[highlight_content]

66 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्षष्ठितमः सर्गः

तं तथा शोकसन्तप्तं विलपन्तमनाथवत् ।

मोहेन महाताविष्टं परिद्यूनमचेतनम् ।। 3.66.1 ।।

ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्णः ।

रामं सम्बोधयामास चरणै चाभिपीडयन् ।। 3.66.2 ।।

एवं लक्ष्मणो राममाश्वास्य पुनर्वक्तव्यांशं ज्ञापयति षट्षष्टितमे तं तथेत्यादिश्लोकद्वयमेकान्वयम् । परिद्यूनं परिदेवनं प्राप्तम्, परिशोचन्तमित्यर्थः । “च्छ्वोः शूडनुनासिके च” इत्यूठ् । “दिवो ऽविजिगीषायाम्” इति निष्ठानत्वम् । अचेतनम् अस्वस्थचित्तम् । सम्बोधयामास ज्ञापयामास । अभिपीडयन् उपसङ्गृह्णन् ।। 3.66.1,2 ।।

महता तपसा राम महता चापि कर्मणा ।

राज्ञा दशरथेनासि लब्धो ऽमृतमिवामरैः ।। 3.66.3 ।।

महता तपसा कायक्लेशेन व्रतोपवासादिना । महता चापि कर्मणा अश्वमेधपुत्रकामेष्टिप्रभृतिकर्मणा । राज्ञा दशरथेन “राजा लोकस्य रञ्जनात्” अनेन मन्त्रद्रव्यक्रियालोपाभावेनाधिकारिणा कृतत्वमुच्यते । अमृतमिव तद्वत् भोग्यत्वं यत्नसाध्वत्वं चोत्यते । अमरैः अनेकसुरकृतयत्नः एकेन कृत इति गम्यते ।। 3.66.3 ।।

तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः ।

राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ।। 3.66.4 ।।

तवेति । एवकारेण इतरपुत्रव्यावृत्तिः । तवैव गुणैर्बद्धः त्वद्गुणैकपरवशः महीपतिः राजा न तु जातिमात्रेण राजा देवत्वमापन्नः । तत्र किं प्रमाणं तत्राह भरतस्येति । भरतादित्यर्थः । पञ्चम्यर्थे षष्ठी । तथैव मयोक्तमिति शेषः ।। 3.66.4 ।।

यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे ।

प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिश्यति ।। 3.66.5 ।।

काकुत्स्थेत्यनेनाप्राकृतत्वं महासत्त्वत्वं च सिद्धम् । सहिष्यति सहिष्यते ।। 3.66.5 ।।

दुःखितो हि भवान् लोकांस्तेजसा यदि धक्ष्यते ।

आर्ताः प्रजा नरव्याघ्र क्वनु यास्यन्ति निर्वृतिम् ।। 3.66.6 ।।

धक्ष्यते धक्ष्यति ।। 3.66.6 ।।

[आश्वासिहि नरश्रेष्ठ प्राणिनः कस्य नापदः ।

संस्पृशन्त्यग्निवद्राजन् क्षणेन व्यपयान्ति च ।।]

लोकस्वभाव एवैष ययातिर्नहुषात्मजः ।

गतः शक्रेण सालोक्यमनयस्तं तमः स्पृशत् ।। 3.66.7 ।।

प्रसङ्गात् दैविकावर्थानर्थावन्ये महान्तो ऽपि प्राप्नुवन्तीति दृष्टान्तमुखेन प्रतिपादयितुमाह लोकस्वभाव इत्यादिना । एष लोकस्वभाव इति वक्ष्यमाणेषु सर्वत्र योज्यम् । अनयः अनयमूलं दुःखमित्यर्थः । तमः अज्ञानं स्पृशन् अस्पृशत् । स हि स्वर्गगतो ऽपि इन्द्रेणासूयाकलुषेण भवद्राज्ये को वा श्रेष्ठ इति पृष्टः सत्यवादितया ऽहमेवेत्युक्तवान् । इन्देणात्मश्लाघी त्वं न स्वर्गार्ह इति पातित इति पुराणप्रसिद्धिः । नहुषात्मज इत्यनेन नहुषानीतिरपि व्यज्यते । स च सप्तर्षीन् स्ववाहकान् शचीस्मरणेन सर्प सर्प इत्युक्तवान् सर्पो भवेत्यगस्त्यशप्तश्चिरं तथाभूतस्तस्थौ ।। 3.66.7 ।।

महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः ।

अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ।। 3.66.8 ।।

अह्ना पुत्रशतं हतम्, विश्वामित्रकोपेन युगपत्पुत्रशतनाशदुःखमनुभूतमिति भावः ।। 3.66.8 ।।

या चेयं जगतां माता देवी लोकनमस्कृता ।

अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव ।। 3.66.9 ।।

माता सर्वोपादानत्वात् । देवी देवस्य विष्णोः पत्नी अत एव लोकनमस्कृता । सत्यसंश्रवेति त्वयैव हि पूर्वं मह्यमेवमुपदिष्टमिति भावः ।। 3.66.9 ।।

यौ धर्मौ जगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम् ।

आदित्यचन्दौ ग्रहणमभ्युपेतौ महाबलौ ।। 3.66.10 ।।

धर्मौ धर्मप्रवर्तकौ सर्वधर्मसाक्षित्वात् । नेत्रौ नेतारौ कालपरिच्छेदादिमुखेन जगतः प्रवर्तकौ ।

“नेत्रो नेतरि भेद्यवान्” इति विश्वः । सर्वेषामर्थप्रकाशकत्वेन नेत्रभूतौ वा । लिङ्गव्यत्ययश्छान्दसः । यत्र ययोः सर्वं जगत् प्रतिष्ठितं यदधीनस्वरूपस्थितिप्रवृत्तिकाः सर्वे जना इत्यर्थः । सूर्यस्य वर्षहेतुत्वात् चन्द्रस्यौषधिहेतुत्वाच्चेति भावः । “आदित्याज्जयते वृष्टिस्ततो ऽन्नमभिजायते ।” इति वचनात् । ग्रहणं राहुकेतुभ्यां ग्रासम् ।। 3.66.10 ।।

सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ ।

न दैवस्य प्रमुञ्चन्ति सर्वभूतादिदेहिनः ।। 3.66.11 ।।

किं बहुना सङ्ग्रहेणोच्यत इत्याह सुमहान्तीति । सुमहान्ति भूतानि मान्धातृनलप्रभृतिमहाजना अपि । सर्वभूतादिदेहिनः सर्वभूतानि आदिदेहो ऽस्यास्तीति तथा सर्वभूतान्तर्यामिण इत्यर्थः । दैवस्य परमात्मनः । पञ्चम्यर्थे षष्ठी । न प्रमुञ्चन्ति सर्वे ऽपि तत्सङ्कल्पं नातिक्रामन्तीत्यर्थः ।। 3.66.11 ।।

शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ ।

श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि ।। 3.66.12 ।।

उपसंहरति शक्रादिष्वपीति । नयानयौ तन्मूलसुखदुःखे अतो न त्वं शोचितुमर्हसीत्यर्थः ।। 3.66.12 ।।

नष्टायामपि वैदेह्यां हृतायामपि चानघ ।

शोचितुं नार्हसे वीर यथा ऽन्यः प्राकृतस्तथा ।। 3.66.13 ।।

उक्तं विवृणोति नष्टायामपीति । नार्हसे नार्हसि ।। 3.66.13 ।।

त्वद्विधा न हि शोचन्ति सततं सत्यदर्शिनः ।

सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ।। 3.66.14 ।।

सत्यदर्शिनः यथार्थदर्शिनः । कृच्छ्रेषु दुःखेषु । अनिर्विण्णम् अविनाशिदर्शनं कृत्याकृत्यविवेको येषां ते तथा ।। 3.66.14 ।।

तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय ।

बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे ।। 3.66.15 ।।

तत्त्वतो बुद्ध्या अबाधितबुद्ध्या समनुचिन्तय, शुभाशुभे इति शेषः । महाप्राज्ञाः बुद्ध्या तात्कालिक्या युक्ताः सन्तः शुभाशुभे भाविनी विजानन्ति ।। 3.66.15 ।।

अदृष्टगुणदोषाणामधृतानां च कर्मणाम् ।

नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ।। 3.66.16 ।।

इदानीं फलानुभवः पूर्वकर्मसाध्यः अतस्तत्र न शोचनीयमित्याह अदृष्टेति । अदृष्टगुणदोषाणां प्रत्यक्षतो द्रष्टुमशक्यसुखदुःखरूपगुणदोषाणाम् । अधृतानां पुरा एवं कर्म कृतमिति निश्चेतुमशक्यानाम् तेषां प्रसिद्धानां पूर्वकृतानामित्यर्थः । कर्मणाम् इष्टं फलं क्रियाम् अनुष्ठानमन्तरेण न प्रवर्तते । पूर्वकर्मानुष्ठानं विना इदानीं फलं नोत्पद्यते अतः पूर्वकर्मफले इदानीं प्रवृत्ते का ऽत्र परिदेवनेति भावः ।। 3.66.16 ।।

त्वमेव हि पुरा राम मामेवं बहुशो ऽन्वशाः ।

अनुशिष्याद्धि कोनु त्वामपि साक्षाद्बृहस्पतिः ।। 3.66.17 ।।

अन्वशाः अनुशासितवानसि ।। 3.66.17 ।।

बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया ।

शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम् ।। 3.66.18 ।।

दुरन्वया दुर्लभा । प्रसुप्तं स्तिमितम् । सम्बोधयामि उत्थापयामि ।। 3.66.18 ।।

दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम् ।

इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ।। 3.66.19 ।।

दिवि भवं दिव्यम् । प्राणिजातं देवगन्धर्वादिकं तच्च सात्विकं वधानर्हम्, मानुषं मनुष्यलोकोद्भवं ब्राह्मणादिकं तदपि वधानर्हम् । सर्वलोकसंहारसमर्थम् आत्मनः पराक्रमं च अवेक्ष्य विचार्य द्विषतामेव वधे यतस्व ।। 3.66.19 ।।

किं ते सर्वविनाशेन कृतेन पुरुषर्षभ ।

तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि ।। 3.66.20 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्षष्ठितमः सर्गः ।। 66 ।।

उद्धर्तुं नाशयितुम् ।। 3.66.20 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्षष्ठितमः सर्गः ।। 66 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.