[highlight_content]

60 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षष्टितमः सर्गः

भृशमाव्रजमानस्य तस्याधो वामलोचनम् ।

प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्यजायत् ।। 3.60.1 ।।

एवमियता प्रबन्धेन सम्भोगशृङ्गारो वर्णितः । अथ विप्रलम्भशृङ्गारमासुवेलारोहणाद्वर्णयितुमारभते । तदङ्गत्वेन रसान्तराणि दर्शितानि । “संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियपुक्तयोः ।” इति लक्षणात् । तत्र “अभिलाषमानःसङ्गौ सङ्कल्पो गुणसंस्तुतिः प्रद्वेषः । तापाभिमतत्यागावुन्मादो मीर्च्छना च मृतिः” इत्युक्तविप्रलम्भावस्थास्वष्टमीं दशामाह सर्गत्रयेण भृशमित्यादि । आव्रजमानस्य आगच्छतः । अधो वामलोचनं वामनेत्रस्याधः पक्ष्म प्रास्फुरत् । “अधो वामदृशः स्फूर्तौ बह्वनिष्टो भवेत् पुमान् ।” इति लक्षणात् । स्वयमस्खलत् “प्रयाणकाले स्खलनं करोतीष्टस्य भञ्जनम् ।” इति प्रसिद्धिः । वेपथुः कम्पः ।। 3.60.1 ।।

उपालक्ष्य निमित्तानि सो ऽशुभानि मुहुर्मुहुः ।

अपि क्षेमं नु सीताया इति वै व्याजहार च ।। 3.60.2 ।।

अशुभानि अशुभसूचकानि ।। 3.60.2 ।।

त्वरमाणो जगामाथ सीतादर्शनलालसः ।

शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ।। 3.60.3 ।।

लालसः साभिलाषः । आवसथं गृहम् । “स्थानावसथवास्तु च” इत्यमरः ।। 3.60.3 ।।

उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः ।

तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः ।। 3.60.4 ।।

ददर्श पर्णशालां च रहितां सीतया तदा ।

श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमीव ।। 3.60.5 ।।

उद्भ्रमन्निति श्लोकद्वयमेकान्वयम् । वेगेन उद्भ्रमन्निव उत्पतन्निव । विक्षिपन् हस्तादीनवयवानितस्ततः क्षिपन् ।। 3.60.4,5 ।।

रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् ।

श्रिया विहीनं विध्वस्तं संत्यक्तवनदेवतम् ।। 3.60.6 ।।

विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् ।

दृष्ट्वा शून्यं निजस्थानं विललाप पुनःपुनः ।। 3.60.7 ।।

रुदन्तमिति श्लोकद्वयमेकान्वयम् । वृक्षैः रुदन्तमिव स्थितं हीनस्वरभृङ्गवत्त्वादिति भावः । पुष्पाणि सीतया पूर्वमपचितानि द्विजाः पक्षिणः म्लानाः पुष्पमृगद्विजा यस्मिन् तत् तथोक्तम् । श्रिया कान्त्या विहीनं विध्वस्तं विशीर्णं रावणसन्यासिने दत्तत्वेन विप्रकीर्णाः अयथास्थानस्थिताः अजिनकुशाः यस्मिन् तत्तथा । ग्रहणकाले सीताया अवलम्बितत्वेन विप्रविद्धबृसीकटं विपर्यस्तमुन्यासनास्तरणम् । शून्यं सीतारहितम् । विललाप पर्यदेवयत् ।। 3.60.6,7 ।।

हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ।

निलीनाप्यथवा भीरुरथवा वनमाश्रिता ।। 3.60.8 ।।

गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः ।

अथवा पद्मिनीं याता जलार्थं वा नदीं गता ।। 3.60.9 ।।

विलापमाह द्वाभ्याम् हृतेत्यादि । हृता अपहृता । नष्टा यादृच्छिकमदर्शनं गता । निलीना विनोदाय व्यवहिता अथवा निर्जनतया भीरुः सती गूढं वनमागता । पद्मिनीं याता । स्नानार्थमिति शेषः । नदीं गतेत्यनन्तरमितिकरणं द्रष्टव्यम् ।। 3.60.8,9 ।।

यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् ।

शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते ।। 3.60.10 ।।

शोकाद्धेतोः उन्मत्त इव लक्ष्यते । अलक्ष्यतेत्यर्थः ।। 3.60.10 ।।

वृक्षाद्वृक्षं प्रधावन् स गिरेश्चाद्रिं नदान्नदीम् ।

बभूव विलपन् रामः शोकपङ्कार्णवाप्लुतः ।। 3.60.11 ।।

नदात् पश्चिमप्रवाहात् । शोकपङ्कार्णवाप्लुतो बभूव ।। 3.60.11 ।।

अपि कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया ।

कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ।। 3.60.12 ।।

अथ शोकमोहातिरेकेणाचेतनेषु चेतनबुद्ध्या तान् प्रतिभाषते अपीत्यादिना । कदम्बानि कदम्बपुष्पाणि प्रियाणि यस्याः सा कदम्बप्रिया । प्रिया मत्कान्ता । अपिः प्रश्ने । एवं प्रश्ने ऽपि प्रतिवचनादानमनादरकृतमिति मत्वाह कदम्बेति । शुभाननामिति चिह्नकीर्तनम् । कदम्बप्रियेत्यनेन दर्शनसम्भावनोच्यते ।। 3.60.12 ।।

स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी ।

शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ।। 3.60.13 ।।

स्निग्धपल्लवसङ्काशेत्यनेन कोमलाङ्गीत्वमुक्तम् । बिल्वोपमस्तनीत्यनेन पद्मिनी जातिरुक्ता । तदुक्तं रतिरहस्ये पद्मिनीलक्षणे “स्तनयुगमपि यस्याः श्रीफलश्रीविडम्बि” इति ।। 3.60.13 ।।

अथवा ऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् ।

जनकस्य सुता भीरुर्यदि जीवति वा न वा ।। 3.60.14 ।।

अथवेति । बिल्बेनानुक्तौ अयं मत्सरान्न कथयतीत्यर्जुनवृक्षं पृच्छति । यदि ज्ञातं यदीत्यर्थः ।। 3.60.14 ।।

ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् ।

यथा पल्लवपुष्पाढयो भाति ह्येष वनस्पतिः ।। 3.60.15 ।।

प्रतिवचनादानेना ऽयं न जानातीति मत्वा वृक्षान्तरे तत् ज्ञानं सम्भावयति ककुभ इति । ककुभो ऽर्जुनविशेषः । स च स्त्रीणामूरुतुल्यो भवति अत एवमुच्यते ककुभोरूमिति । केचित्करभोरूमिति वदन्ति तत्प्रकृतशैलीविरुद्धम् । कदम्ब कदम्बप्रिया बिल्व बिल्वोपमस्तनीत्येवं ह्युच्यते । ज्ञाने हेतुमाह यथेति । अनेन परिचयसम्भावनोक्ता । जानाति कथं न कथयतीत्यर्थसिद्धम् । एवमुत्तरत्रापि श्लोके द्रष्टव्यम् ।। 3.60.15 ।।

भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यम् ।

एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ।। 3.60.16 ।।

उप समीपे गीतः कृतवेदघोष इति ध्वन्यते । यथा येन कारणेन एवम्भूतो द्रुमवरो ऽयं तेन कारणेन मन्ये एष जानाति तिलकः ।। 3.60.16 ।।

अशोक शोकापनुद शोकोपहतचेतसम् ।

त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम् ।। 3.60.17 ।।

अशोकेति । स्ववचनकराणाय स्तैति शोकापनुदोति । पचाद्यच् गुणाभाव आर्षः । त्वन्नामानं कुरु अशोकं कुरु । सन्दर्शनेन ज्ञापनेन शोकनिवृत्त्यर्थ प्रियां सन्दर्शयेत्यर्थः ।। 3.60.17 ।।

यदि ताल त्वया दृष्टा पक्वतालफलस्तनी ।

कथयस्व वरारोहां कारुण्यं यदि ते मयि ।। 3.60.18 ।।

यदि तालेति । पक्वतालेति सम्बन्धोक्तिः ।। 3.60.18 ।।

यदि दृष्टा त्वया सीता जम्बु जम्बुफलोपमाम् ।

प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे ।। 3.60.19 ।।

जम्बु “अम्बार्थनद्योर्ह्रस्वः” इति ह्रस्वत्वम् “एङ्ह्रस्वात्सम्बुद्धेः” इति सुलोपः । स्निग्धताकारेण जम्बुफलौपम्यम् । विजानीषे चिह्नत इति शेषः ।। 3.60.19 ।।

अहो त्वं कर्णिकाराद्य सुपुष्पैः शोभसे भृशम् ।

कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि ।। 3.60.20 ।।

सुपुष्पैरिति धार्मिकत्वोक्तिः ।। 3.60.20 ।।

चूतनीपमहासालान् पनसान् कुरवान् धवान् ।

दाडिमानसनान् गत्वा दृष्ट्वा रामो महायशाः ।। 3.60.21 ।।

मल्लिका माधवीश्चैव चम्पकान् केतकीस्तस्था ।

पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ।। 3.60.22 ।।

चूतेति श्लोकद्वयमेकान्वयम् । क्रियाभेदाद्रामपदद्वयम् । नीपः कदम्बः । कुरवान् कुरवकान् । रामः चूतादीन् गत्वा दृष्ट्वा पृच्छन् आधावनेन सर्वत्र भ्रान्तः कृतभ्रमणः रामः उन्मत्तः चित्तविभ्रमवानिव लक्ष्यते अलक्ष्यत ।। 3.60.21,22 ।।

अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् ।

मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ।। 3.60.23 ।।

इति वृक्षान् पृष्ट्वा मृगान् पृच्छति अथेति । वृक्षा मा कथयन्तु त्वं तु कथयेत्याशयेनाथवाशब्दप्रयोगः । मृगशावस्य मृगबालस्याक्षिणी इवाक्षिणी यस्यास्ताम् । मृगस्य सीताज्ञाने योग्यतामाह मृगेति । मृगवत् विविधं प्रेक्षत इति मृगविप्रेक्षणी सहिता भवेदिति सम्भावनायां लिङ् ।। 3.60.23 ।।

गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् ।

तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ।। 3.60.24 ।।

गजनासोरूः करिकरोरूः । वरवारण वारणश्रेष्ठ हे गज तां सीतां तुभ्यं तव विदितां मन्ये शङ्के । गजनासोरूः सा त्वया यदि दृष्टा भवेत्तदाख्याहि ।। 3.60.24 ।।

शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना ।

मैथिली मम विस्रब्धं कथयस्व न ते भयम् ।। 3.60.25 ।।

शार्दूलेति । अत्र तुल्यगतित्वरूपः सम्बन्धो बोध्यः । न ते भयं शूरस्य तव भयं नास्ति । एतेन पूर्वोक्ताः सर्वे भीत्या न प्रत्यूचुरिति रामस्याशयः ।। 3.60.25 ।।

किं धावसि प्रिये दूरं दृष्टा ऽसि कमलेक्षणे ।

वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ।। 3.60.26 ।।

तिष्ठ तिष्ठ वरारोहे न ते ऽस्ति करुणा मयि ।

नात्यर्थं हास्यशीला ऽसि किमर्थं मामुपेक्षसे ।। 3.60.27 ।।

पुनरवस्थाविशेषं दर्शयति किं धावसीति । प्रिये किमर्थं धावसि धावन्ती दृष्टासि नूनम् । अथादर्शनादाह वृक्षैरिति । इदं च पूर्वापेक्षयातिरिक्तं दर्शनान्तरम् ।। 3.60.26,27 ।।

पीतकौशेयकेनासि सूचिता वरवर्णिनि ।

धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ।। 3.60.28 ।।

अन्तर्हितापि पीतकौशेयेन सूचितासि । इदमपि प्रत्ययान्तरम् । पुनरपि प्रत्ययान्तरमाह धावन्त्यपीति ।। 3.60.28 ।।

नैव सा नूनमथवा हिंसिता चारुहासिनी ।

कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति ।। 3.60.29 ।।

अथ सर्वात्मना दर्शनाभावात् प्रकारान्तरमुत्प्रेक्षते नैवेति । अथवा सात्र नैव विद्यते किन्तु हिंसिता । अत्र हेतुमाह कृच्छ्रमिति । कृच्छ्रं दुःखं प्राप्तं मां यथा येन कारणेन अपेक्षितुं नार्हसि नूनं तेन कारणेन हिंसितैव नूनम् ।। 3.60.29 ।।

व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः ।

विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ।। 3.60.30 ।।

एतदेव द्रढयति व्यक्तमिति ।। 3.60.30 ।।

नूनं तच्छुभदन्तोष्ठं सुनासं चारुकुण्डलम् ।

पूर्णचन्द्रमिव ग्रस्तं मुखं निष्प्रभतां गतम् ।। 3.60.31 ।।

वक्ष्यमाणदशामनुसन्धाय प्रलपति नूनमिति । पूर्णचन्द्रमिव ग्रस्तं राहुग्रस्तं पूर्णचन्द्रमिव स्थितमित्यर्थः । एवम्भूतं मुखं निष्प्रभतां गतं नूनमित्यन्वयः ।। 3.60.31 ।।

सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता ।

कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ।। 3.60.32 ।।

ग्रैवेयकं कण्ठभूषणम् । या उक्तविशेषणा ग्रीवा सा भक्षिता भवेदित्यन्वयः ।। 3.60.32 ।।

नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ ।

भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ ।। 3.60.33 ।।

हस्ताभरणं कटकम् ।। 3.60.33 ।।

मया विरहिता बाला रक्षसां भक्षणाय वै ।

सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ।। 3.60.34 ।।

भक्षणाय विरहितासीदिति पूर्वार्धे ऽन्वयः । सार्थेन पथिकसमुदायेन ।। 3.60.34 ।।

हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित् ।

हा प्रिये क्व गता भद्रे हा सीतेति पुनःपुनः ।। 3.60.35 ।।

लक्ष्मणमामन्त्र्य पृच्छति हा लक्ष्मणेति । पश्यसि पश्यसि किम्? हा सीत इति वक्तव्ये हा सीतेति सन्धिरार्षः । इतिकरणस्य सर्गारम्भस्थेन विललापेत्यनेनान्वयः ।। 3.60.35 ।।

इत्येवं विलुपन् रामः परिधावन् वनाद्वनम् ।

क्वचिदुद्भ्रमते वेगात् क्वचिद्विभ्रमते बलात् ।

क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः ।। 3.60.36 ।।

इत्येवमिति सार्धश्लोक एकान्वयः । प्रथमार्द्धं पूर्वानुवादरूपम् । क्वचिदधिष्ठानसादृश्याभावे ऽपि वेगात् शोकवेगादेव उद्भ्रमते सीताप्रतीतिरूपं भ्रमं प्राप्नोति । क्वचिल्लतादौ बलात् सादृश्यबलात् विभ्रमते तत्प्रतीतिभ्रमं लभते । मत्त इवाभाति मत्तवत्परिभ्रमतीत्यर्थः ।। 3.60.36 ।।

स वनानि नदीः शैलान् गिरिप्रस्रवणानि च ।

काननानि च वेगेन भ्रमत्यपरिसंस्थितः ।। 3.60.37 ।।

सुगम्यानि वनानि, दुर्गमाणि काननानि । गिरेरुद्भूतानि प्रस्रवणानि गिरिप्रस्रवणानि । “उत्सः प्रस्रवणं वारिप्रवाहः” इत्यमरः । अपरिसंस्थितः अप्रतिष्ठितः ।। 3.60.37 ।।

तथा स गत्वा विपुलं महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति ।

अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ।। 3.60.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षष्टितमः सर्गः ।। 60 ।।

स रामः तथा क्वचिदुद्भ्रमत इत्यादिरीत्या विपुलं विशालं महत् निरन्तरं वनं गत्वा सर्वं वनस्य सर्वप्रदेशं परीत्य पुनःपुनश्चरित्वा अथ मैथिलीं प्रति मैथिलीलाभं प्रति अनिष्ठिताशः अनिष्पन्नाशः सन् पुनरपि प्रियाया मार्गणे परमं परिश्रमं चकार ।। 3.60.38 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षष्टितमः सर्गः ।। 60 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.