श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विसप्ततितमः सर्गः
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ ।
गिरिप्रदरमासाद्य पावकं विससर्जतुः ।। 3.72.1 ।।
अथ संस्कृतः कबन्धः स्वरूपं प्रत्यापन्नो मित्रमुपदिशति द्विसप्ततितमे एवमुक्तावित्यादि । प्रदरं श्वभ्रम् । आसाद्य प्रापय्य कबन्धमिति शेषः ।। 3.72.1 ।।
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः ।
चितामादीपयामास सा प्रजज्वाल सर्वतः ।। 3.72.2 ।।
महोल्काभिः निर्गतज्वालकाष्ठैः ।। 3.72.2 ।।
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् ।
मेदसा पच्यमानस्य मन्दं दहति पावकः ।। 3.72.3 ।।
मेदसा मांसेन पच्यमानास्य अभिवृद्धस्य कबन्धस्य शरीरम् ।। 3.72.3 ।।
स विधूय चितामाशु विधूमो ऽग्निरिवोत्थितः ।
अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः ।। 3.72.4 ।।
अरजे निर्मले । अदन्तत्वमार्षम् ।। 3.72.4 ।।
ततश्चिताया वेगेन भास्वरो विमलाम्बरः ।
उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ।। 3.72.5 ।।
तत इति । चिताया उत्पपात सर्वेषु प्रत्यङ्गेष्वङ्गुल्यादिष्वपि भूषणानि यस्य स तथा ।। 3.72.5 ।।
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे ।
प्रभया च महातेजा दिशो दश विराजयन् ।। 3.72.6 ।।
हंसयुक्त इत्यनेन रामदग्धतया ब्रह्मलोकप्राप्तिः सूच्यते । विराजयन् अभूदिति शेषः ।। 3.72.6 ।।
सो ऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् ।
शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ।। 3.72.7 ।।
तत्त्वेन परमार्थतः । शृण्विति वाक्यमब्रवीदिति सम्बन्धः ।। 3.72.7 ।।
राम षड्युक्तयो लोके याभिः सत्त्वं विमृश्यते ।। 3.72.8 ।।
हे राम लोके षड्युक्तयः सन्ति । युक्तयः उपायाः । ते च सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः । याभिर्युक्तिभिः सत्त्वं राज्ञां कृत्यं विमृश्यते ताः सन्तीति ।। 3.72.8 ।।
परिमृष्टो दशान्तेन दशाभागेन सेव्यते ।
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः ।
यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ।। 3.72.9 ।।
ततः किमित्यपेक्षायां सन्धिविषयं दर्शयति परिमृष्ट इति । दशा नाम दौस्थ्यरूपावस्था तस्याः अन्तः परिपाकः तेन परिमृष्टः संस्पृष्टः पुरुषः दशाभागेन दशायाः भागः परिपाकलक्षणः अंशो यस्य तेन सेव्यते सन्धीयते । अस्तु प्रकृते किमायातं तत्राह दशाभागगत इति । हे राम सलक्ष्मणस्त्वं दशाभागगतः दुर्दशापन्नः अत एव हीनश्च । कुतः? यत्कृते येन कारणेन दारप्रधर्षणं नाम व्यसनं प्राप्तं तेन त्वं दशाभागगगतः ।। 3.72.9 ।।
तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर ।
अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन् ।। 3.72.10 ।।
ततो ऽपि किमित्यत्राह तदिति । दशाभागेन त्वया सः दशाभागगतः कश्चित् सुहृत्कार्यः । अवश्यमित्यत्र हेतुमाह अकृत्वेति । सुहृदम् अकृत्वा असम्पाद्य सिद्धिं सीतालाभं चिन्तयन्नपि न पश्यामि ।। 3.72.10 ।।
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः ।
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ।। 3.72.11 ।।
ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते ।
निवसत्यात्मवान् वीरश्चतुर्भिस्सह वानरैः ।। 3.72.12 ।।
स पुनः क इत्यपेक्षायामाह श्रूयतामित्यादि, श्लोकद्वयमेकान्वयम् ।। 3.72.11,12 ।।
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः ।
सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान् ।। 3.72.13 ।।
दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः ।
भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः ।। 3.72.14 ।।
स ते सहायो मित्रं च सीतायाः परिमार्गणे ।
भविष्यति हि ते राम मा च शोके मनः कृथाः ।। 3.72.15 ।।
स च त्वत्सदृशगुणकत्वाद्दशाभागगतत्वाच्च ते मित्रतामर्हतीत्याह त्रिभिः वानरेन्द्र इति । तेजोवान् तेजस्वी । द्युतिमान् कान्तिमान् ।। 3.72.1315 ।।
भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा ।
कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ।। 3.72.16 ।।
शोकापनोदनाय लोकन्यायमाह भवितव्यमिति श्लोकेन ।। 3.72.16 ।।
गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् ।
वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव ।
अद्रोहाय समागम्य दीप्यमाने विभावसौ ।। 3.72.17 ।।
गच्छेत्यादिसार्धश्लोक एकान्वयः । इतो गत्वेत्यनुवादः । समागम्य सुग्रीवेण संयुज्य । अद्रोहाय परस्परद्रोहाभावाय । विभावसौ अग्नौ दीप्यमाने सति अग्निसाक्षिकमित्यर्थः । तं सुग्रीवं वयस्यं कुरु ।। 3.72.17 ।।
स च ते नावमन्तव्यः सुग्रीवो वानराधिपः ।
कृतज्ञः कामरूपी च सहायर्थी च वीर्यवान् ।। 3.72.18 ।।
स च सुग्रीवः ते त्वया नावमन्तव्यः अयं तिर्यक् किमनेनेति तस्मिन्नावमतिः कार्या । तत्र हेतुमाह कृतज्ञ इति ।। 3.72.18 ।।
शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ।
कृतार्थो वा ऽकृतार्थो वा कृत्यं तव करिष्यति ।। 3.72.19 ।।
तस्य सुग्रीवस्य । चिकीर्षितं युवां कर्तुं शक्तौ अतः स कृतार्थः कृतस्वप्रयोजनः । अकृतार्थः करिष्यमाणस्वप्रयोजनो वा तव कृत्यं करिष्यति ।। 3.72.19 ।।
स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ।
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ।। 3.72.20 ।।
स कस्य पुत्रः कुत्र तिष्ठतीत्यत्राह स इति । सन्धिरार्षः । ऋक्षरजास्तन्मातेत्याहुः । पम्पामटति तत्तीरे पर्यटति । शङ्कितः वालिनिमित्तमिति शेषः । कृतकिल्बिषः कृतवैरः ।। 3.72.20 ।।
सन्निधायायुधं क्षिप्रमृश्यमूकालयं कपिम् ।
कुरु राघव सत्येन वयस्यं वनचारिणम् ।। 3.72.21 ।।
सख्यं च न केवलमग्निसाक्षिकं किन्त्वायुधमपि सन्निधाप्य कर्तव्यमित्याह सन्निधायेति । सत्येन शपथेन ।। 3.72.21 ।।
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः ।
नरमांसाशिनां लोके नैपुण्यादधिगच्छति ।। 3.72.22 ।।
नरमांसाशिनां राक्षसानाम् । अधिगच्छति ज्ञास्यति ।। 3.72.22 ।।
न तस्याविदितं लोके किञ्चिदस्ति हि राघव ।
यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम ।। 3.72.23 ।।
नेति । यावत्सूर्यः प्रतपति तावति लोक इत्यन्वयः ।। 3.72.23 ।।
स नदीर्विपुलाञ्छैलान् गिरिदुर्गाणि कन्दरान् ।
अन्वीक्ष्य वानरैः सार्धं पत्नीं ते ऽधिगमिष्यति ।। 3.72.24 ।।
स इति । अधिगमिष्यति ज्ञास्यति ।। 3.72.24 ।।
वानरांश्च महाकायान् प्रेषयिष्यति राघव ।
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ।। 3.72.25 ।।
स ज्ञास्यति वरारोहां निर्मलां रावणालये ।। 3.72.26 ।।
वानरांश्चेति सार्धश्लोकः । शोचतीं शोचन्तीम् ।। 3.72.25,26 ।।
स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतले ऽपि वाश्रिताम् ।
प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ।। 3.72.27 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विसप्ततितमः सर्गः ।। 72 ।।
स इति । प्रविश्य रक्षांसि निहत्येत्यन्वयः । अनिन्दितामिति सीतायाः शुद्धत्वप्रतिज्ञा ।। 3.72.27 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विसप्ततितमः सर्गः ।। 72 ।।