श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकसप्ततितमः सर्गः
पुरा राम महाबाहो महाबलपराक्रम ।
रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ।
यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ।। 3.71.1 ।।
अथ कबन्धः स्ववृत्तान्तकथनपूर्वकं स्वशापमोक्षाय स्वशरीरदहनमर्थयते एकसप्ततितमे पुरेत्यादिसार्धश्लोक एकान्वयः । अचिन्त्यम् अचिन्त्यवैभवम् ।। 3.71.1 ।।
सो ऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ।
ऋषीन्वनगतान् राम त्रासयामि ततस्ततः ।। 3.71.2 ।।
सो ऽहमिति । सुन्दररूपो ऽहम् । रूपं शरीरं लोकवित्रासनं क्रूरं कृत्वा परिगृह्य ततस्ततः तत्र तत्र ऋषीन् त्रासयामि अत्रासयम् ।। 3.71.2 ।।
ततः स्थूलशिरा नाम महर्षिः कोपितो मया ।
सञ्चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः ।। 3.71.3 ।।
विविधं वन्यं सञ्चिन्वन् स्थूलशिराः धर्षितः अपहृतवन्यः तेन कोपितश्च ।। 3.71.3 ।।
तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ।
एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ।। 3.71.4 ।।
एंवविधं मे रूपं प्रेक्ष्य घोरशापाभिधायिना तेन ऋषिणा नृशंसं गर्हितम् एतदेव रूपं ते अस्त्वित्यहमुक्तः ।। 3.71.4 ।।
स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ।
अभिशापकृतस्येति तेनेदं भाषितं वचः ।। 3.71.5 ।।
अभिशापशब्देन तन्निमित्तं धर्षणं लक्ष्यते । मद्धर्षणकृतस्य शापस्यान्तो भवेदिति स मया याचितः प्रार्थितः इति हेतोः तेन मयैवं याचितेन इदं वक्ष्यमाणं वचो भाषितम् ।। 3.71.5 ।।
यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने ।
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ।। 3.71.6 ।।
तदेवाह यदेति ।। 3.71.6 ।।
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ।
इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ।। 3.71.7 ।।
तर्हि कबन्धरूपप्राप्तिः केन हेतुनेत्यत्राह श्रियेति । मामिति शेषः । एवम् एवंविधम् । रणाजिरे रणाङ्गणे ।। 3.71.7 ।।
अहं हि तपसोग्रेण पितामहमतोषयम् ।
दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोस्पृशत् ।। 3.71.8 ।।
इन्द्रेण योद्धुं तव कुतः सामर्थ्यं तत्राह अहं हीति । ऋषिदत्तघोराकारप्राप्त्यनन्तरम् उग्रेण तपसा पितामहमतोषयम्, स्वकुलशत्रोरिन्द्रस्य जयायेत्यर्थः । विभ्रमः अज्ञानम् ।। 3.71.8 ।।
दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति ।
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् ।। 3.71.9 ।।
तदेवाह दीर्घमिति ।। 3.71.9 ।।
तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा ।
सक्थिनी चैव मूर्धा च शरीरे सम्प्रवेशितम् ।। 3.71.10 ।।
शतपर्वणा शतधारेण । सक्थिनी पृष्ठास्थिफलके । शरीरे मध्यदेहे उदरभागे सक्थ्नोः प्रवेशनम्, उरोभागे मूर्ध्नः प्रवेशनम् । सम्प्रवेशितमित्यत्र “नपुंसकमनपुंसकेन” इति नपुंसकपरिशेषत्वम् एकवद्भावश्च ।। 3.71.10 ।।
स मया याच्यमानः सन्नानयद्यमसादनम् ।
पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ।। 3.71.11 ।।
याच्यमानः मारयेति प्रार्थ्यमानः । यमसादनं नानयत् मृतिं न प्रापितवान् । कुत इत्यत्राह पितामहेति । तत् पूर्वोक्तं दीर्घायुर्विषयकं पितामहवचः सत्यमस्त्विति मम मह्यम् अब्रवीत् न त्वां मारयामीत्यब्रवीदित्यर्थः ।। 3.71.11 ।।
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः ।
वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् ।। 3.71.12 ।।
एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ ।
प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ।। 3.71.13 ।।
अनाहार इत्यादिश्लोकद्वयमेकान्वयम् । अनाहारः सन् सुदीर्घं कालं कथं जीवितुं शक्तः भग्नसक्थिशिरोमुखत्वमनाहारत्वे हेतुः । बाहू प्रादात् आस्यमकल्पयत् ।। 3.71.12,13 ।।
सो ऽहं भुजाभ्यां दीर्घाभ्यां सङ्कृष्यास्मिन्वनेचरान् ।
सिंहद्वीपमृगव्याघ्रान् भक्षयामि समन्ततः ।। 3.71.14 ।।
सो ऽहमिति । सङ्कृष्य आकृष्य ।। 3.71.14 ।।
स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः ।
छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यति ।। 3.71.15 ।।
स मामित्यनेन बालत्कारो लक्ष्यते ।। 3.71.15 ।।
अनेन वपुषा राम वने ऽस्मिन् राजसत्तम ।
यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये ।। 3.71.16 ।।
अनेनेति । अनेन वपुषा उपलक्षितो ऽहं यद्यत्पश्यामि तस्य ग्रहणं रोचये न त्वभक्ष्यबुद्ध्या किञ्चित्त्यजामीत्यर्थः ।। 3.71.16 ।।
अवश्यं ग्रहणं रामो मन्ये ऽहं समुपैष्यति ।
इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः ।। 3.71.17 ।।
महर्षिवाक्यविश्वासात् अवश्यं रामो ग्रहणं समुपैष्यतीति मन्ये । इमां बुद्धिं पुरस्कृत्य देहन्यासे कृतश्रमो भवामि विकृतदेहत्यागे कृतोद्योगो भवामि । देहत्यागे कृतबुद्धितया रामो ऽवश्यं ग्रहणमुपैष्यतीति सर्वग्रहणं रोचय इति भावः ।। 3.71.17 ।।
स त्वं रामो ऽसि भद्रं ते नाहमन्येन राघव ।
शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा ।। 3.71.18 ।।
रामत्वे युक्तिमाह नाहमिति । एवं यथार्थमेव महर्षिणोक्तम् ।। 3.71.18 ।।
अहं हि मतिसाचिव्यं किरष्यामि नरर्षभ ।
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतो ऽग्निना ।। 3.71.19 ।।
मतिसाचिव्यं बुद्धिसाहाय्यं करिष्यामि । किञ्च तद्विषये मित्रं चोपदेक्ष्यामि युवाभ्यामग्निना संस्कृतश्चेद्भवेयम् ।। 3.71.19 ।।
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ।
इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ।। 3.71.20 ।।
दनुना दनुवंश्येन । औपचारिकस्तद्वंश्ये तच्छब्दः ।। 3.71.20 ।।
रावणेन हृता भार्या मम सीता यशस्विनी ।
निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम् ।। 3.71.21 ।।
जनस्थानाद्यथासुखं निष्क्रान्तस्य निर्गतस्य मे भार्या हृता ।। 3.71.21 ।।
नाममात्रं तु जानामि न रूपं तस्य रक्षसः ।
निवासं वा प्रभावं वा वयं तस्य न विद्महे ।। 3.71.22 ।।
नाममात्रं तु जानामि आप्तवाक्यादिति शेषः । न विद्महे अहं मत्पुरीजनाश्चेत्यर्थः ।। 3.71.22 ।।
शोकार्तानामनाथानामेवं विपरिधावताम् ।
कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् ।। 3.71.23 ।।
उपकारे परोपकारे । वर्ततां प्रवर्तमानानाम् अस्माकं विषये कारुण्यं कर्तुम्, सदृशं युक्तम् ।। 3.71.23 ।।
काष्ठान्यादाय शुष्काणि काले भग्नानि कुञ्जरैः ।
धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते ।। 3.71.24 ।।
उपकारमेवाह काष्ठानीति । कल्पिते सज्जे । श्वभ्रे अवटे ।। 3.71.24 ।।
स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता ।
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः ।। 3.71.25 ।।
कल्याणं तत्त्वकथनरूपम् ।। 3.71.25 ।।
एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ।
प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ।। 3.71.26 ।।
वक्तारमपि राघवं वक्तुं कुशलः ।। 3.71.26 ।।
दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ।
यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ।। 3.71.27 ।।
मैथिलीं तदपहर्तारं चेति द्रष्टव्यम् । तर्हि किं वा मतिसाचिव्यं करिष्यसीत्यत्राह य इति । तर्हि तं वा ब्रूहीत्यत्राह दग्ध इति ।। 3.71.27 ।।
अदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे प्रभो ।
राक्षसं तं महावीर्यं सीता येन हृता तव ।। 3.71.28 ।।
इदमेव व्यतिरेकमुखेनाह अदग्धस्येति ।। 3.71.28 ।।
विज्ञानं हि मम भ्रष्टं शापदोषेण राघव ।
स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् ।। 3.71.29 ।।
कुत इत्यत्राह विज्ञानं हीति । विज्ञानम् अतीन्द्रियविषयकम् । स्वकृतेन पापेनेति शेषः ।। 3.71.29 ।।
किन्तु यावन्न यात्यस्तं सविता श्रान्तवाहनः ।
तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ।। 3.71.30 ।।
अवटे श्वभ्रे । यथाविधि यथा सम्यक् दग्धं भवति तथेत्यर्थः ।। 3.71.30 ।।
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन ।
वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम् ।। 3.71.31 ।।
न्यायेन सम्यक्त्वेन ।। 3.71.31 ।।
तेन सख्यं च कर्तव्यं न्यायवृत्तेन राघव ।
कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः ।। 3.71.32 ।।
न्यायवृत्तेन नीतिमच्चरित्रेण ।। 3.71.32 ।।
न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव ।
सर्वान् परिसृतो लोकान् पुरा ऽसौ कारणान्तरे ।। 3.71.33 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकसप्ततितमः सर्गः ।। 71 ।।
कारणान्तरे भ्रातृविरोधरूपनिमित्तान्तरे । अयं रावणमेव न जानाति सुग्रीवं तु जानाति किन्तु तन्नाम न कथितवान् दाहात्पूर्वं कथने कुत्सितशरीरदहने रामो वैमनस्यं कुर्यादिति । अस्मिन् सर्गे सार्धत्रयस्त्रिंशच्छ्लोकाः ।। 3.71.33 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकसप्ततितमः सर्गः ।। 71 ।।