श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग:
स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: ।
अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। 2.114.1 ।।
पूर्वसर्गान्तिमश्लेकोक्तं विस्तरेण दर्शयति चतुर्दशोत्तरशततमे–स्निग्धगम्भीरघोषेणेत्यादि । उपयान् समीपमागच्छन् ।। 2.114.1 ।।
बिडालोलूकचरितामालीननरवारणाम् ।
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। 2.114.2 ।।
कालीं कृष्णपक्षसम्बन्धिनीम् ।। 2.114.2 ।।
राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।
ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। 2.114.3 ।।
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।
लीनमीनझषग्राहां कृशां गिरिनदीमिव ।। 2.114.4 ।।
राहुशत्रो: चन्द्रस्य ।। 2.114.34 ।।
विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् ।
हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ।। 2.114.5 ।।
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।
हतप्रवीरामापन्नां चमूमिव महाहवे ।। 2.114.6 ।।
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।
प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ।। 2.114.7 ।।
हविरभ्युक्षितां दध्यादिहविषा अभ्युक्षिताम् । शिखां प्रवर्ग्योत्थितज्वालाम् ।। 2.114.57 ।।
त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: ।
सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ।। 2.114.8 ।।
यज्ञायुधै: स्फ्यादिभि: । सुत्याकाले सुत्यादिवसे ।। 2.114.8 ।।
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।
गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।। 2.114.9 ।।
अचरन्तीम् अभक्षयन्तीम् ।। 2.114.9 ।।
प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: ।
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।। 2.114.10 ।।
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।
संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ।। 2.114.11 ।।
प्रभाकराद्यै: पद्मरागाद्यै: ।। 2.114.1011 ।।
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।
द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।। 2.114.12 ।।
वसन्तान्ते ग्रीष्मे । द्रुतदावाग्निविप्लुष्टां वेगवद्दावाग्निना ईषद्दग्धाम् ।। 2.114.12 ।।
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।
प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।। 2.114.13 ।।
संमूढनिगमां जनसञ्चाररहितमार्गाम् । “निगमो निश्चये वेदे पुरे पथि वणिक्पथे” इति वैजयन्ती । संक्षिप्तविपणापणां सङ्कुचितविक्रयां सङ्कुचितनिषद्यां च ।। 2.114.13 ।।
क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् ।
हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।। 2.114.14 ।।
क्षीणपानोत्तमै: क्षीणमधूत्तमै: । शरावै: चषकाकारै: । हतशौण्डां हतमत्तजनाम् । आकाशे अनावृतप्रदेशे ।। 2.114.14 ।।
वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् ।
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। 2.114.15 ।।
वृक्णभूमितलां विदीर्णभूमितलाम् । वृक्णपात्रै: भिन्नपात्रै: ।। 2.114.15 ।।
विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। 2.114.16 ।।
वितताम् अटनीद्वयव्याप्ताम्, आरोपितामिति यावत् । युक्तपाशां युक्तरज्जुम् । तरस्विनां वीराणां बाणै: विनिष्कृत्ताम्, छिन्नामिति यावत् । आयुधात् धनुष: ।। 2.114.16 ।।
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।
निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।। 2.114.17 ।।
शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् ।
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।। 2.114.18 ।।
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।
सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।। 2.114.19 ।।
युद्धशौण्डेन आहवसमर्थेना निक्षिप्तभाण्डाम् अवरोपिताश्वभूषाम् । उत्सृष्टां वाहनानर्हां किशोरीं बालवडवाम् ।। 2.114.1719 ।।
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।। 2.114.20 ।।
भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: ।
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।। 2.114.21 ।।
प्रविगाढायां प्रवृद्धायां भास्करस्य प्रभामिव स्थिताम् । उक्तविशेषणविशिष्टामयोध्यां प्रविवेशेति पूर्वेणान्वय: ।। 2.114.2021 ।।
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।
यथापुरमयोध्यायां गीतवादित्रनिस्वन: ।। 2.114.22 ।।
किंनु खलु अहो कष्टं जातमित्यर्थ: ।। 2.114.22 ।।
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: ।
धूपितागरुगन्धश्च न प्रवाति समन्तत: ।। 2.114.23 ।।
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: ।
प्रमत्तगजनादश्च महांश्च रथनिस्वन: ।
नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।। 2.114.24 ।।
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: ।
गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ।। 2.114.25 ।।
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: ।
नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ।। 2.114.26 ।।
वारुणीमदगन्ध: वारुण्या: मदोत्पादको गन्ध इत्यर्थ: ।। 2.114.2326 ।।
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।
नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।। 2.114.27 ।।
सासारा वेगवद्वृष्टिसहिता । “आसार: स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले” इति वैजयन्ती । अर्जुनी शुक्लपक्षसम्बन्धिनी ।। 2.114.27 ।।
कदा नु खलु मे भ्राता महोत्सव इवागत: ।
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ।। 2.114.28 ।।
महोत्सव: ग्रीष्मे अम्बुद इव च अयोध्यायां कदा मे भ्राता हर्षं जनयिष्यतीति सम्बन्ध: ।। 2.114.28 ।।
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: ।
सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ।। 2.114.29 ।।
तरुणैरिति । उन्नतगामिभि: सगर्वगमनैरित्यर्थ: । महापथा: राजमार्गा: ।। 2.114.29 ।।
एवं बहुविधं जल्पन् विवेश वसतिं पितु: ।
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।। 2.114.30 ।।
एवमिति । एवं बहुविधं जल्पन्निति पाठ: ।। 2.114.30 ।।
तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।
निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ।। 2.114.31 ।।
तदेति । सुरैरुत्सृष्टमभास्करं दिनमिव उज्झितप्रभम् अन्त:पुरं निरीक्ष्येति सम्बन्ध: । विविक्तं विजनम् । “विविक्तौ पूतविजनौ” इत्यमर: । पुरा किल देवासुरयुद्धे असुरैर्देवा: पराजिता:, स्वर्भानुना च भानु: पातितस्तदानीं कियान् कालो दिवारात्रविभागरहितो ऽभूत् । तत: परं ब्रह्मनियोगादत्रि: स्वतेजसा सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा । अग्नि: स्वतेजसेति पाठान्तरम् ।। 2.114.31 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: ।। 114 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशोत्तरशततम: सर्ग: ।। 114 ।।