श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनषष्टितमः सर्गः
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः ।
परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः ।। 3.59.1 ।।
एवं सङ्ग्रहेणोक्तमर्थं पुनर्विस्तरेण वक्तुमुपक्रमते अथेत्यादि । अन्तरा मध्येमार्गम् । दुःखार्दितमिति क्रियाविशेषणम् । मारीचवधस्थानात् स्वाश्रमं गच्छन् मध्ये पप्रच्छेत्यर्थः ।। 3.59.1 ।।
तमुवाच किमर्थं त्वमागतो ऽपास्य मैथिलीम् ।
यदा सा तव विश्वासाद्वने विरहिता मया ।। 3.59.2 ।।
तमिति । तं सौमित्रिमुवाच । तत्र प्रश्नप्रकारमाह किमर्थमिति । यदा तु त्वया रक्षितायाः का हानिरिति विश्वासात् मया विरहिता कृता तदा तामपास्य विहाय किमर्थमागतः ।। 3.59.2 ।।
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण ।
शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ।। 3.59.3 ।।
उवाचेत्युक्तार्थमाह दृष्ट्वेति । त्वां दृष्ट्वा पापं सीतानिष्टरूपं शङ्कमानम्, मे मम मनः व्यथितमिति यत् तत्सत्यम् ।। 3.59.3 ।।
स्फुरते नयनं सव्यं बाहुश्च हुदयं च मे ।
दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ।। 3.59.4 ।।
एतच्च कथं निश्चीयत इत्यत्राह स्फुरत इति । बाहुः सव्य इत्यनुषज्यते । हृदयं वक्षोमध्यम् ।। 3.59.4 ।।
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्ष्मणः ।
भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ।। 3.59.5 ।।
भूयो दुःखेन बहुतरदुःखेन । समाविष्टः पूर्वं सीतवचनाद्दुःखाक्रान्तः सम्प्रति रामेण त्वया अकृत्यं कृतमित्युच्यमानत्वात् भूयोदुःखसमाविष्टत्वम् ।। 3.59.5 ।।
न स्वयं कामकारेण तां त्यक्वाहमिहागतः ।
प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ।। 3.59.6 ।।
कामकारेण स्वेच्छाकरणेन । स्वयमित्यस्य विवरणमिदम् । उग्रैः वचोभिरित्यर्थसिद्धम् ।। 3.59.6 ।।
आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति च ।
परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ।। 3.59.7 ।।
आर्येणेति । हा सीते लक्ष्मणेति परित्राहीति च यद् वाक्यम् आर्येणेव भवतेव केनचित्पराक्रुष्टम् आह्वानपुरःसरं घोषितं तत् मैथिल्याः श्रुतिं गतम् ।। 3.59.7 ।।
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली ।
गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ।। 3.59.8 ।।
तव स्नेहेन त्वयि स्नेहेन ।। 3.59.8 ।।
प्रचोद्यमानेन मया गच्छेति बहुशस्तया ।
प्रत्यक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ।। 3.59.9 ।।
त्वत्प्रत्ययान्वितं त्वयि प्रत्ययः दुराधर्षत्वदैन्यराहित्यविषयो विश्वासः तेनान्वितम् । इदं वक्ष्यमाणलक्षणं वाक्यं मैथिली प्रत्युक्ता ।। 3.59.9 ।।
न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् ।
निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ।। 3.59.10 ।।
निर्वृता सुखिता भव । नास्त्येतत् रामवाक्यत्वेन यच्छङ्कितम् एतत् रामवाक्यं न भवति ।। 3.59.10 ।।
विगर्हितं च नीचं च कथमार्यो ऽभिधास्यति ।
त्राहीति वचनं सीते यस्त्रायेत्ित्रदशानपि ।। 3.59.11 ।।
रामवचनत्वे ऽनुपपत्तिमाह विगर्हितमिति । विगर्हितं दैन्यावहत्वात् महाकुलप्रसूतस्य निन्दितम् । नीचम् आपत्काले स्त्रीसमाह्वानस्य क्षुद्रकृतत्वात् कुत्सितं वचनं कथमभिधास्यति यस्त्रिदशानपि त्रायेत् कथं सः सीते त्रीहीति वचनमभिधास्यति ।। 3.59.11 ।।
किन्निमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् ।
राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने ।। 3.59.12 ।।
किं निमित्तं किमपि प्रयोजनमुद्दिश्य केनापि दुर्जनेन राक्षसेन मे भ्रातुः स्वरं स्वरसदृशं स्वरम् आलम्ब्य अवलम्ब्य त्राहि त्राहीति वाक्यम् ईरितम् उक्तम् । शोभने इति सीतासम्बोधनम् ।। 3.59.12 ।।
विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ।
न भवत्या व्यथा कार्या कुनारीजनसेविता ।। 3.59.13 ।।
विस्वरमिति स्वप्रकारविशेषशोधने ऽपि नायं रामस्वर इत्यर्थः ।। 3.59.13 ।।
अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका ।
न सो ऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे ।
जातो वा जायमानो वा संयुगे यः पराजयेत् ।। 3.59.14 ।।
अलमित्यादिसार्धश्लोक एकान्वयः । वैक्लव्यं विक्लवत्वम् । “विक्लवो विह्वलस्तथा” इति हलायुधः । निरुत्सुका मत्प्रस्थापनोद्योगरहिता भव । नास्ति न विद्यते ।। 3.59.14 ।।
न जय्यो राघवो युद्धे देवैः शक्रपुरोगमैः ।। 3.59.15 ।।
नेत्यर्धमेकं वाक्यम् । पूर्वमेकैकेनाजय्यत्वमुक्तं सम्प्रति मिलितैरिति विशेषः ।। 3.59.15 ।।
एवमुक्ता तु वैदेही परिमोहितचेतना ।
उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ।। 3.59.16 ।।
एवमिति । परिमोहितचेतना कलुषितबुद्धिः ।। 3.59.16 ।।
भावो मयि तावात्यर्थं पाप एव निवेशितः ।
विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि ।। 3.59.17 ।।
भाव इति । भ्रातरि विनष्टे सति मां प्राप्तुं पापः कुत्सितः भावः मयि तव त्वया निवेशित एव । त्वं च मां नावाप्स्यसि ।। 3.59.17 ।।
सङ्केताद्भरतेन त्वं रामं समनुगच्छसि ।
क्रोशन्तं हि यथात्यर्थं नैवमभ्यवपद्यसे ।। 3.59.18 ।।
सङ्केतादिति । भरतेन कृतात्सङ्केतात् कुतश्चिदवकाशे राममवश्यं हनिष्यामीत्येवंरूपात् रामं समनुगच्छसि न तु रामभक्त्या ।। 3.59.18 ।।
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि ।
राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे ।। 3.59.19 ।।
अन्तरप्रेप्सुः रन्ध्रान्वेषी । येन प्रकारेण एवमनुगच्छसि तथा नाभिपद्यसे इत्यन्वयः ।। 3.59.19 ।।
एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः ।
क्रोधात्प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः ।। 3.59.20 ।।
क्रोधादिति काकाक्षिन्यायेनोभयत्रान्वेति ।। 3.59.20 ।।
एवं ब्रुवाणं सौमित्रिं रामः सन्तापमोहितः ।
अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः ।। 3.59.21 ।।
तां विना त्वमागत इति यत् तद्दुष्कृतम् अकृत्यम् ।। 3.59.21 ।।
जानन्नपि समर्थं मां रक्षसां विनिवारणे ।
अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान् ।। 3.59.22 ।।
उक्तं विवृणोति जानन्नपीति ।। 3.59.22 ।।
नहि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् ।
क्रुद्धायाः परुषं श्रुत्वा स्त्रियाश्च त्वमिहागतः ।। 3.59.23 ।।
अनेनेत्युक्तं विशदयति नहीति । स्त्रिया इत्यविवेकसम्भावनासूचनम् । स्त्रीष्वपि विशेषज्ञापनाय क्रुद्धाया इति । यस्त्वं क्रुद्धायाः स्त्रियाः परुषं श्रुत्वा इहागतः तस्य ते मैथिलीं त्यक्त्वायासीति यत्तत्कर्म न परितुष्यामि ।। 3.59.23 ।।
सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः ।
क्रोधस्य वशमापन्नो नाकरोः शासनं मम ।। 3.59.24 ।।
नाकरोः शासनं ममेति यत्तत्सर्वथा ते अपनीतम् अपनयः । क्रुद्धया स्त्रिया यत्किञ्चित्परुषमुक्तं चेत्तत्सोढव्यम् । कथञ्चिदसहने बहिरागत्यान्तर्हितो भूत्वा तत्परिपालनं कर्तव्यम् । केवलमागमनं तवापनीतिरेवेति भावः ।। 3.59.24 ।।
असौ हि राक्षसः शेते शरेणाभिहतो मया ।
मृगरूपेण येनाहमाश्रमादपवाहितः ।। 3.59.25 ।।
अपनीतिमेवोपपादयितुं स्वरान्यथाभावं दर्शयति असावित्यादिश्लोकत्रयेण ।। 3.59.25 ।।
विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया ।
मार्गीं तनुं त्यज्य सविक्लवस्वरो बभूव केयूरधरः स राक्षसः ।। 3.59.26 ।।
विकृष्येति । परिधाय सन्धाय । सलीलबाणेन लीलार्थबाणेन । मार्गीं मृगसम्बन्धिनीम् । त्यज्य त्यक्त्वा । सविक्लवस्वरः सदीनस्वरः । केयूरधरः अङ्गदधरः । आसीदित्यनेन दूरातीतत्वं गम्यते ।। 3.59.26 ।।
शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसंश्रवम् ।
उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ।। 3.59.27 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनषष्टितमः सर्गः ।। 59 ।।
शरेति । तदेति छेदः । सुदूरे संश्रवः यस्य तम् । मम स्वरं मत्स्वरसदृशं स्वरम् आलम्ब्य आश्रित्य आर्तया गिरा दीनया वाचा शराहतेन तेनैव तदा तस्निन् काले सुदारुणं तद्वचनमुदाहृतम् । येन वचनेन श्रुतेन मैथिलीं विहाय आगतो ऽसि । अस्मिन् सर्गे सप्तविंशतिश्लोकाः ।। 3.59.27 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनषष्टितमः सर्गः ।। 59 ।।