श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चचत्वारिंशः सर्गः
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।
उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ।। 3.45.1 ।।
अस्थाने भयशङ्किन्या जानक्यापि सुहृज्जनम् । धिक्कृत्य चिन्तितं रामं नित्यापूर्वामहं भजे ।। आर्त्तस्वरं त्वित्यादि । भर्तुः भर्तुस्स्वरस्य ।। 3.45.1 ।।
नहि मे हृदयं स्थाने जीवितं वावतिष्ठति ।
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ।। 3.45.2 ।।
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि ।
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ।
रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ।। 3.45.3 ।।
नहीति । हृदयं मनः । जीवितं प्राणः । वाशब्दः समुच्चये । स्थाने स्वस्थाने मोहो इति भावः । शरणैषिणं रक्षकार्थिनं गोवृषमिति सामान्यविशेषयोः प्रयोगः करिकलभवत् । इति सीता लक्ष्मणमुवाचेति सम्बन्धः ।। 3.45.2,3 ।।
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ।
तमुवाच ततस्तत्र कुपिता जनकात्मजा ।। 3.45.4 ।।
न जगामेति । शासनम् “अप्रमत्तेन ते भाव्यम्” इत्याद्युक्तम् ।। 3.45.4 ।।
सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ।
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे ।। 3.45.5 ।।
मित्ररूपेणोपलक्षितः रूपेण मित्रसदृशः क्रियया शत्रुतुल्यो ऽसीत्यर्थः । शात्रवक्रियां दर्शयति यस्त्वमिति ।। 3.45.5 ।।
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ।
लोभान्मम कृते नूनं नानुगच्छसि राघवम् ।। 3.45.6 ।।
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ।
तेन तिष्ठसि विस्रब्धस्तमपश्यन् महाद्युतिम् ।। 3.45.7 ।।
इच्छसीति । इच्छायां हेतुमाह मत्कृत इति । मत्परिग्रहार्थमित्यर्थः । दार्ढ्याय पुनराह लोभादिति । लोभो मल्लाभेच्छा ।। 3.45.6,7 ।।
किं हि संशयमापन्ने तस्मिन्नह मया भवेत् ।
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ।। 3.45.8 ।।
इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् ।
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव ।। 3.45.9 ।।
पन्नगासुरगन्धर्वदेवमानुषराक्षसैः ।
अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ।। 3.45.10 ।।
देवि देवमनुष्येषु गन्धर्वेषु पतत्ित्रषु ।
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।। 3.45.11 ।।
दानवेषु च घोरेषु न स विद्येत शोभने ।
यो रामं प्रतियुद्ध्येत समरे वासवोपमम् ।। 3.45.12 ।।
त्वद्रक्षणं विहाय कथं गमिष्यामीत्यत्राह किं हीति । यो रामः प्रधानं यस्य सः यत्प्रधानः त्वमिहागतः तस्मिन् रामे । संशयं प्राणसंशयमापन्ने सति इहाश्रमपदे तिष्ठत्या मया किं कार्यम् । न किमपीत्यर्थः ।। 3.45.812 ।।
अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ।
न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ।। 3.45.13 ।।
अवध्य इति । एवम् उक्तप्रकारं परुषभाषणम् । राघवं विना स्थितां त्वामित्यन्वयः ।। 3.45.13 ।।
अनिवार्यं बलं तस्य बलैर्बलवतामपि ।
त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैरपि सामरैः ।। 3.45.14 ।।
समुद्युक्तैः सन्नाहवद्भिः । सेश्वरैः सेन्द्रैः ।। 3.45.14 ।।
हृदयं निर्वृतं ते ऽस्तु सन्तापस्त्यज्यतामयम् ।
आगमिष्यति ते भार्ता शीघ्रं हत्वा मृगोत्तमम् ।। 3.45.15 ।।
निर्वृतं निर्दुःखम् ।। 3.45.15 ।।
न च तस्य स्वरो व्यक्तं मायया केनचित्कृतः ।
गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः ।। 3.45.16 ।।
न चेति । तस्य रामस्य नायं स्वरः, अपितु केनचिदन्येन मायया विचित्रशक्त्या कृतः । वस्तुतस्तु मारीचस्यैवेयं मायेत्याह गन्धर्वेति । तस्य रक्षसः । मृगीभूतस्य रक्षसः सा स्वरः, मायापेक्षया स्त्रीत्वम् । गन्धर्वनगरप्रख्या गन्धर्वनगरतुल्या माया । यद्वा सा मृगरूपम् । गन्धर्वनगरं नाम मेघादावारोपित्तं प्रासादवनादिकं तत्कदाचिद् दृश्यते तद्यथा व्यामोहजनकं तथा चित्रवस्तुरूपा परव्यामोहजनिका काचिच्छक्तिर्माया सा तस्य रक्षसः मारीचस्यास्ति यया मुह्यसीत्यर्थः । “गन्धर्वनगरं प्रोक्तमिन्द्रजालं मनीषिभिः” इत्यप्याहुः ।। 3.45.16 ।।
न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ।
रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ।। 3.45.17 ।।
न्यासेति । न्यासभूतासि निक्षेपरूपासि । केन निक्षिप्तेत्यत आह रामेण मयि न्यस्तेति ।। 3.45.17 ।।
कृतवैराश्च वैदेहि वयमेतैर्निशाचरैः ।
खरस्य निधनादेव जनस्थानवधं प्रति ।। 3.45.18 ।।
कृतवैरा इति । खरस्य स्वामिनो निधनात् जनस्थाने वधो यः तं प्रति वयमेतैर्निशाचरैः कृतवैराः, एते अस्मासु वैरमाचरितवन्त इत्यर्थः ।। 3.45.18 ।।
राक्षसा विविधा वाचो विसृजन्ति महावने ।
हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ।। 3.45.19 ।।
लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना ।
अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ।। 3.45.20 ।।
किं तत इत्यत्राह राक्षसा इति । वाचो विसृजन्ति अस्मन्मोहनार्थमिति शेषः ।। 3.45.19,20 ।।
अनार्याकरुणारम्भ नृशंस कुलपांसन ।
अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ।। 3.45.21 ।।
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ।। 3.45.22 ।।
अनार्य दुःशील अकरुणारम्भ दयाप्रसक्तिरहित तत्र युक्तिमाह रामस्येति । तेन अनार्यत्वादिकारणेन रामस्य व्यसनं दृष्ट्वा एतानि पूर्वोक्तवचनानि प्रभाषसे ।। 3.45.21,22 ।।
नैतच्चित्रं सपत्नेषु पापं लक्ष्ण यद्भवेत् ।
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ।। 3.45.23 ।।
प्रच्छन्नचारिषु त्वद्विधेषु सपत्नेषु पापं भवेदिति यत् एतन्न चित्रम्, नृशंसत्वादिकारणेन हेतुत्वेनोपात्तम् ।। 3.45.23 ।।
सुदुष्टस्त्वं वने राममेकमेको ऽनुगच्छसि ।
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ।। 3.45.24 ।।
सुदुष्ट इति । प्रुयक्तः प्रेषितः ।। 3.45.24 ।।
तन्न सिद्ध्यति सौमित्रे तव वा भरतस्य वा ।
कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ।
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ।। 3.45.25 ।।
समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः ।
रामं विना क्षणमपि नहि जीवामि भूतले ।। 3.45.26 ।।
तन्न सिद्ध्यतीति । पृथग्जनं क्षुद्रपुरुषम् ।। 3.45.25,26 ।।
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ।
अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः ।। 3.45.27 ।।
इत्युक्तः परुषं वाक्यमिति । “अप्रधाने दुहादीनाम्” इति कर्मण्यप्रधाने द्वितीया । सीतापारुष्येण प्रतिपारुष्यादिराहित्यं सूचयति विजितेन्द्रिय इति ।। 3.45.27 ।।
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ।
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ।। 3.45.28 ।।
स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते ।
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ।। 3.45.29 ।।
न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे ।
श्रोत्रयोरुभयोर्मे ऽद्य तप्तनाराचसन्निभम् ।। 3.45.30 ।।
उत्तरमिति । अप्रतिरूपम् अत्यन्तानुचितम् । विमुक्तधर्माः परित्यक्तविनयादिधर्माः । चपलाः चञ्चलचित्ताः । तीक्ष्णाः क्रूरहृदयाः । भेदकराः परस्परस्नेहकार्यविच्छेदकराः ।। 3.45.2830 ।।
उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः ।
न्यायवादी यथा ऽन्यायमुक्तो ऽहं परुषं त्वया ।। 3.45.31 ।।
उपशृण्वन्त्विति । मे साक्षिभूताः वनेचराः । न्यायवादी अहं त्वया अन्यायं परुषं यथा उक्तः तथा उपशृण्वन्तु ।। 3.45.31 ।।
धिक् त्वामद्य प्रणश्य त्वं यन्मामैवं विशङ्कसे ।
स्त्रीत्वं दुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम् ।। 3.45.32 ।।
गमिष्ये यत्र काकुत्स्थः स्वस्ति ते ऽस्तु वरानने ।
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ।। 3.45.33 ।।
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।
अपि त्वां सह रामेण पश्येयं पुनरागतः ।। 3.45.34 ।।
[न वेत्येतन्न जानामि वैदेहि जनकात्मजे ।]
लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा ।
प्रयुवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ।। 3.45.35 ।।
धिक्त्वामिति “उभवर्तसोः” इत्यादिना धिग्योगेद्वीतीया ।। 3.45.3235 ।।
गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण ।
आबन्धिष्ये ऽथवा त्यक्ष्ये विषमे देहमात्मनः ।। 3.45.36 ।।
पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ।
न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे ।। 3.45.37 ।।
आबन्धिष्ये उद्बन्धनं करिष्यामि । विषमे भृग्वादिविषमस्थले । पातेनेति शेषः । स्पृशे स्पृशामि ।। 3.45.36,37 ।।
इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता ।
पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ।। 3.45.38 ।।
आक्रुश्य विनिन्द्य ।। 3.45.38 ।।
तामार्त्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् ।
आश्वासयामास न चैव भर्तुस्तं भ्रातरं किञ्चिदुवाच सीता ।। 3.45.39 ।।
तामिति । भर्तुर्भ्रातरं न किञ्चिदुवाचेति आश्वासनव्याजेन गमनविलम्बं करोतीति कोपेनेति शेषः ।। 3.45.39 ।।
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य च ।
अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ।। 3.45.40 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चचत्वारिंशः सर्गः ।। 45 ।।
किञ्चिदिति कोपमिश्रत्वात् किञ्चित्प्रणामः । बहुशो ऽन्वीक्षमाण इति कथमेनामेकाकिनीं त्यक्त्वा गमिष्यामीत्यनुशयेन बहुशो ऽन्वीक्षणम् । आत्मवान् धैर्यवान् । अस्मिन् सर्गे सार्धचत्वारिंशच्छ्लोकाः ।। 3.45.40 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ।। 45 ।।