[highlight_content]

58 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टपञ्ाशः

स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः ।

पर्यपृ्छत धर्मात्मा वैदेहीमागतं विना ।। 3.58.1 ।।

अथ सीताप्राप्तिसन्देहकृतशोकप्रलापो ऽष्टपञ्ाशे स दृष्ट्वेत्यादि । शून्ये वने वैदेहीं विना आगतं वैदेहीं विसृज्यागतं लक्ष्मणं पर्यपृ्छत पर्यपृ्छत् ।। 3.58.1 ।।

प्रस्थितं दण्डकारण्यं या मामनुजगाम ह ।

क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ।। 3.58.2 ।।

प्रश्नस्वरूपमाह प्रस्थितमित्यादिना । दण्डकारण्यं प्रति प्रस्थितम् ।। 3.58.2 ।।

राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।

क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ।। 3.58.3 ।।

दुःखसहाया समानदुःखेत्यर्थः ।। 3.58.3 ।।

यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् ।

क्व सा प्राणसहाया मे सीता सुरसुतोपमा ।। 3.58.4 ।।

सुरसुता सुरस्त्री ।। 3.58.4 ।।

पतित्वममराणां वा पृथिव्याश्ापि लक्ष्मण ।

तां विना तपनीयाभां ने्छेयं जनकात्मजाम् ।। 3.58.5 ।।

तपनीयं स्वर्णम् । इ्छेयम् इ्छामि ।। 3.58.5 ।।

िज्जीवति वैदेही प्राणैः प्रियतरा मम ।

ित्प्रवाजनं सौम्य न मे मिथ्या भविष्यति ।। 3.58.6 ।।

प्राणैः प्राणेभ्यः । प्रव्राजनं तुर्दशवर्षवनवासः । मिथ्या असत्यं न भविष्यति कित् । तुर्दशवर्षसमाप्तावेव सीतावियोगजं जीववियोगं किं प्राप्स्यामीत्यर्थः ।। 3.58.6 ।।

सीतानिमित्तं सौमित्रे मृते मयि गते त्ययि ।

ित् सकामा सुखिता कैकेयी सा भविष्यति ।। 3.58.7 ।।

सीतानिमित्तं सीताविनाशनिमित्तम् । त्वयि गते, अयोध्यामिति शेषः । सकामेत्यनेन रामस्य हृदये कैकेयी स्वविनाशार्थमेव वनं प्रेषितवतीति सदा वर्तते । तदिदीनीं सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन व्यक्तीकृतम् ।। 3.58.7 ।।

सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी ।

उपस्थास्यति कौसल्या कित् सौम्य न केकयीम् ।। 3.58.8 ।।

तपस्विनी शो्या ।। 3.58.8 ।।

यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः ।

सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ।। 3.58.9 ।।

वृत्ता परेता । सुवृत्ता स्वाारा ।। 3.58.9 ।।

यदि मामाश्रमगतं वैदेही नाभिभाषते ।

पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ।। 3.58.10 ।।

प्रहसिता प्रहसितमुखी ।। 3.58.10 ।।

ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।

त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ।। 3.58.11 ।।

यदि जीवति तदा ब्रूहि वद । वैदेही जीवति वा न वा । न वेत्यस्य विवरणं त्वयीति । प्रमत्ते अनवहिते ।। 3.58.11 ।।

सुकुमारी बाला नित्यं ादुःखदर्शिनी ।

मद्वियोगेन वैदेही व्यक्तं शोति दुर्मनाः ।। 3.58.12 ।।

दुःखं पश्यतीति दुःखदर्शिनी सा न भवतीत्यदुःखदर्शिनी । शोति अशोत् । वनवास इति शेषः । दुर्मनाः िन्ताकुलेति यावत् ।। 3.58.12 ।।

सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।

वदता लक्ष्मणेत्युैस्तवापि जनितं भयम् ।। 3.58.13 ।।

जिह्मेन कपटेन । तवापि अतिशूरस्यापि ।। 3.58.13 ।।

श्रुतस्तु शङ्के वैदेह्या स स्वरः सदृशो मम ।

त्रस्तया प्रेषितस्त्वं द्रष्टुं मां शीघ्रमागतः ।। 3.58.14 ।।

मम स्वरेण यस्मादागतः तस्मात् सः स्वरो वैदेह्या श्रुतः त्रस्तया तया त्वं प्रेषितश्ेति शङ्क इति योजना ।। 3.58.14 ।।

सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ।

प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ।। 3.58.15 ।।

कष्टमेवाह प्रतीति । प्रतिकर्तुं मत्कृतापकारस्य प्रत्यपकारं कर्तुम् । अन्तरम् अवकाशो दत्तः ।। 3.58.15 ।।

दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ।

तैः सीता निहता घोरैर्भविष्यति न संशयः ।। 3.58.16 ।।

प्रतीकारमेवाह दुःखिता इति । पिशिताशनत्वं निहनने हेतुः ।। 3.58.16 ।।

अहो ऽस्निन् व्यसने मग्नः सर्वथा शत्रुसूदन ।

किन्न्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ।। 3.58.17 ।।

अहो ऽस्मिन्निति सन्धिरार्षः । ईदृशं व्यसनमज्जनं प्राप्तव्यमिति शङ्के ।। 3.58.17 ।।

इति सीतां वरारोहां न्तयन्नेव राघवः ।

आजगाम जनस्थानं त्वरया सहलक्ष्मणः ।। 3.58.18 ।।

वरारोहामिति िन्ताहेतुसौन्दर्यातिशयोक्तिः ।। 3.58.18 ।।

विगर्हमाणो ऽनुजमार्तरूपं क्षुधा श्रमाैव पिपासया

विनिःश्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ।। 3.58.19 ।।

स्वमाश्रमं सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्ित् ।

एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ।। 3.58.20 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टपञ्ाशः ।। 58 ।।

विगर्हमाण इत्यादिश्लोकद्वयमेकान्वयम् । वक्ष्यमाणानेकसर्गार्थसङ्ग्रहरूपम् । श्रमात् बहुदूरधावनात् । प्रतिश्रयं स्वाश्रमप्रदेशम् । शून्यं सीतारहितं प्रतिश्रयमित्यनुषज्यते । अनन्तरं स्वाश्रमं सम्प्रविगाह्य प्रविश्य तमपि शून्यं समीक्ष्येति शेषः । तदनु सीतायाः कांश्िद्विहारदेशाननुसृत्य विित्य तानपि शून्यान् समीक्ष्य तत्रत्यनिवासभूमौ क्रीडास्थाने । तदेतदिति । तादृशमेतादृशमिति विहारविशेषं स्मृत्वा प्रहृष्टरोमा सन् शोकेन व्यथितो बभूव ।। 3.58.19,20 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टपञ्ाशः सर्गः ।। 58 ।।

Languages

Related Parts

error: Content is protected !!