। अरण्यकाण्डः ।।।। श्लोकसहितव्याख्यानम् ।।
(49सर्गतः 75सर्गपर्यन्तम्)
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनप़ञ्चाशः सर्गः
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
त्ित्र त्त्र त्रहस्ते हस्तं समाहत्य चकार सुमहद्वपुः ।। 3.49.1 ।।
यश्चिन्तनीयः सततमापत्सु परमासु च । नान्योस्ति चिन्तनीयस्तं सीतापतिमुपास्महे ।। सीताया इत्यादि । हस्ते हस्तं समाहत्य संयोज्य । अयं च कोपाकृतिविशेषः ।। 3.49.1 ।।
स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ।
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ।। 3.49.2 ।।
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।
आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ।। 3.49.3 ।।
अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् ।
कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ।। 3.49.4 ।।
स इत्यादिश्लोकत्रयमेकान्वयम् । ततः रूपकरणानन्तरम् । उन्मत्तया त्वयेति शेषः । वीर्यपराक्रमौ पूर्वोक्ताविति शेषः । उद्वहेयम् उद्धरेयम् । विभिन्द्यां विदारयेयम् । महद्वपुरित्युक्तं दर्शयति कामेति ।। 3.49.24 ।।
एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे ।
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ।। 3.49.5 ।।
अथ सीतापहारोपयोगिरूपान्तरपरिग्रहमाह एवमित्यादिना । सूर्यकल्पे शिखिप्रभे इति तेजस्यौष्ण्ये चोपमाद्वयम् । हरिपर्यन्ते पिङ्गलवर्णपर्यन्ते । “यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ।।” इत्यमरः ।। 3.49.5 ।।
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः ।
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ।। 3.49.6 ।।
स्वं स्वासाधारणम् । कालरूपाभं मृत्युशरीराभम् । वैश्रवणानुज इत्यनेन जन्मकारणे तुल्ये ऽपि हन्तान्यतरस्य क्रौर्यमित्युच्यते ।। 3.49.6 ।।
संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः ।
क्रोधेन महताविष्टो नीलजीमूतसन्निभः ।
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ।। 3.49.7 ।।
संरक्तेति सार्धश्लोक एकान्वयः । श्रीमान् विचित्रशक्तिसम्पन्नः । क्षणदाचरः संरक्तनयनत्वादिविशिष्टो बभूव ।। 3.49.7 ।।
स परिव्राजकच्छद्म महाकायो विहाय तत् ।
प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ।। 3.49.8 ।।
संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ।
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ।। 3.49.9 ।।
उक्तानुवादपूर्वकं क्रौर्यान्तरमाह द्वाभ्याम् स इत्यादि । परिव्राजकच्छद्म परिव्राजकरूपं परिव्राजकपरूपेण परिवृतं मां प्रेक्ष्य तस्थौ । किमेवंरूपं दृष्ट्वापि मां भजिष्यतीति प्रत्याशयेति भावः ।। 3.49.8,9 ।।
स तामसितकेशान्तां भास्करस्य प्रभामिव ।
वसनाभरणोपेतां मैथिलीं रावणो ऽब्रवीत् ।। 3.49.10 ।।
असितकेशान्तां नीलकेशाग्राम् । केशाग्रे पैङ्गलं दुर्लक्षणम् । भास्करस्य प्रभामित्यनेन दुष्प्रसहत्वमुच्यते । वसनेत्यादिना दुस्त्यजत्वमुच्यते ।। 3.49.10 ।।
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ।
मामाश्रय वरारोहे तवाहं सदृशः पतिः ।। 3.49.11 ।।
त्रिष्विति । वरारोहे वरजघने ।। 3.49.11 ।।
मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव ।
नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ।। 3.49.12 ।।
पुनस्त्यागशङ्कां मा कार्षीरित्याह मामिति । क्वचित् क्वापीत्यर्थः ।। 3.49.12 ।।
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ।
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ।। 3.49.13 ।।
कैर्गुणैरनुरक्ता ऽसि मूढे मण्डितमानिनि ।
यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ।। 3.49.14 ।।
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः ।। 3.49.15 ।।
त्यज्यतामिति सार्धश्लोकद्वयमेकान्वयम् । मानुषः मनुष्यरामविषयः । भावः स्नेहबन्धः । व्यालाः हिस्राः । तमिति पूर्वोणान्वयः ।। 3.49.1315 ।।
इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः ।
जग्राह रावणः सीतां बुधः खे रोहिणीमिव ।। 3.49.16 ।।
इतीत्यादिसार्धश्लोक एकान्वयः । प्रियार्हत्वे हेतुः प्रियवादिनीमिति । अत्र मुहूर्तं तिष्ठ भूयः सत्करिष्यामीति प्रियभाषिणीं मैथिलीम् । इत्युक्त्वा एवं परुषमुक्त्वा । तत्र हेतुः सुदुष्टात्मेति । बुधः खे रोहिणीमिवेत्यभूतोपमा । बुधः स्वपितृपत्नीत्वेन मातरं खे आकाशे सुखेन सञ्चरन्तीं रोहिणीं यदि गृह्णीयात् तत्तुल्यमिदं पापमित्यर्थः ।। 3.49.16 ।।
वामेन सीतां पद्माक्षीं मूर्द्धजेषु करेण सः ।
ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ।। 3.49.17 ।।
वामेनेति । शापकृतदोषो भविष्यतीति मूर्धजेषूर्वोश्च ग्रहणम् ।। 3.49.17 ।।
तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम् ।
प्राद्रवन् गिरिसङ्काशं भयार्ता वनदेवताः ।। 3.49.18 ।।
तमिति गृह्णन्तमित्यर्थः ।। 3.49.18।
स च मायामयो दिव्यः खरयुक्तः खरस्वनः ।
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ।। 3.49.19 ।।
सः पूर्वं गुप्तः मायामयः अन्तर्धानाद्यर्हतया आश्चर्यमयः खरयुक्तः अश्वतरयुक्तः हेमाङ्गः स्वर्णमयचक्रः । चक्रं हि रथाङ्गमित्युच्यते ।। 3.49.19 ।।
ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः ।
अङ्केनादाय वैदेहीं रथमारोपयत्तदा ।। 3.49.20 ।।
अङ्केन ऊरुभागेन ।। 3.49.20 ।।
सा गृहीता विचुक्रोश रावणेन यशस्विनी ।
रामेति सीता दुःखार्ता रामं दूरगतं वने ।। 3.49.21 ।।
सेति । वने दूरगतं राममुद्दिश्य रामेति विचुक्रोश । “क्रुश आह्वाने रोदने च ” ।। 3.49.21 ।।
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ।
विवेष्टमानामादाय उत्पपाताथ रावणः ।। 3.49.22 ।।
अकामां विरागिणीम् । विवेष्टमानां रथोपरिस्थले लुठन्तीम् । आदाय पुनरङ्केनादाय । उत्पपात रथेन सहित इति शेषः ।। 3.49.22 ।।
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ।। 3.49.23 ।।
तत इति । आतुरा सा मत्तेव मदयुक्तेव । भ्रान्तचित्ता यथा भ्रान्तचित्तेव च चुक्रोश ।। 3.49.23 ।।
हा लक्ष्ण महाबाहो गुरुचित्तप्रसादक ।
ह्रियमाणां न जानीषे रक्षसा माममर्षिणा ।। 3.49.24 ।।
अमर्षिणा खरवधकृतामर्षवता ।। 3.49.24 ।।
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ।
ह्रियमाणामधर्मेण मां राघव न पश्यसि ।। 3.49.25 ।।
धर्महेतोः आश्रितसंरक्षणरूपधर्महेतोः । जीवितं सुखमर्थांश्च परित्यजन् जीवितादिपरित्यागशीलः ।। 3.49.25 ।।
ननु नामाविनीतानां विनेतासि परन्तप ।
कथमेवंविधं पापं न त्वं शास्सि हि रावणम् ।। 3.49.26 ।।
ननु नामेति प्रसिद्धौ । अविनीतानां दुर्जनानाम् । विनेता शिक्षकः । पापं पापिष्ठं कथं न शास्सि न शिक्षयसि ।। 3.49.26 ।।
नतु सद्यो ऽविनीतस्य दृश्यते कर्मणः फलम् ।
कालोप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ।। 3.49.27 ।।
अशासने स्वयमेव हेतुमुन्नयति न त्विति । अविनीतस्य दुर्जनस्य । कर्मणः पापस्य सद्यः फलं न दृश्यते । कुतः? अत्र फलदर्शने कालोप्यङ्गीभवति सहकारिकारणं भवति । अभूततद्भावे च्विः । पक्तये पाकाय ।। 3.49.27 ।।
स कर्म कृतवानेतत् कालोपहतचेतनः ।
जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि ।। 3.49.28 ।।
सः त्वमित्यर्थः । व्यसनं भ्रंशम् । “व्यसनं विपदि भ्रंशे” इत्यमरः ।। 3.49.28 ।।
हन्तेदानीं सकामा ऽस्तु कैकेयी सह बान्धवैः ।
ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ।। 3.49.29 ।।
वने राक्षसादिभिर्हृता भवेदिति मां कैकेयी वनं प्रेषितवतीति वैदेह्या हृदये सर्वदा स्थितम्, तदिदानीं सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेनोद्घाटयति हन्तेति । अत्र हेतुमाह ह्रिये यदिति ।। 3.49.29 ।।
आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान् ।
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ।। 3.49.30 ।।
अथ चित्तविभ्रमातिरेकादचेतनानपि रामायाख्यातेत्यभ्यर्थयते आमन्त्रय इत्यादिभिः सप्तश्लोकैः । आमन्त्रये सम्बोधयामि । जनस्थाने स्तितानिति शेषः । कर्णिकारान् परिव्याधाख्यान् पुष्पवृक्षान् । रावणः सीतां हरतीति यत् एतच्छंसध्वं कथयत । एवमुत्तरत्रापि योज्यम् ।। 3.49.30 ।।
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरम् ।
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।। 3.49.31 ।।
माल्यवन्तं पुष्पवन्तम् । शिखरिणं प्रशस्तशिखरम् । प्रस्रवणं प्रस्रवणाख्यम् ।। 3.49.31 ।।
हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम् ।
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।। 3.49.32 ।।
हंससारससङ्घुष्टामिति पाठे सङ्घुष्टाः हंसाः सारसाश्च यस्यां सा हंससारससङ्घुष्टा । कर्तरि क्तः । हंसकारण्डवाकीर्णामिति शुद्धः पाठः ।। 3.49.32 ।।
दैवतानि च यान्यस्मिन् वने विविधपादपे ।
नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ।। 3.49.33 ।।
दैवतानीति । तेभ्यो युष्मभ्यमिति शेषः ।। 3.49.33 ।।
यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत ।
सर्वाणि शरणं यामि मृगपक्षिगणानपि ।। 3.49.34 ।।
ह्रियमाणां प्रियां भर्तुः प्राणेभ्यो ऽपि गरीयसीम् ।
विवशा ऽपहृता सीता रावणेनेति शंसत ।। 3.49.35 ।।
यानीत्यादिश्लोकद्वयमेकान्वयम् । सत्त्वानि जन्तवः । उतेति सम्बोधने समुच्चये वा । ह्रियमाणां गरीयसीं प्रियां माम्, सीता रावणेन हृतेति भर्तुः शंसत रावणान्न भेतव्यं तत्त्वं कथयतेति भावः ।। 3.49.34,35 ।।
विदित्वा मां महाबाहुरमुत्रापि महाबलः ।
आनेष्यति पराक्रम्य वैवस्वतहृतामपि ।। 3.49.36 ।।
कथने किं प्रयोजनं तत्राह विदित्वेति । भवदुक्तप्रकारेण मां विदित्वा । अमुत्र स्वर्गलोके गतामपि वैवस्वतहृतामपि मां पराक्रम्यानेष्यति । तस्मादवश्यं शंसतेति भावः ।। 3.49.36 ।।
सा तदा करुणा वाचो विलपन्ती सुदुःखिता ।
वनस्पतिगतं गृध्रं ददर्शायतलोचना ।। 3.49.37 ।।
करुणाः दीनाः । तात्कालिकहर्षं सूचयति आयतलोचनेति ।। 3.49.37 ।।
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता ।
समाक्रन्दद्भयपरा दुःकोपहतया गिरा ।। 3.49.38 ।।
तमिति । समाक्रन्दत् “क्रदि आह्वाने रोदने च” दुःखोपहतया दुःखगद्गदया ।। 3.49.38 ।।
जटोयो पश्य मामार्य ह्रियमाणामनाथवत् ।
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ।। 3.49.39 ।।
आर्येति श्वशुरवत्सम्बोधनम् । करुणं यथा तथा ह्रियमाणाम् ।। 3.49.39 ।।
नैष वारयितुं शक्यस्तव क्रूरो निशाचरः ।
सत्त्ववान् जितकाशी च सायुधश्चैव दुर्मतिः ।। 3.49.40 ।।
नेति । अशक्यत्वे हेतुः सत्त्ववानित्यादिकम् । जितकाशी जयावहः । दुर्मतिः कूटयोधी ।। 3.49.40 ।।
रामाय तु यथातत्त्वं जटायो हरणं मम ।
लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ।। 3.49.41 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनप़ञ्चाशः सर्गः ।। 49 ।।
तर्हि मया किं कर्तव्यं तत्राह रामाय त्विति । तत् अस्य दुर्जयत्वादेव हेतोः ।। 3.49.41 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ।। 49 ।।