श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तपञ्चाशः सर्गः
राक्षसं मृगरूपेण चरन्तं कामरूपिणम् ।
निहत्य रामो मारीचं तूर्णं पथि निवर्तते ।। 3.57.1 ।।
एवमियता ग्रन्थसन्दर्भेण सीताहरणवृत्तान्तमुपवर्ण्य अथ रामस्य मृगानुसरणकथाशेषं दर्शयितुमारभते राक्षसमित्यादि । निवर्तते न्यवर्तत ।। 3.57.1 ।।
तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मौथिलीम् ।
क्रूरस्वनो ऽथ गोमायुर्विननादास्य पृष्ठतः ।। 3.57.2 ।।
तस्येति । द्रष्टुकामस्य तदर्थं सत्वरमाणस्येति सम्बन्धः । गोमायुः क्रोष्टा । एकस्य गोमायोः पृष्ठतः क्रूरस्वरकरणं दुर्निमित्तमिति भावः ।। 3.57.2 ।।
स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ।
चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ।। 3.57.3 ।।
भयङ्करत्वेन रोमहर्षणमित्युच्यते । पूर्वमेव मारीचस्वरेण परिशङ्कितः सञ्जातशङ्कः स रामः तस्य गोमायोः स्वरम् आज्ञाय श्रुत्वा चिन्तयामास ।। 3.57.3 ।।
अशुभं बत मन्ये ऽहं गोमायुर्वाश्यते यथा ।
स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ।। 3.57.4 ।।
चिन्तामेवाह अशुभमित्यादिना । गोमायुः यथा येन प्रकारेण वाश्यते शब्दायते तेन प्रकारेणाशुभं मन्ये । अपि सम्भावनायाम् ।। 3.57.4 ।।
मारीचेन तु विज्ञाय स्वरमालम्ब्य मामकम् ।
विक्रुष्टं मृगरुपेण लक्ष्मणः शृणुयाद्यदि ।। 3.57.5 ।।
स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलम् ।
तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ।। 3.57.6 ।।
मारीचेनेत्यादिश्लौकद्वयमेकान्वयम् । मृगरूपेण मारीचेन मामकं मदीयं स्वरं विज्ञाय मामकं स्वरम् आलम्ब्य अनुसृत्य । विक्रुष्टं हा सीते लक्ष्मणेत्याह्वानेनोद्घोषितं स्वरम्, लक्ष्मणः शृणुयाद्यदि तदा स सौमित्रिर्मामकं स्वरं श्रुत्वा तं स्वरं श्रुतवत्या तया सीतया च प्रेषितः सन् इह देशे मत्सकाशं मत्समीपम् एष्यति ।। 3.57.5,6 ।।
राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः ।
काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ।। 3.57.7 ।।
दूरं नीत्वा तु मारीचो राक्षसो ऽभूच्छराहतः ।
हा लक्ष्मण हतो ऽस्मीति यद्वाक्यं व्याजहार च ।। 3.57.8 ।।
राक्षसैरित्यादिश्लोकद्वयमेकान्वयम् । यद्यस्मान्मारीचः काञ्चनः मृगो भूत्वा मामाश्रमाद्व्यपनीय दूरं नीत्वा मया हतः सन् राक्षसो ऽभूत् लक्ष्मण हतो ऽस्मीति वाक्यं व्याजहार च तस्मात्क्वचित्सहितै राक्षसैः सीताया वधः ईप्सितः । नूनम् ।। 3.57.7,8 ।।
अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने ।
जनस्थाननिमित्तं हि कृतवैरो ऽस्मि राक्षसैः ।। 3.57.9 ।।
जनस्थाननिमित्तं जनस्थानवासनिमित्तेन । निमित्तकारण हेतूनां सर्वासामिष्टिः ।। 3.57.9 ।।
निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च ।
इत्येवं चिन्तयन् रामः शृत्वा गोमायुनिःस्वनम् ।। 3.57.10 ।।
[निवर्तमानस्त्वरितो जगामाश्रममात्मवान् ।]
आत्मनश्चापनयनान्मृगरूपेण रक्षसा ।
आजगम जनस्थानं राघवः परिशङ्कितः ।। 3.57.11 ।।
निमित्तानीत्यदिश्लोकद्वयमेकान्वयम् । गोमायुनिःस्वनं श्रुत्वा मृगरूपेण रक्षसा ऽ ऽत्मनः अपनयनात् आश्रमादपकर्षणच्च परिशङ्कितः सन् जनस्थानम् आजगाम ।। 3.57.10,11 ।।
तं दीनमनसो दीनमासेदुर्मृगपक्षिणः ।
सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ।। 3.57.12 ।।
सव्यं कृत्वा अप्रदक्षिणं कृत्वा आसेदुः ।। 3.57.12 ।।
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।
न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः ।। 3.57.13 ।।
त्वरितः मानसिकत्वरासहितः । जवेन कायिकत्वरया ।। 3.57.13 ।।
स तु सीतां वरारोहां लक्ष्मणं च महाबलम् ।
आजगाम जनस्थानं चिन्तयन्नेव राघवः ।।
ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ।। 3.57.14 ।।
सीतां लक्ष्मणं च चिन्तयन्नेवाजगाम । तत इत्यर्धमेकं वाक्यम् ।। 3.57.14 ।।
ततो ऽविदूरे रामेण समीयाय स लक्ष्मणः ।
विषण्णः सुविषण्णेन दुःखितो दुःखभागिना ।। 3.57.15 ।।
ततो दर्शनानन्तरम् । अविदूरे समीपे समीयाय सङ्गतः । दुःखभागिनेत्यत्र “सम्पृच” इत्यादिसूत्रेण घिनुण् प्रत्ययः ।। 3.57.15 ।।
सञ्जगर्हे ऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम् ।
विहाय सीतां विजने वने राक्षससेविते ।। 3.57.16 ।।
सञ्जगर्ह इति । विजने स्वजनरहिते ।। 3.57.16 ।।
गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः ।
उवाच मधुरोदर्कमिदं परुषमार्तिमत् ।। 3.57.17 ।।
गृहीत्वेति । सव्यं करं गृहीत्वा लक्ष्मणमुवाच । कथम्, परुषम् अथ मधुरोदर्कं मधुरोत्तरम् । आर्तिमत् आर्तियुक्तम् । सर्वमिदं क्रियाविशेषणम् । अहो इत्यादि परुषम्, लक्ष्मणेत्यादि मधुरम् ।। 3.57.17 ।।
अहो लक्ष्मण गह्यं ते कृतं यस्त्वं विहाय ताम् ।
सीतामिहागतः सौम्य कञ्चित् स्वस्ति भवेदिह ।। 3.57.18 ।।
ते त्वया इत्युवाचेत्यन्वयः ।। 3.57.18 ।।
न मे ऽस्ति संशयो वीर सर्वथा जनकात्मजा ।
विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ।। 3.57.19 ।।
नेति । केनापि हेतुना विनष्टा वा राक्षसैर्भक्षिता वा ।। 3.57.19 ।।
अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ।। 3.57.20 ।।
उक्तार्थे हेतुमाह अशुभानीत्यर्धेन । भूयिष्ठं बहुलं यथा तथा ।। 3.57.20 ।।
अपि लक्ष्मण सीतायाः सामग्य्रं प्राप्नुयावहे ।
जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै ।। 3.57.21 ।।
अपीति । अपिः प्रश्ने । सामग्र्यम् अक्षतत्वं क्षेममिति यावत् । हे लक्ष्मणेति सम्बन्धः ।। 3.57.21 ।।
यथा वै मृगसङ्घाश्च गोमायुश्चैव भैरवम् ।
वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ।। 3.57.22 ।।
सामग्य्रप्राप्तिसंशये कारणमाह यथेति । प्रदीप्तां दिशं सूर्याधिष्ठिता तत्पार्श्वद्वयदिशौ च
प्रदीप्ता तामभिमुखं वाश्यन्ते नदन्ति । तेन वायसादिपक्षिणां शृगालादीनां कृष्णसारादिमृगाणां च सूर्याधिष्ठितदिशि कूजनं दुःखसूचकमित्युक्तम् ।। 3.57.22 ।।
अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल ।। 3.57.23 ।।
चिन्तातिशयेन पुनरप्याह अपि स्वस्तीति । अर्धमेकान्वयम् ।। 3.57.23 ।।
इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम् ।
हतं कथञ्चिन्महता श्रमेण स राक्षसो ऽभून्म्रियमाण एव ।। 3.57.24 ।।
लक्ष्मणाय दर्शयति इदमिति । मृगसन्निकाशं पूर्वं मृगवद्भातम् । इदं रक्षः महता श्रमेण उपलक्षितं मां प्रलोभ्य कथञ्चिद्धतम् । कथञ्चिदित्यनेन चिरं लक्ष्यवधाप्राप्तिर्द्योत्यते । मृगत्वं कुतो गतमित्यत्राह स इति । म्रियमाणः सन् राक्षस एवाभूदित्यर्थः ।। 3.57.24 ।।
मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् ।
असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा ।। 3.57.25 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तपञ्चाशः सर्गः ।। 57 ।।
निमित्तान्तरेणापि सीताहानिमनुमिनोति मनश्चेति । इह सीतावियोगविषये । अप्रहृष्टं विकारं स्फुरणम् । नास्तीति, आश्रम इति शेषः ।। 3.57.25 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ।। 57 ।।