैर्न शक्यम् । तत्र हेतुत्रयं पापेत्यादि । पापशीलत्वान्मूर्खत्वाद्विशेषतो मानुषत्वाच्च । तेन नाहं योद्धुमर्हः किन्तु तद्भार्यापहरणमेव तदपकाराय प्रतिक्रियेति भावः ।। 3.40.4 ।।
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ।
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ।। 3.40.5 ।।
अवश्यं तु मया तस्य संयुगे खरघातिनः ।
प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ।। 3.40.6 ।।
मूर्खत्वमुपपादयति यदिति । प्राकृतम् असारम् । स्त्रीवाक्यं कैकेयीवाक्यम् । एकपदे उत्तरक्षणे । प्राणैः प्राणेभ्यः । प्रियतरा तत्प्राणापहरणादपि वरं तत्स्त्रियो ऽपहरणमिति भावः । तव सन्निधौ सति हर्तव्या त्वत्सन्निधिमुखेन हर्तव्येत्यर्थः ।। 3.40.5,6 ।।
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते ।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ।। 3.40.7 ।।
निश्चिता निश्चयरूपा । सेन्द्रैः किं पुनस्त्वयेति भावः ।। 3.40.7 ।।
दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि ।
अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ।। 3.40.8 ।।
अपिचापृष्टोत्तरप्रलापस्तवासङ्गत इत्याह दोषमिति । कार्यनिश्चये विषये कौ गुणदोषौ तत्साधने कावुपायाविति पृष्टश्चेदुत्तरं वक्तुमर्हसि । नास्माकं तज्जिज्ञासा ततो नैवं वुक्तुं युक्तमित्यर्थः ।। 3.40.8 ।।
सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
उद्यताञ्जलिना राज्ञे य इच्छेद्भूतिमात्मनः ।। 3.40.9 ।।
प्रसङ्गाद्राजसन्निधौ विज्ञापनप्रक्रियां दर्शयति सम्पृष्टेनेत्यादिना । विपश्चिता विदुषा । राजसेवाप्रकारज्ञेनेति यावत् । भूतिम् ऐश्वर्यम् ।। 3.40.9 ।।
वाक्यमप्रतिकूलं तु मृदुपूर्वं हितं शुभम् ।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ।। 3.40.10 ।।
एवं वक्तृगुणा उक्ताः, अथ वचनप्रकारमाह वाक्यमिति । उपचारेण युक्तं बहुमानेन पुरस्कृतम्, हितमप्युचारपूर्वं वक्तव्यमित्यर्थः ।। 3.40.10 ।।
सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते ।
नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् ।। 3.40.11 ।।
प्रकारान्तरेण न वक्तव्यमित्याह सावमर्दमिति । सावमर्दं तिरस्कारसहितम् ।। 3.40.11 ।।
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च ।। 3.40.12 ।।
पञ्च रूपाणि अग्न्यादिपञ्चकस्य यानि रूपाणि तानि धारयन्तीत्यर्थः ।। 3.40.12 ।।
औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ।
धारयन्ति महात्मानो राजानः क्षणदाचर ।
तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ।। 3.40.13 ।।
तान्येवाह औष्ण्यमिति । औष्ण्यं तैक्ष्ण्यम् । सौम्यम् आह्लादकरत्वम् । दण्डं दुष्टनिग्रहम् । मान्याः मनसा पूज्याः । पूज्याः वाचा बहुमन्तव्याः ।। 3.40.13 ।।
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।
अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि ।। 3.40.14 ।।
सामान्यत उक्तमर्थं प्रकृते सङ्गमयति त्वं त्विति । धर्मं राजधर्मम् । मोहम् अज्ञानम् । दौरात्म्यात् दौर्जन्यात् ।। 3.40.14 ।।
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ।
मयोक्तं तव चैतावत्सम्प्रत्यमितविक्रम ।। 3.40.15 ।।
तर्हि कथं मया वक्तव्यमित्यत्राह गुणेति । गुणदोषौ आत्मनि क्षेमं च न पृच्छामि किन्तु सम्प्रति मया तव तुभ्यं मयोक्तमेतावत् ।। 3.40.15 ।।
अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ।
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ।। 3.40.16 ।।
किन्तदित्यत्राह अस्मिन्निति । कृत्ये कार्ये । शृण्विति साहाय्ये करणीये यत्कार्यं तद्वचनं तद्विषयवचनं शृणु ।। 3.40.16 ।।
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।। 3.40.17 ।।
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ।। 3.40.18 ।।
प्रमुखे अग्रे ।। 3.40.17,18 ।।
त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया ।
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ।। 3.40.19 ।।
किं तस्य प्रयोजनं तत्राह त्वामिति ।। 3.40.19 ।।
अपक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर ।
हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ।। 3.40.20 ।।
अपक्रान्त इति अनुरूपकम् । स्वार्थे कप्रत्ययः ।। 3.40.20 ।।
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ।
अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात् ।। 3.40.21 ।।
पदवीं मार्गम् ।। 3.40.21 ।।
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।
आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव ।। 3.40.22 ।।
एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ।
राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत ।। 3.40.23 ।।
अपक्रान्त इति । यथासुखं यत्नं विना ।। 3.40.22,23 ।।
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये ।
अहं त्वा ऽनुगमिष्यामि सरथो दण्डकावनम् ।। 3.40.24 ।।
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् ।
लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ।। 3.40.25 ।।
मार्गं मृगसम्बन्धिरूपम् । शिवं मनोहरम् । गच्छ प्राप्नुहि ।। 3.40.24,25 ।।
न चेत् करोषि मारीच हन्मि त्वामहमद्य वै ।
एतत्कार्यमवश्यं मे बलादपि करिष्यसि ।
राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ।। 3.40.26 ।।
बलादपि करिष्यसि अनिच्छतापि त्वया सर्वथा अहमेत्यकार्यं कारिष्यामीत्यर्थः । विपक्षे बाधकमाह राज्ञ इति ।। 3.40.26 ।।
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुद्ध्य ।
एतद्यथावत्प्रतिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम् ।। 3.40.27 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चत्वारिंशः सर्गः ।। 40 ।।
कार्यकरणाकरणयोर्गुणदोषै दर्शयति आसाद्येति । तं रामम् । आसाद्य मृगरूपेण प्राप्य । जिवीतस्य संशयः दैवाज्जीवितं लभ्येतापि, मद्विरोधे तु जीवितहानिरेव स्यात् । प्रतिगृह्य निश्चित्य । अत्र कार्यद्वये । यत्ते पथ्यं तत्कुरु, मदुक्ताकरणे अवश्यं हननमित्यर्थः ।। 3.40.27 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चत्वारिंशः सर्गः ।। 40 ।।