[highlight_content]

61 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकषष्टितमः सर्गः

दृष्ट्वा ऽ ऽश्रमपदं शून्यं रामो दशरथात्मजः ।

रहितां पर्णशालां विध्वस्तान्यासनानि ।। 3.61.1 ।।

अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य सर्वशः ।

उवा रामः प्राक्रुश्य प्रगृह्य रुिरौ भुजौ ।। 3.61.2 ।।

अथ रामस्य नवमीमवस्थां दर्शयत्येकषष्टितमे दृष्ट्वेत्यादिश्लोकद्वयमेकान्वयम् । शून्यं सीतारहितम् । रहितां सीतयेति शेषः । विध्वस्तानि रावणाक्रान्तत्वादिति भावः । सर्वशः सर्वत्र । तत्र वनप्रदेशे । वैदेहीं सन्निरीक्ष्य विित्य तत्रादृष्ट्वा । पुनरपि रामग्रहणं क्रियाभेदात् । प्राक्रुश्य सीतामुैराहूय उवा । भुजग्रहणं शोककृतविकारविशेषः । प्रगृह्य उत्क्षिप्य ।। 3.61.1,2 ।।

क्व नु लक्ष्मण वैदेही कं वा देशमितो गता ।

केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ।। 3.61.3 ।।

क्वेति । क्व नु अत्र वने कुत्र प्रदेशे वर्तते, कं वा देशान्तरं गता ।। 3.61.3 ।।

वृक्षेणा्छाद्य यदि मां सीते हसितुमि्छसि ।

अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ।। 3.61.4 ।।

वृक्षेणेति । आ्छाद्य, स्वमिति शेषः । हसितुम् अन्तर्हितां मां ज्ञातुमसमर्थो ऽसीत्येवं परिहसितुम् । अद्य शोककाले ।। 3.61.4 ।।

यैः सह क्रिडसे सीते विश्वस्तैर्मृगपोतकैः ।

एते हीनास्त्वाया सौम्ये ध्यायन्त्यास्राविलेक्षणाः ।।

सीतया रहितो ऽहं वै नहि जीवामि लक्ष्मण ।। 3.61.5 ।।

क्रीडसे क्रीडसी । विश्वस्तैः िरोपलालनेन विश्वासं प्राप्तौः । मृगपोतकैः बालमृगैः । “पोतः पाको ऽर्भको डिम्भः” इत्यमरः । ध्यायन्ति त्वामिति शेषः । किमपि ध्यायन्तीति वा । सीतयेति । इदमर्धमेकं वाक्यम् ।। 3.61.5 ।।

मृतं शोकेन महता सीताहरणजेन माम् ।

परलोके महाराजो नूनं द्रक्ष्यति मे पिता ।। 3.61.6 ।।

परलोके स्वर्गे ।। 3.61.6 ।।

कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ।

अपूरयित्वा तं कालं मत्सकाशमिहागतः ।। 3.61.7 ।।

कामवृत्तमनार्यं मां मृषावादिनमेव

धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ।। 3.61.8 ।।

कथमिति श्लोकद्वयमेकान्वयम् । प्रतिज्ञां तुर्दशवर्षवनवासप्रतिज्ञाम् । संश्रुत्य अङ्गीकृत्य । मया अभियोजितः नियुक्तस्त्वं तं कालमपूरयित्वा कथमागतः । कामवृत्तं यथेष्टाारम् । अनार्यं दुर्जनं मां धिक् त्वामिति वक्ष्यति । अहमुपालम्भयोग्य एव, कामृत्तत्वादिति भावः ।। 3.61.7,8 ।।

विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् ।

मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् ।। 3.61.9 ।।

क्व ग्छसि वरारोहे मां नोत्सृज सुमध्यमे ।

त्वया विरहितश्ाहं मोक्ष्ये जीवितमात्मनः ।। 3.61.10 ।।

विवशमित्यादिश्लोकद्वयम् । विवशम् अस्वाधीनम्, त्वत्परतन्त्रमित्यर्थः । करुणं यथा तथा उत्सृज्य त्यागकाले ऽपि तव दयास्त्येवेति भावः । अनृजुं कपटाारम् । मां नोत्सृज सुमध्यमे इदं मदुत्सर्जनं त्वल्लक्षणस्याननुरूपमिति भावः । उत्सर्जने को दोष इत्यत्राह त्वयेति ।। 3.61.9,10 ।।

इतीव विलपन् रामः सीतादर्शनलालसः ।

न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ।। 3.61.11 ।।

इतीवेति एवम्प्रकारेणेत्यर्थः । लालसः साभिलाषः ।। 3.61.11 ।।

अनासादयमानं तं सीतां दशराथात्मजम् ।

पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ।। 3.61.12 ।।

लक्ष्मणो राममत्यर्थमुवा हितकाम्यया ।। 3.61.13 ।।

अनासादयमानमित्यादिसार्धश्लोक एकान्वयः । अप्राप्तवन्तमित्यर्थः । अत्यर्थं हितकाम्ययेत्यन्वयः ।। 3.61.12,13 ।।

मा विषादं महाबाहो कुरु यत्नं मया सह ।

इदं हि वनं शूर बहुकन्दरशोभितम् ।। 3.61.14 ।।

विषादं मा कुरु, अन्वेषणे यत्नं कुर्वित्युभयत्रान्वयः । अन्वेषणयोग्यतामाह इदं हीति । बहुकन्दरैः कन्दरतुल्यलतागृहैः शोभितम् ।। 3.61.14 ।।

प्रियकाननसञ्ारा वनोन्मत्ता मैथिली ।

सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ।। 3.61.15 ।।

प्रियः काननसञ्ारो यस्याः सा । वनोन्मत्ता वनं जलम् । “जीवनं भुवनं वनम्” इत्यमरः । वनेन वनदर्शनेन उन्मादवती अतिप्रियसलिलेत्यर्थः । यथक्रमं तत्कार्यमाह सेति ।। 3.61.15 ।।

सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम् ।

स्नातुकामा निलीना स्याद्धासकामा वने क्वित् ।। 3.61.16 ।।

वञ्जुलो वेतसः । सरितं स्नातुकामा सम्प्राप्ता स्यात् । हासकामा परिहासकामा । क्विद्वने निलीना स्याद्वा ।। 3.61.16 ।।

वित्रासयितुकामा वा लीना स्यात्कानने क्वित् ।

जिज्ञासमाना वैदेही त्वां मां पुरुषर्षभ ।।

तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहै ।। 3.61.17 ।।

पूर्वं हासार्थं गूढेति शङ्का, अत्र वित्रासनार्थमिति भिदा । मां त्वां जिज्ञासमाना आवयोरन्वेषणादिसामर्थ्यं जिज्ञासमानेत्यर्थः । तस्या इत्यर्धम् पृथक् । श्रीमान् भार्यावियोगलक्षणं ते नास्तीति भावः ।। 3.61.17 ।।

वनं सर्वं वििनुवो यत्र सा जनकात्मजा ।

मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ।। 3.61.18 ।।

यदि मन्यसे यदी्छसि तदा वििनुवः त्वं शोके मनो मा कृथाः ।। 3.61.18 ।।

एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ।

सह सौमित्रिणा रामो विेतुमुपक्रमे ।। 3.61.19 ।।

लक्ष्मणेनैवमुक्तः अत एव समाहितः कृतित्तसमाधानः । विेतुम् अन्वेष्टुम् ।। 3.61.19 ।।

तौ वनानि गिरींश्ैव सरितश् सरांसि

निखिलेन वििन्वानौ सीतां दशरथात्मजौ ।। 3.61.20 ।।

वनानि स्वल्पानि महान्ति पुष्पापयव्यग्रा ऽत्र सन्निहिता भवेदिति, गिरीन् विित्रधातुसङ्ग्रहसक्तात्र भवेदिति, सरितः हंसकारण्डवादिललितपुलिनतया तदवलोकनकुतुकिनी भवेदिति, सरांसि फुल्लकमलमण्डिततया तद्विहारपरा ऽत्र भवेदिति निखिलेन भावप्रधानो निर्देशः । कार्त्स्न्येन वििन्वानौ सीता न लब्धेति त्यक्तव्यापारौ न भवतः । तौ दशरथात्मजौ न दृष्टेति तूष्णीं तिष्ठन्तौ न भवतः । मृदुप्रकृतिकत्वात् नैव तामभिजग्मतुरिति वक्ष्यमाणमत्राप्यनुषज्यते ।। 3.61.20 ।।

तस्य शैलस्य सानूनि गुहाश् शिखराणि

निखिलेन वििन्वानौ नैव तामभिजग्मतुः ।। 3.61.21 ।।

तस्य शैलस्य प्रस्रवणगिरेः । सानूनि प्रस्थान् । शिखराणि शृङ्गाणि ।। 3.61.21 ।।

विित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ।

नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम् ।। 3.61.22 ।।

शैलं सर्वतः सर्वत्र शैले । “उभसर्वतसोः” इति द्वितीया । अन्ते इतिकरणम् ।। 3.61.22 ।।

ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत् ।

विरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम् ।। 3.61.23 ।।

दीप्ततेजसमिति वक्ष्यमाणसीतालाभहेतुलक्षणोक्तिः ।। 3.61.23 ।।

प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ।

यथा विष्णुर्महाबाहुर्बलिं बध्वा महीमिमाम् ।। 3.61.24 ।।

प्राप्स्यसीति । सीताहर्तारं बुद्ध्वेति शेषः ।। 3.61.24 ।।

एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः ।

उवा दीनया वाा दुःखाभिहतेतनः ।। 3.61.25 ।।

दुःखाभिहतेतनः दुःखोपहतहृदयः इत्यर्थः ।। 3.61.25 ।।

वनं सर्वं सुविितं पद्मिन्यः फुल्लपङ्कजाः ।

गिरिश्ायं महाप्राज्ञ बहुकन्दरनिर्झरः ।। 3.61.26 ।।

पद्मिन्य इत्यादौ सुवििताः सुविित इति विभक्तिविपरिणामः कार्यः ।। 3.61.26 ।।

नहि पश्यामि वैदेहीं प्राणेभ्यो ऽपि गरीयसीम् ।। 3.61.27 ।।

न हीत्यर्धमेकं वाक्यम् ।। 3.61.27 ।।

एवं स विलपन् रामः सीताहरणकर्शितः ।

दीनशोकसमाविष्टो मुहूर्तं विह्वलो ऽभवत् ।। 3.61.28 ।।

विह्वलः परवशः ।। 3.61.28 ।।

सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विेतनः ।

निषसादातुरो दीनो निःश्वस्याशीतमायतम् ।। 3.61.29 ।।

अवसन्नाङ्गः कृशाङ्गः । गतबुद्धिः निस्सञ्ज्ञः । विेतनः निश्ेष्टः । अशीतम् उष्णम् । आयतं दीर्घमिति निश्वासक्रियाविशेषणम् ।। 3.61.29 ।।

बहुलं स तु निःश्वस्य रामो राजीवलोनः ।

हा प्रियेति विुक्रोश बहुशो बाष्पगद्गदः ।। 3.61.30 ।।

विुक्रोश उैः स्वरेणाहूतवान् ।। 3.61.30 ।।

तं ततः सान्त्वयामास लक्ष्मणः प्रियबान्धवः ।

बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः ।। 3.61.31 ।।

प्रश्रितं सविनयमिति क्रियाविशेषणम् । प्रश्रिताञ्जलिः बद्धाञ्जलिः ।। 3.61.31 ।।

अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटा्युतम् ।

अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनःपुनः ।। 3.61.32 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकषष्टितमः सर्गः ।। 61 ।।

लक्ष्मणोष्ठपुटा्युतं लक्ष्मणोक्तमित्यर्थः । पुनः प्राक्रोशात् उद्घोषेणाहूतवान् । अस्मिन् सर्गे द्वात्रिंश्छ्लोकाः ।। 3.61.32 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकषष्टितमः सर्गः ।। 61 ।।

Languages

Related Parts

error: Content is protected !!