श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिचत्वारिंशः सर्गः
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती ।
हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ।। 3.43.1 ।।
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी ।
भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ।। 3.43.2 ।।
तया ऽ ऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ ।
वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ।। 3.43.3 ।।
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।
तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ।। 3.43.4 ।।
सीतायास्त्वेकनाथायाः पूरयिष्यन् मनोरथम् । मायागृगं यो ऽनुययौ श्रीरामं तमुपास्महे ।। सा तमित्यादि । हैमराजतवर्णाभ्यामित्यनेन द्वयोः पार्श्वयोर्वर्णभेद उच्यते । मष्टं शुद्धं हाटकं सुवर्णं तस्य वर्णो ऽस्या अस्तीति तथा । “स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम्” इत्यमरः । अभिचक्रन्द उच्चैराह्वयत् “क्रदि आह्वाने रोदने च” इति धातुः । सायुधमित्यनेनायुधेन सहागन्तव्यमित्याहूतवतीति गम्यते ।। 3.43.14 ।।
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने ।
अनेन निहता राजन् राजानः कामरूपिणा ।। 3.43.5 ।।
मृगयां चरन्तः मृगयार्थं पर्यटन्तो राजानः । अनेन पापेन मृगरूपोपाधिना निमित्तेन हताः ।। 3.43.5 ।।
अस्य मायाविदो माया मृगरूपमिदं कृतम् ।
भानुमत् पुरुषव्याघ्र गन्धर्वपुरसन्निभम् ।। 3.43.6 ।।
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव ।
जगत्यां जगतीनाथ मायैषा हि न संशयः ।। 3.43.7 ।।
मायां वेत्तीति मयावित् तस्य । मायैव मृगरूपं कृतं मृगाकारेण परिणतम् । भानुमत् प्रकाशवत् । गन्धर्वपुरं नानाविधविस्मयनीयाकारसंस्थानं क्षणभङ्गुरमभ्रं तत्सन्निभम्, तद्वद्विस्मयनीयमित्यर्थः । जगत्यां भूमौ ।। 3.43.6,7 ।।
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता ।
उवाच सीता संहृष्टा चर्मणा हृतचेतना ।। 3.43.8 ।।
काकुत्स्थं प्रतिवार्य निवर्त्य उवाच, राममिति शेषः । तत्र हेतुश्चर्मणेति । हृतचेतना हृतप्रज्ञा ।। 3.43.8 ।।
आर्यपुत्राभिरामो ऽसौ मृगो हरति मे मनः ।
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ।। 3.43.9 ।।
नो भविष्यति नः भविष्यति । न भविष्यतीत्यपि वाग्दोषः ।। 3.43.9 ।।
इहाश्रमपदे ऽस्माकं बहवः पुण्यदर्शनाः ।
मृगाश्चरन्ति सहिताः सृमराश्चमरास्तथा ।। 3.43.10 ।।
ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा ।
विचरन्ति महाबाहो रूपश्रेष्ठा मनोहराः ।। 3.43.11 ।।
सहिताः सङ्घीभूताः । सृमराः व्यालमृगाः । “सृमरः स्याद्व्यालमृगः” इति वैजयन्ती । चमराः चामरमृगाः । ऋक्षाः भल्लूकाः । पृषताः बिन्दुमृगाः । किन्नराः मृगविशेषाः ।। 3.43.10,11 ।।
न चास्य सदृशो राजन् दृष्टूपर्वो मृगः पुरा ।
तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ।। 3.43.12 ।।
तेजसा वर्णेन । क्षमया अत्वरया । दीप्त्या शारीरप्रकाशेन । यथायं मृगो दृश्यते तथा तेज आदिभिः अस्य सदृशो मृगो न दृष्टपूर्वः । पुरा भाविकाले ऽपि न दृश्यत इति शेषः । “स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा” इत्यमरः ।। 3.43.12 ।।
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः ।
द्योतयन् वनमव्यग्रं शोभते शशिसन्निभः ।। 3.43.13 ।।
समाचितः व्याप्तः । अव्यग्रं समग्रं यथा तथा शोभते । शशिसन्निभः आनन्दकरत्वेन शशिसाम्यम् ।। 3.43.13 ।।
अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना ।
मृगो ऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ।। 3.43.14 ।।
रूपं वर्णः । लक्ष्मीः कान्तिः । उक्तानुवादपूर्वकं मनोहरत्वमाह मृग इति । अतो न पूर्वार्धेन गतार्थता ।। 3.43.14 ।।
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव ।
आश्चर्यभूतं भवति विस्मयं जनयिष्यति ।। 3.43.15 ।।
समाप्तवनवासानां राज्यस्थानां च नः पुनः ।
अन्तःपुरविभूषार्थो मृग एष भविष्यति ।। 3.43.16 ।।
यदिति श्लोकद्वयमेकान्वयम् । तव ग्रहणं त्वत्कर्तृकग्रहण् । कर्तरि षष्ठी । तदा एष मृगः आश्चर्यभूतम् । अस्माकं विस्मयावहं सत्त्वं भवति इदानीमिति शेषः । समाप्तवनवासानाम् अत एव पुनः राज्यस्थानां च नः विस्मयं जनयिष्यति किञ्च अन्तःपुरविभूषार्थो ऽपि भविष्यति ।। 3.43.15,16 ।।
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।
मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ।। 3.43.17 ।।
आर्यपुत्रस्य तव श्वश्रूणां मम श्वश्रूणां चेति योजना । मृगरूपं प्रशस्तमृगः । प्रशंसायां रूपप् प्रत्ययः । मृगस्य रूपं वा ।। 3.43.17 ।।
जीवन्न यदि ते ऽभ्येति ग्रहणं मृगसत्तमः ।
अजिनं नरशार्दूल रुचिरं मे भविष्यति ।। 3.43.18 ।।
जीवतः अग्रहणे ऽपि प्रयोजनमाह जीवन्निति । अजिनं चर्म । रुचिरं प्रियम् ।। 3.43.18 ।।
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि ।
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ।। 3.43.19 ।।
प्रियत्वमेव विवृणोति निहतस्येति । जाम्बूनदमयत्वचि स्वर्णसदृशत्वचि । शष्पबृस्यां बालतृणैः कृतायां बृस्याम् । मध्यमपदलोपिसमासः । “व्रतिनामासनं बृसी” इत्यमरः । तस्यां विनीतायाम् आस्तृतायाम् । उक्तरूपत्वचि उपासितुं स्थातुम् इच्छामि, सहेति शेषः ।। 3.43.19 ।।
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् ।
वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ।। 3.43.20 ।।
अथ सविनयमाह कामवृत्तमिति । रौद्रं घोरम् इदं कामवृत्तं भर्तृप्रेरणरूपस्वेच्छाव्यापारः । स्त्रीणाम् असदृशम् अयुक्तं कैकेयीवत्, तथाप्यस्य सत्त्वस्य तु वपुषा विलक्षणदेहेन मम विस्मयो जनितः ममात्यन्तं कुतूहलं वर्तते, आनयेति वक्तुमप्ययुक्तम् अतः तवापि कुतूहलमस्ति चेत्तथा क्रियतामिति भावः । अनेन पूर्वमानयेति प्रमादादुक्तस्य क्षमापणं कृतम् ।। 3.43.20 ।।
तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा ।
तारुणादित्यवर्णेन नक्षत्रपथवर्चसा ।
बभूव राघवस्यापि मनो विस्मयमागतम् ।। 3.43.21 ।।
न केवलं स्त्रीपारवश्येन कृतवान् किन्तु स्वविस्मयेनापीत्याह तेनेत्यादिना । मणिप्रवरो नीलरत्नम् । काञ्चनवर्णरोमत्वात् बालसूर्यवर्णत्वम् । नक्षत्रपथः छायापथः तत्तुल्यवर्चसा नक्षत्रसदृशबिन्दूपलक्षितत्वात् । आगतं प्राप्तम् ।। 3.43.21 ।।
एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्भुतम् ।
लोभितस्तेन रूपेण सीतया च प्रचोदितः ।। 3.43.22 ।।
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ।। 3.43.23 ।।
रूपेण मृगेण । “रूपं मृगे ऽपि विज्ञेयम्” इति हलायुधः ।। 3.43.22,23 ।।
पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् ।
रूपश्रेष्ठतया ह्येष मृगो ऽद्य न भषिष्यति ।। 3.43.24 ।।
पश्येति । सीता स्पृहायुक्तेति भावः । तत्र हेतुमाह रूपेति । मृगेषु श्रेष्ठतया रूपेण श्रेष्ठतया वा । एष मृगः एतादृशमृगः । अद्य वनवासे । न भविष्यति न सेत्स्यति दुर्लभ इत्यर्थः ।। 3.43.24 ।।
न वने नन्दनोद्देशे न चैत्ररथसंश्रये ।
कुतः पृथिव्यां सौमित्रे यो ऽस्य कश्चित्समो मृगः ।। 3.43.25 ।।
न केवलमत्र देशान्तरे ऽपि दुर्लभ इत्याह न वन इति । नन्दन इत्युद्देशः कीर्तनं यस्य तस्मिन् वने चैत्ररथसंश्रये चैत्ररथाख्ये वने च न भविष्यतीत्यनुषज्यते पृथिव्यां कुतो हेतोर्भविष्यति ।। 3.43.25 ।।
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः ।
शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ।। 3.43.26 ।।
प्रतिलोमाः तिर्यग्भूताः । अनुलोमाः अनुकूलाः रोमराजयश्च मृगमाश्रित्य दृश्यन्ते । चित्राः आश्चर्यभूताः कनकबिन्दवः कनकवर्णबिन्दवश्च मृगमाश्रित्य शोभन्ते ।। 3.43.26 ।।
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् ।
जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् ।। 3.43.27 ।।
पश्येति । शतह्रदां तडितम् ।। 3.43.27 ।।
मसारगल्लर्कमुखः शङ्खमुक्तानिभोदरः ।
कस्य नामाभिरूपो ऽसौ न मनो लोभयेन्मृगः ।। 3.43.28 ।।
मसारः इन्द्रनीलः । गल्लर्कः चषकः । “गल्लर्कश्चानुतर्षश्च तर्षकश्चषकः स्मृतः” इति हलायुधः । इन्द्रनीलनिर्मितचषकाकारमुखसम्पुट इत्यर्थः । अभिरूपः सुन्दरः ।। 3.43.28 ।।
कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयं प्रभो ।
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ।।
[किं पुनर्मैथिली सीता बाला नारी न विस्मयेत् ।] ।। 3.43.29 ।।
कस्येति । रूपं मृगम् । जाम्बूनदमयेति स्वार्थे मयट् । नानारत्नमयं नानाबिन्दुप्रचुरम् ।। 3.43.29 ।।
मांसहेतोरपि मृगान् विहारार्थं च धन्विनः ।
घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ।। 3.43.30 ।।
मांसहेतोरपि विनोदार्थं च राजानो मृगान् घ्नन्ति, किं पुनरेवंविधविचित्रवस्तुलाभहेतोरिति भावः ।। 3.43.30 ।।
धनानि व्यवसायेन विचीयन्ते महावने ।
धातवो विविधाश्चापि मणिरत्नसुवर्णिनः ।। 3.43.31 ।।
एतन्मृगरूपं महद्धनम् एतच्च वन एव सम्भवति तस्मादिदं व्यवसायेन स्वीकर्तव्यमित्यभिप्रायेणाह धनानीति । मणिरत्नं मणिश्रेष्ठं सुर्वर्णं च मणिरत्नसुवर्णे ते येषु स्त इति मणिरत्नसुवर्णिनः मणयः सुवर्णानि च धातुषु भवन्तीति प्रसिद्धिः । तथाभूता विविधा धातवश्च धनानि करिमस्तकमुक्ताप्रभृतीनि महावने व्यवसायेन मृगयोद्योगेन राजभिः विचीयन्ते सङ्गृह्यन्ते । यद्वा धनानि व्यवसायेन मृगयोद्योगेन महावने विचीयन्ते । ननु कुतो वने धनसङ्ग्रहप्रसक्तिरित्यत्राह धातव इति । यस्मादुक्तरूपा विविधा धातवः सन्ति तस्मादित्यर्थः ।। 3.43.31 ।।
तत्सारमखिलं नृ़णां धनं निचयवर्धनम् ।
मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ।। 3.43.32 ।।
तेषां धनानां सारं श्रेष्ठभूतम् । अखिलं धनं नृ़णां निचयवर्धनं कोशवर्धनं भवेत् । किमिव शुक्रस्य मनसा चिन्तितं सङ्कल्पितं वस्तुजातं तथैवाविर्भूय निचयवर्धनं यथा तद्वदित्यर्थः । यद्वा नृ़णां मनसा चिन्तितं वृथामनोरथकल्पितं सर्वं धनं यथा शुक्रस्य कोशं पूरयति तथेत्यर्थः । तदुक्तमुद्योगपर्वणि “मनुष्येभ्यः समादत्ते शुक्रश्चिन्तार्जितं धनम् ।” इति । यद्वा नृ़णां राजादिधनिनां कोशवर्धनं तत् वन्यं धनं सारं भवति जानपदधनादपि वन्यं धनं सारम् अतिप्रशस्तं भवति अपूर्वत्वात् अतो निवृत्तवनवासैरस्माभिर्वनादपूर्वधनतया पुरीं नेतुमयं ग्रहीतव्य इति भावः ।। 3.43.32 ।।
अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।
तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण ।। 3.43.33 ।।
अस्त्विदम् अथापि विचार्य कार्यमिति चेत्तत्राह अर्थीति । अर्थी असन्निहितार्थापेक्षी । “अर्थाच्चासन्निहिते” इति इनिप्रत्ययः । सः येन अर्थकृत्येन अर्थकार्येण हेतुना अविचारयन् संव्रजति सम्यग्गच्छति यद्वस्तुसौन्दर्यजातोपकारलोभेन पुरुषस्तत्साधने व्यग्रः प्रवर्तते तमेवार्थं प्राहुः । अर्थशास्त्रज्ञाः नीतिशास्त्रज्ञाः । अर्थ्या अर्थादनपेताश्च । “अर्थ्यो ऽभिज्ञार्थशालिनोः” इत्यजयः । “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः । यस्य गुणप्रीतः पुरुषः अभिनिविशते स एवार्थ इति नीतिशास्त्रज्ञा अर्थवन्तश्चाहुः । अय़ञ्च तथाविध इति भावः ।। 3.43.33 ।।
एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि ।
उपवेक्ष्यति वैदेही मया सह सुमध्यमा ।। 3.43.34 ।।
एवं प्रयत्नसम्पाद्यं वस्त्वयमेव मृग इत्यभिप्रायेणाह एतस्येति । मृगरत्नस्य मृगश्रेष्ठस्य । परार्घ्ये श्लाध्ये । काञ्चनत्वचि काञ्चनसदृशत्वचि । पुँल्लिङ्गत्वमार्षम् ।। 3.43.34 ।।
न कादली न प्रियकी न प्रवेणी न चाविकी ।
भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ।। 3.43.35 ।।
परार्ध्यत्वं विवृणोति नेति । कदल्येव कादली मृगाविशेषः । तल्लक्षणमुक्तं वैजयन्त्याम् “कदली तु बिले शेते मृदुसूक्ष्मोच्चकर्बुरैः । नीलाग्रैर्लोमभिर्युक्ता सा विंशत्यङ्गुलायता । प्रियकी लोमभिर्युक्ता मृदुश्च मसृणैर्घनैः ।।” इति। प्रवेणी आस्तरणविशेषः मृगविशेषो वा। अविरेव अविकः “अवेः कः” इति स्वार्थे कप्रत्ययः। तस्येयमाविकी तल्लोमनिर्मिता शाटीत्यर्थः। स्पर्शनेन मार्दवेन ।। 3.43.35 ।।
एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः ।
उभावेतै मृगौ दिव्यौ तारामृगमहीमृगौ ।। 3.43.36 ।।
दिव्यः श्लाघ्यः । नभश्चरो मृगः मृगशीर्षः । दिव्यौ शोभमानौ ।। 3.43.36 ।।
यदि वा ऽयं तथा यन्मां भवेद्वदसि लक्ष्मण ।
मायैषा राक्षसस्येति कर्तव्यो ऽस्य वधो मया ।। 3.43.37 ।।
एवं सीतामतमङ्गीकृत्य प्रवृत्तिरुक्ता । अथ लक्ष्मणमतमङ्गीकृत्याह यदि वेति । मायैषा राक्षसस्येति यन्मां वदसि तथायं यदि वा भवेत् एवमप्यस्य वधो मया कार्यः ।। 3.43.37 ।।
एतेन हि नृशंसेन मारीचेनाकृतात्मना ।
वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः । 3.43.38 ।।
हनने हेतुत्वेन तदीयदौरात्म्यमाविष्करोति एतेन हीति । नृशंसेन घातुकेन । अकृतात्मना दुष्टभावेन ।। 3.43.38 ।।
उत्थाय बहवो येन मृगयायां जनाधिपाः ।
निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ।। 3.43.39 ।।
उत्थाय प्रादुर्भूय ।। 3.43.39 ।।
पुरस्तादिह वातापिः परिभूय तपस्विनः ।
उदरस्थो द्विजान् हन्ति स्वगर्भो ऽश्वतरीमिव ।। 3.43.40 ।।
पूर्वोक्तमपि वातापिवृत्तान्तं मारीचस्य मायाव्यापारे दृष्टान्तत्वेनाह पुरस्तादिति पुरस्तात् पूर्वस्मिन्काले । इह दण्डकारण्ये । अश्वतरो नाम गर्दभादश्वायामुत्पन्न इति वृत्तिकारः । “गोखरो ऽश्वतरो मतः” इति हलायुधः । तत्स्वरूपमुक्तं शालिहोत्रीये “खररूक्षस्वरास्तीक्ष्णाः खरशीलाः खराङ्घ्रयः” इति । तामश्वतरीं स्वगर्भो यथा हन्ति तथायमपि गर्भस्थो द्विजन् हन्ति । अश्वतरी वृश्चिकेत्यप्याहुः ।। 3.43.40 ।।
स कदाचिच्चिराल्लोभादाससाद महामुनिम् ।
अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव ह ।। 3.43.41 ।।
भक्षः आहारः ।। 3.43.41 ।।
समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् ।
उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत् ।। 3.43.42 ।।
समुत्थाने श्राद्धान्ते । तद्रूपं रक्षोरूपम् । उत्स्मयित्वा ईषत्स्मित्वा । ल्यबभाव आर्षः ।। 3.43.42 ।।
त्वया ऽविगण्य वातापे परिभूताः स्वतेजसा ।
जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ।। 3.43.43 ।।
अविगण्य अविचार्य पापमिति शेषः । जीवलोके भूलोके । जरां जीर्णताम् । इति वातापिमब्रवीदिति पूर्वेणान्वयः ।। 3.43.43 ।।
तदेतन्न भवेद्रक्षो वातापिरिव लक्ष्मण ।
मद्विधं यो ऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ।
भवेद्धतो ऽयं वातापिरगस्त्येनेव मां गतः ।। 3.43.44 ।।
तदिति रक्षःशब्दाभिप्रायेण नपुंसकत्वम् । अतिमन्येत अतिक्रामेत् । मां गत इति । अगस्त्यो यथा अजरूपं वातापिं लोकहितार्थं नाशितवान् तथाहमपि मृगरूपमेनं हनिष्यामीत्यर्थः ।। 3.43.44 ।।
इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् ।
अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ।। 3.43.45 ।।
सन्नद्धः धनुःकवचादिसन्नाहयुक्तः । यन्त्रितः व्याक्षेपान्तररहितः । अस्यामिति । अस्माकं यत्कृत्यमावश्यकं तत् सर्वमस्यामायत्तम् एतद्रक्षणप्रधानमित्यर्थः । एतन्मूलतया रावणवधादिकं कर्तव्यम् । इयं हि पूर्वं वेदवतीभावे तथा, सङ्कल्पितवतीत्यपि सूचयति ।। 3.43.45 ।।
अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम् ।
यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ।। 3.43.46 ।।
अहमिति । यावद्गच्छामि गमिष्यामि । “यावत्पुरानिपातयोः” इति भविष्यदर्थे लट् ।। 3.43.46 ।।
पश्य लक्ष्मण वैदेहीं मृगत्वचिगतस्पृहाम् ।
त्वचा प्रधानया ह्येष मृगो ऽद्य न भविष्यति ।। 3.43.47 ।।
पश्येति । गतस्पृहां प्राप्तस्पृहाम् । प्रधानया प्रधानप्रयोजनभूतया न भविष्यति मरिष्यतीत्यर्थः । अत्र सीताप्रार्थितमेव प्रधानप्रयोजनम्, अन्यदानुषङ्गिकमित्यर्थः ।। 3.43.47 ।।
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ।। 3.43.48 ।।
यावत्पृषतमेकेन सायकेन निहन्म्यहम् ।
हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ।। 3.43.49 ।।
अप्रमत्तेनेति । सीतया हेतुभूतया आश्रमस्थेन ते त्वया अप्रमत्तेन भाव्यम्, आश्रमस्थो ऽप्रर्मत्तः सन् सीतारक्षणं कुर्वित्यर्थः । पृषतं मृगम् ।। 3.43.48,49 ।।
प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण ।
भवाप्रमत्तः परिगृह्य मैथीलीं प्रतिक्षणं सर्वत एव शङ्कितः ।। 3.43.50 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिचत्वारिंशः सर्गः ।। 43 ।।
प्रदक्षिणेन अत्यन्तसमर्थेन । जटायुषेति सहार्थे तृतीया । “वृद्धो यूना” इति ज्ञापकात् । मैथिलीं परिगृह्य स्ववशीकृत्य सर्वतः शङ्कित एव प्रतिक्षणमतिशङ्क्येवाप्रमत्तो भवेत्यन्वयः । अत्र पञ्चाशच्छ्लोकाः ।। 3.43.50 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ।। 43 ।।