[highlight_content]

65 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे प़ञ्षष्टितमः सर्गः

तप्यमानं तथा रामं सीताहरणकर्शितम् ।

लोकानामभवे युक्तं संवर्तकमिवानलम् ।। 3.65.1 ।।

वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनःपुनः ।

दग्धुकामं जगत्सर्वं युगान्ते तु यथा हरम् ।। 3.65.2 ।।

अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः ।

अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ।। 3.65.3 ।।

एवं जगदुपसंहारक्रोधकलुषं रामं लक्ष्मणः सन्धुक्ष(सान्त्व)यति पञ्षष्टितमे । तप्यमानमित्यादिश्लोकत्रयमेकान्वयम् । तप्यमानं तपन्तम् । तथा तप्यमानमित्यनेन पूर्वोक्तजगदुपसंहारवास्तप्तत्वकृताः न तु सङ्कल्पपूर्वा इत्यु्यते । रामं दृष्ट्वा राममब्रवीदिति क्रियाभेदान्न पुनरुक्तिदोषः । अभवे विनाशे । युक्तम् उद्युक्तम् । संवर्तकं संहारकम् । अदृष्टपूर्वमिति क्रोधनक्रियाविशेषणम् । परिशुष्यता लोकविनाशभयेनेति भावः ।। 3.65.13 ।।

पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः ।

न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ।। 3.65.4 ।।

पुरेति । क्रोधवशमापन्नः सन् प्रकृतिं मृदुत्वादिनिजस्वभावं न हातुमर्हसि ।। 3.65.4 ।।

न्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ।

एत नियतं सर्वं त्वयि ानुत्तमं यशः ।। 3.65.5 ।।

न्द्र इति । लक्ष्म्यादिकमेकैकस्य प्रतिनियतम्, त्वयि तु एतत्सर्वं यशश् प्रतिनियतमित्यर्थः ।। 3.65.5 ।।

एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि ।

न तु जानामि कस्यायं भग्नः साङग्रामिको रथः ।

केन वा कस्य वा हेतोः सायुधः सपरि्छदः ।। 3.65.6 ।।

मम दान्ततयैवैतादृशी दशा जाता अधुना ऽपि यदि क्रोधो न स्यात् को वा मम वित्रस्येत् कथं सीताप्रातिरित्याशङ्क्याह एकस्येति । अर्धत्रयमेकान्वयम् । अयं भावः एको रथो दृश्यते एकस्यैव पदं प्रतीयते तेन एक एवापराधीति निश्ीयते एकस्य ापराधेन सर्वान् हन्तुं नार्हसि । तर्हि को वा ऽपराधीत्यत्राह नत्विति । केन प्रतिपक्षिणा कस्य प्रयोजनस्य हेतोः । “षष्ठी हेतुप्रयोगे” इति षष्ठी । प्रकृतादन्यस्माद्वा निमित्तादिति न जानामि, त़िन्तनीयमित्यर्थः । सपरि्छदः सपरिकरः ।। 3.65.6 ।।

खुरनेमिक्षतश्ायं सिक्तो रुधिरबिन्दुभिः ।

देशो निर्वृत्तसङ्ग्रामः सुघोरः पार्थिवात्मज ।। 3.65.7 ।।

अश्वानां खुरैः स्थनेमिभिः रथाङ्गैश् क्षतः निर्वृत्तसङ्ग्रामः, दृश्यत इति शेषः ।। 3.65.7 ।।

एकस्य तु विमर्दो ऽयं न द्वयोर्वदतां वर ।

न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ।। 3.65.8 ।।

विमर्दः सम्प्रहारः । तत्र हेतुमाह नहीति । वृत्तं सङ्क्रान्तम् ।। 3.65.8 ।।

नैकस्य तु कृते लोकान्विनाशयितुमर्हसि ।

युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ।। 3.65.9 ।।

वक्तव्यमुक्त्वा प्रकृतमाह नैकस्येति । युक्तदण्डा अपराधोितशिक्षणप्रवर्तकाः ।। 3.65.9 ।।

सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ।

को नु दारप्रणाशं ते साधु मन्येत राघव ।। 3.65.10 ।।

विशिष्य तवायं धर्म इत्याह सदेति । शरण्यः शरणार्हः । परमा गतिः परमप्राप्यः । देवादिकृतो ऽयमपराधो नेत्याह को न्विति ।। 3.65.10 ।।

सरितः सागराः शैला देवगन्धर्वदानवाः ।

नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ।। 3.65.11 ।।

दीक्षितस्य उपक्रान्तयज्ञानुष्ठानस्य । साधवः ऋत्विजः ।। 3.65.11 ।।

येन राजन् हृता सीता तमन्वेषितुमर्हसि ।

मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ।। 3.65.12 ।।

परमर्षिभिः एतद्वनस्थैः ।। 3.65.12 ।।

समुद्रं विेष्यामः पर्वतांश् वनानि

गुहाश् विविधा घोरा नदीः पद्मवनानि ।। 3.65.13 ।।

समुद्रमिति । विेष्यामः अन्वेषिष्यामहे ।। 3.65.13 ।।

देवगन्धर्वलोकांश् विेष्यामः समाहिताः ।

यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ।। 3.65.14 ।।

देवेति । स्पष्टम् ।। 3.65.14 ।।

ेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ।

कोसलेन्द्र ततः पश्ात् प्राप्तकालं करिष्यसि ।। 3.65.15 ।।

ेदिति । प्राप्तश्तुर्थोपायकालो यस्मिन् कर्मणि तत्तथा ।। 3.65.15 ।।

शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि ेन्नरेन्द्र ।

ततः समुत्पादय हेमपुङ्खैर्महेन्द्रवज्रप्रतिमैः शरौघैः ।। 3.65.16 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे प़ञ्षष्टितमः सर्गः ।। 65 ।।

एतदेव स्पष्टयति शीलेनेति । समुत्पादय, विवक्षितकार्यमिति शेषः । समुत्सादयेति पाठे लोकानिति शेषः । एवं लक्ष्मणप्रसादनेन रामकोपशान्तिप्रपञ्नाद्रावणाराधिततत्पक्षपातिरुद्रसङ्कल्पाद्रामकोपो भग्न इति । वदन् मूर्ख इत्यवगन्तव्यः ।। 3.65.16 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने प़ञ्षष्टितमः सर्गः ।। 65 ।।

Languages

Related Parts

error: Content is protected !!