श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तषष्टितमः सर्गः
पूर्वजो ऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ।
सारग्राही महासारं प्रतिजग्राह राघवः ।। 3.67.1 ।।
अथ लक्ष्मणवाक्यप्रतिष्ठापितधैर्यो रामो युद्धभूमेर्दक्षिणतः किञ्चिद्दूरे गृध्रराजं दृष्ट्वा रोदिति सप्तषष्टितमे पूर्वजो ऽपीत्यादि । राघवः पूर्वजो ऽपि लक्ष्मणेन कनिष्ठेन सुभाषितं युक्तियुक्ततयोक्तं वाक्यम् उक्तमात्रस्तु उक्तमात्र एव जग्राह । “बालादपि सुभाषितम्” इति स्मृतेः । स्वयमुपदेष्टा कथमन्योक्तं जग्राहेत्यत्राह सारग्राहीति । कथमस्य वाक्यस्य सारवत्त्वं तत्राह महासारमिति ।। 3.67.1 ।।
सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः ।
अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ।। 3.67.2 ।।
सन्निगृह्येति । स्पष्टम् ।। 3.67.2 ।।
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।
केनोपायेन पश्येयं सीतामिति विचन्तय ।। 3.67.3 ।।
पश्येयं पश्येव ।। 3.67.3 ।।
तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् ।
इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ।
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् ।। 3.67.4 ।।
तमिति सार्धश्लोक एकान्वयः ।। 3.67.4 ।।
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि व ।
गुहाश्च विविधा घोरा नानामृगगणाकुलाः ।। 3.67.5 ।।
आवासाः किन्नराणां च गन्धर्वभवनानि च ।
तानि युक्तो मया सार्धं त्वमन्वेषितुर्महसि ।। 3.67.6 ।।
इह जनस्थाने । गिरिगतानि दुर्गाणि, गन्तुमशक्यप्रदेशा इत्यर्थः । निर्दराः विदीर्णपाषाणाः । कन्दराणि पाषाणसन्धयः । गुहाः देवखातबिलानि । युक्तः सन्नद्धः ।। 3.67.5,6 ।।
त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ ।
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ।। 3.67.7 ।।
न प्रकम्पन्ते न चञ्चलचित्ता भवन्तीत्यर्थः ।। 3.67.7 ।।
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ।
क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् ।। 3.67.8 ।।
क्षुरं क्षिरप्राख्यं शरम् । सीताया अदर्शनात् क्रोधः ।। 3.67.8 ।।
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ।
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ।। 3.67.9 ।।
कूटः शृङ्गम् । महाभागं महाभाग्यम् । स्वाम्यर्थे त्यक्तशरीरत्वात् । द्विजोत्तमं पक्षिश्रेष्ठम् । “दन्तविप्राण्डजा द्विजाः” इत्यमरः । क्षतजं रुधिरम् ।। 3.67.9 ।।
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ।
अनेन सीता वैदेही भक्षिता नात्र संशसः ।। 3.67.10 ।।
भक्षिता रुधिरार्द्रत्वादिति भावः ।। 3.67.10 ।।
गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने ।
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ।। 3.67.11 ।।
गृध्रस्य रुपमिव रूपं यस्य तत्तथा ।। 3.67.11 ।।
एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः ।। 3.67.12 ।।
एनमित्यर्धमेकं वाक्यम् । अजिह्मम् अकुण्ठम् अवक्रं वा गच्छन्तीत्यजिह्मगाः तैः ।। 3.67.12 ।।
इत्युक्त्वा ऽभ्यपतद् गृध्रं सन्धाय धनुषि क्षुरम् ।
क्रुद्धो रामः समुद्रान्तां कम्पयन्निव मेदिनीम् ।। 3.67.13 ।।
अभ्यपतत् अभिमुखं गतः । समुद्रान्तां समुद्रपर्यन्ताम् ।। 3.67.13 ।।
तं दीनं दीनया वाचा सफेनं रुधिरं वमन् ।
अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ।। 3.67.14 ।।
दशरथात्मजमिति सम्बन्धोक्तिः ।। 3.67.14 ।।
यामोषधिमिवायुष्मन्नन्वेषसि महावने ।
सा देवी मम च प्राणा रावणेनोभयं हृतम् ।। 3.67.15 ।।
यथा महौषध्यन्वेषिणः प्रतिवनमन्वषन्ते तथा यामस्मिन् विस्तीर्णे वने ऽन्वेषसि । “एषृ गतौ” इत्यस्माद्व्यत्ययेन परस्मैपदम् । नित्यं प्राणसमेत्युक्ता सा देवी मम प्राणाश्च उभयं रावणेन हृतम्, मम प्राणान् हृतप्रायान् कृत्वा सीतां रावणो हृतवानित्यर्थः । खरवधादिना रामबलं ज्ञात्वाप्यस्थाने भयशङ्कितया रामस्यायुः प्रार्थयते आयुष्मन्निति ।। 3.67.15 ।।
त्वया विरहिता देवी लक्ष्मणेन च राघव ।
ह्रियमाणा मया दृष्टा रावणेन बलीयसा ।। 3.67.16 ।।
त्वयेति स्पष्टम् ।। 3.67.16 ।।
सीतामभ्यवपन्नोहं रावणश्च रणे मया ।
विध्वंसितरथश्चात्र पातितो धरणीतले ।। 3.67.17 ।।
अभ्यवपन्नः आभिमुख्येन गतः । ह्रियमाणां सीतामवलोक्य तदभिमुखमागत इत्यर्थः । रावणश्च विध्वंसितरथः सन् अत्र धरणीतले पातितः, रथाद्भ्रंशितः इत्यर्थः ।। 3.67.17 ।।
एतदस्य धनुर्भग्नमेतदस्य शरावरम् ।
अयमस्य रथो राम भग्नः साङ्ग्रामिको मया ।। 3.67.18 ।।
भग्नमेतद्धनुः अस्य रावणस्य सम्बन्धि । एवमुत्तरत्रापि योज्यम् । शरावरं वर्म तूर्णीरं वा ।। 3.67.18 ।।
अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ।। 3.67.19 ।।
अयं त्वित्यर्धमेकम् ।। 3.67.19 ।।
परिश्रान्तस्य मे पक्षौ छित्त्वा खङ्गेन रावणः ।
सीतामादाय वैदेहीमुत्पपात विहायसम् ।। 3.67.20 ।।
वैदेहीं जनकेन सम्यक् परिपोषिताम् ।। 3.67.20 ।।
रक्षसा निहतं पूर्वं न मां हन्तुं त्वमर्हसि ।। 3.67.21 ।।
रक्षसेत्यर्धमेकम् ।। 3.67.21 ।।
रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा ।
द्विगुणीकृततापार्तः सीतासक्तां प्रियां कथाम् ।। 3.67.22 ।।
तस्य गृध्रस्य सम्बन्धिनीं सीताविषयकथां विज्ञाय श्रुत्वा द्विगुणीकृतेन गृध्रवधेन द्विरावर्तितेन तापेन आर्तः पीडितः, अभूदिति शेषः ।। 3.67.22 ।।
गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः ।
निपपातावशो भूमौ रुरोद सहलक्ष्मणः ।। 3.67.23 ।।
अवशः मूर्च्छित इत्यर्थः । रुरोद क्रमादिति शेषः ।। 3.67.23 ।।
एकमेकायने दुर्गे निःश्वसन्तं कथञ्चन ।
समीक्ष्य दुःखिततरो रामः सौमित्रिमब्रवीत् ।। 3.67.24 ।।
एकम् असहायं सहायरहितं दयया संरक्षकपथिकजनरहितमित्यर्थः । एकायने एकस्य मार्गे । “अयनं वर्म मार्गाध्व” इत्यमरः । एकपद्यामित्यर्थः । दुर्गे इतः परमपि केनचिद्गन्तुमशक्ये इति दुःखहेत्वतिरेकोक्तिः । निःश्वसन्तं गृध्रराजमिति शेषः ।। 3.67.24 ।।
राज्याद्भ्रंशो वने वासः सीता नष्टा द्विजो हतः ।
ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् ।। 3.67.25 ।।
यद्यपि “न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति” “वनवासो महोदयः” इति अभिमततमतया प्रोक्तौ राज्यनाशवनवासौ तथापि सम्प्रति सीता विश्लेषकारित्वाज्जटायुवियोगफलकत्वाच्च तावेवानर्थकरौ जातावित्याह राज्यादिति । राज्याद्भ्रंशः हठात् लब्धराज्यस्य विच्युतिः । वने वासः राज्यभ्रंशे ऽपि राज्ये भिक्षुकवृत्तयापि स्थातुं शक्यं तदपि न लब्धम् । सीता नष्टा वनवासेप्यभिमतजनविश्लेषाभावे सुखेनावस्थातुं शक्यं तदपि नास्ति । हतो द्विजः अभिमतजनविश्लेषे ऽपि बन्धुजनसन्निधौ शोको निर्वापयितुं शक्यः स च निवृत्तः । ईदृशी एतादृशदुःखपर्यवसायिनी मम अलक्ष्मीः दौर्भाग्यम् । पावकमपि निर्दहेत् सर्ववस्तुदाहकमपि दहेत्, सदा विश्लेषप्रसक्तिशून्यं लक्ष्मणमपि विश्लेषयेदिति भावः ।। 3.67.25 ।।
सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् ।
सो ऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः ।। 3.67.26 ।।
प्रतरेयं तापशान्तये प्लवेयं चेत् ।। 3.67.26 ।।
नास्त्यभाग्यतरो लोके मत्तो ऽस्मिन् सचराचरे ।
येनेयं महती प्राप्ता मया व्यसनवागुरा ।। 3.67.27 ।।
व्यसनं वागुरेव व्यसनवागुरा । “वागुरा मृगबन्धिनी” इत्यमरः ।। 3.67.27 ।।
अयं पितृवयस्यो मे गृध्रराजो जरान्वितः ।
शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ।। 3.67.28 ।।
पितुर्वयस्यः सखा ।। 3.67.28 ।।
इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः ।
जाटयुषं च पस्पर्श पितृस्नेहं विदर्शयन् ।। 3.67.29 ।।
पितरीव स्नेहः पितृस्नेहः ।। 3.67.29 ।।
निकृत्तपक्षं रुधिरावसिक्तं स गृध्रराजं परिरभ्य रामः ।
क्व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ ।। 3.67.30 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तषष्टितमः सर्गः ।। 67 ।।
रामः वाचं विमुच्य उक्त्वेत्यर्थः । अस्मिन् सर्गे एकोनत्रिंशच्छ्लोकाः ।। 3.67.30 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तषष्टितमः सर्गः ।। 67 ।।