श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःपञ्चाशः सर्गः
ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती ।
ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ।। 3.54.1 ।।
अथ सीताया अशोकवनिकायां स्थापनमाह ह्रियमाणा त्वित्यादि । नाथं रक्षकम् ।। 3.54.1 ।।
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।
उत्तरीयं वरारोहा शुभान्याभरणानि च ।
मुमोच यदि रामाय शंसेयुरिति मैथिली ।। 3.54.2 ।।
तेषामित्यादिसार्धश्लोक एकान्वयः । उत्तरीयम् उत्तरीयभूतं कौशेयम् । बद्धा मुमोचेत्यर्थः । किमर्थं मुमोचेत्यत्राह यदि रामाय शंसेयुरिति । यदृच्छया दृष्टाय रामाय स्वस्य रावणापहरणं कथयेयुरिति प्रत्याशयेत्यर्थः । “आशंसावचने लिङ्” इति लिङ् ।। 3.54.2 ।।
वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ।
सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ।। 3.54.3 ।।
वस्त्रमिति । सहभूषणं भूषणान्तरितं वस्त्रम् । उत्सृज्य उन्मुच्य । तन्मध्ये सीतया निक्षिप्तमिति यत् तत्कर्म सम्भ्रमात्सीतापहारजनितक्षोभात् न बुद्धवान् । यदि बुद्ध्येत गृह्णीयादेवेति भावः ।। 3.54.3 ।।
पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ।
विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः ।। 3.54.4 ।।
पिङ्गाक्षाः वानराः, न केवलं वानराः अपितु वानर्रषभाः वानरश्रेष्ठाः । अनिमिषैरिव निमेषरहितैरिव । तथा विक्रोशन्तीं राम रामेति विक्रोशन्तीमित्यर्थः ।। 3.54.4 ।।
स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ।
जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः ।। 3.54.5 ।।
पम्पां पम्पोपर्याकाशम् । लङ्कामभिमुख इत्यनेन एतावत्पर्यन्तं रामाश्रमदत्तदृष्टिर्गतः । ततः स्वच्छन्दं गतवानिति गम्यते । अत एव सुसंहृष्ट इति वक्ष्यते ।। 3.54.5 ।।
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ।
उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ।। 3.54.6 ।।
उत्सङ्गेनेत्यस्य उभयत्राप्यन्वयः । मृत्युं मृत्युहेतुभूताम् ।। 3.54.6 ।।
वनानि सरितः शैलान् सरांसि च विहायसा ।
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः ।। 3.54.7 ।।
विहायसा आकाशमार्गेण ।। 3.54.7 ।।
तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ।
सरतां शरणं गत्वा समतीयाय सागरम् ।। 3.54.8 ।।
तिमयो मत्स्यविशेषाः नक्राः ग्राहाः तेषां निकेतं वासस्थानम् । वरुणस्य आलयं वासः शरणम् । प्राप्य गत्वा । क्रमेण सागरं समतीयाय ।। 3.54.8 ।।
सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ।
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः । 3.54.9 ।।
सम्भ्रमात् रावणदर्शनक्षोभात् । परिवृत्तोर्मिः रुद्धमीनमहोरगः बहिस्सञ्चाररहितमत्स्यसर्पः ।। 3.54.9 ।।
अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ।
एतदन्तो दशग्रीव इति सिद्धास्तदा ऽब्रुवन् ।। 3.54.10 ।।
अन्तरिक्षगताश्चारणाः दशग्रीवः एतदन्तः एतत्सीतापहरणावसान इति वाचः ससृजुः ऊचुरित्यर्थः । अन्तरिक्षगताः सिद्धाश्च एतदन्तो दशग्रीव इत्यब्रुवन् ।। 3.54.10 ।।
स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः ।
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ।। 3.54.11 ।।
आत्मनः रूपिणीं रूपवतीं मुत्युमिति सीताविशेषणम् ।। 3.54.11 ।।
सो ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ।
संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत् ।। 3.54.12 ।।
संरूढाः जनाकीर्णाः कक्ष्याः द्वारप्रकोष्ठाः ताभिः बहुलं निबिडम् ।। 3.54.12 ।।
तत्र तामसितापाङ्गां शोकमोहपरायणाम् ।
निदधे रावणः सीतां मयो मायामिव स्त्रियम् ।। 3.54.13 ।।
तत्र अन्तःपुरे । शोकमोहपरायणां शोकमोहपरतन्त्राम् । निदधे स्थापितवान् । मयस्त्रिपुराधिपतिः । मायां मायामयीम्, आश्चर्यशक्तियुक्तामित्यर्थः । स्त्रियं स्वयम्प्रभां बिले यथा निदधे तथेत्यर्थः ।। 3.54.13 ।।
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ।
यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः ।। 3.54.14 ।।
अब्रवीदिति । पिशाचीः पिशाच्याकाराः राक्षसीः यथेमां स्त्री वा पुमान्वा असम्मतः अननुज्ञातः न पश्यति तथा ऽब्रवीत् । एनामन्यो न पश्येदित्यब्रवीदित्यर्थः ।। 3.54.14 ।।
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ।
यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ।। 3.54.15 ।।
मुक्तेति । एषा यद्यदिच्छेत्तत्तद्देयं यथा मच्छन्दतः मदिच्छानुसारेण यथा मह्यं दीयते तद्वद्देयमित्यर्थः ।। 3.54.15 ।।
या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् ।
अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ।। 3.54.16 ।।
जीवितं न प्रियं मारयेयमित्यर्थः ।। 3.54.16 ।।
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ।
निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् ।। 3.54.17 ।।
ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ।। 3.54.18 ।।
चिन्तयन् महावीर्यान् राक्षसान् ददर्श अपश्यत् ।। 3.54.17,18 ।।
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः ।
उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ।। 3.54.19 ।।
वरादानेन ब्रह्मवरदानेन । तानेतानित्यन्वयः । 3.54.19 ।।
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः ।
जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ।। 3.54.20 ।।
नानेति “आयुधं तु प्रहरणम्” इत्यमरः । हतस्थानं शून्यसन्निवेशं खरालयं भूतपूर्वं पूर्वं खरालयमित्यर्थः । “भूतपूर्वे चरच्” इति निर्देशात्समासः ।। 3.54.20 ।।
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे ।
पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ।। 3.54.21 ।।
पौरुषं बलं न केवलं नीतिबलमित्यर्थः ।। 3.54.21 ।।
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् ।
सदूषणखरं युद्धे हतं रामेण सायकैः ।। 3.54.22 ।।
पौरुषबलाश्रयणे हेतुमाह बलं हीति । यत् बलं सैन्यं निवेशितं तद्धतमित्यन्वयः ।। 3.54.22 ।।
तत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते ।
वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ।। 3.54.23 ।।
तत्र वधनिमित्तम् । अमर्षात् असहनात् ।। 3.54.23 ।।
निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः ।
नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ।। 3.54.24 ।।
निर्यातयितुम् अवसितुम् ।। 3.54.24 ।।
तं त्विदानीमहं हत्वा खरदूषणघातिनम् ।
रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ।। 3.54.25 ।।
तन्त्विति । शर्म सुखम् । उपलप्स्यामि प्राप्स्यामि । 3.54.25 ।।
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता ।
प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ।। 3.54.26 ।।
प्रवृत्तिर्वार्ता । रामः किं करोतीति तत्त्वतो वार्ता मत्सकाशमुपनेतव्येत्यर्थः ।। 3.54.26 ।।
अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः ।
कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ।। 3.54.27 ।।
अप्रमादादिति अवधानादित्यर्थः ।। 3.54.27 ।।
युष्माकं च बलज्ञो ऽहं बहुशो रणमूर्धनि ।
अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः ।। 3.54.28 ।।
खरादिस्थाने अस्माभिः कथं स्थातुं शक्यं तत्राह युष्माकं चेति ।। 3.54.28 ।।
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् ।
विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ।। 3.54.29 ।।
महानर्थो ऽभिधेयो यस्य तं महार्थम् । प्रियं श्लाघारूपं वाक्यम् उपेत्य लब्ध्वा, रावणतः स्तुतिं प्राप्येत्यर्थः । यतो यत्र जनस्थानं तद्वनमुद्दिश्य प्रतस्थिरे । अलक्ष्यदर्शनाः वेगातिशयेन दुष्प्रेक्षस्वरूपाः ।। 3.54.29 ।।
ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् ।
प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स राक्षसः ।। 3.54.30 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःपञ्चाशः सर्गः ।। 54 ।।
सर्गार्थं सङ्गृह्य दर्शयति ततस्त्विति । उपलभ्य दृष्ट्वा सुसम्प्रहृष्टः कामविकारवान् । परिगृह्य गृहीत्वा । रामेण वैरं प्रसज्य प्राप्यापि मोहान्मुदितो बभूव । अत्र त्रिंशच्छ्लोकाः ।। 3.54.30 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ।। 54 ।।