[highlight_content]

14 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

तुर्दश: सर्ग:

पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि ।

विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ।। 2.14.1 ।।

अथ रामविवासननिर्द्धारणं दर्शयति तुर्दशे–पुत्रेत्यादि ।। 2.14.1 ।।

पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् ।

शेषे क्षितितले सन्न: स्थित्यां स्थातुं त्वमर्हसि ।। 2.14.2 ।।

पापमिति । संश्रवं दास्यामीति प्रतिज्ञाम् । संश्रुत्य कृत्वेत्यर्थ: । पाकं पतीतिवन्निर्देश: । पापं प्रतिज्ञाताकरणरूपं पापं कृत्वैव क्षितितले सन्न: अवसन्न: सन् शेषे । किमिदं स्थित्यां मर्यादायां सत्यपरिपालनरूपायां “मर्यादाधारणा स्थिति:” इत्यमर: । स्थातुमर्हसि ।। 2.14.2 ।।

आहु: सत्यं हि परमं धर्मं धर्मविदो जना: ।

सत्यमाश्रित्य हि मया त्वं धर्मप्रोदित: ।। 2.14.3 ।।

इदमेव युक्तमिति दर्शयति–आहुरित्यादिना । सत्यरूपं धर्ममाश्रित्य हि मया प्रोदित: ।। 2.14.3 ।।

संश्रुत्य शैब्य: श्येनाय स्वां तनुं जगतीपति: ।

प्रदाय पक्षिणे राजन् जगाम गतिमुत्तमाम् ।। 2.14.4 ।।

प्राणसङ्कटे कथं सत्यं पालनीयमित्यत्राह–संश्रुत्येत्यादिना ।। 2.14.4 ।।

तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे ।

यामाने स्वके नेत्रे उद्धृत्या विमना ददौ ।। 2.14.5 ।।

तथेति । यामाने ब्राह्मणे । अविमना: सुप्रसन्नमना: सन् नेत्रे ददौ । तस्मा इति शेष: ।। 2.14.5 ।।

सरितां तु पति: स्वल्पां मर्यादां सत्यमन्वित: ।

सत्यानुरोधात्समये वेलां स्वां नातिवर्त्तते ।। 2.14.6 ।।

सरितामिति । सरितां पति: समुद्र: । मर्यादां सत्यमन्वित: वेलां नातिवर्त्तत इति मर्यादारूपं सत्यं प्राप्त: सन् । सत्यानुरोधात् स्वकृतसत्यानुवर्त्तनात् समये सङ्कल्पितकाले । स्वां वेलां स्वल्पामपि नातिवर्तत इतिसम्बन्ध: ।। 2.14.6 ।।

सत्यमेकपदं ब्रह्म सत्ये धर्म: प्रतिष्ठित: ।

सत्यमेवाक्षया वेदा: सत्येनैवाप्यते परम् ।। 2.14.7 ।।

सत्यमिति । सत्यमेव एकपदं ब्रह्म एकं मुख्यम् । “एके मुख्यान्यकेवला:” इत्यमर: । पद्यत इति पदं परमप्राप्यम्, ब्रह्मेत्यर्थ: । यद्वा एकं पदं प्रणवरूपं वाकं यस्य तत्तथा “ओमित्येकाक्षरं ब्रह्म” इति स्मृते: । सत्ये धर्म: प्रतिष्ठित: सत्यमेव धर्मस्य परा काष्ठेत्यर्थ: । अक्षया वेदाश् सत्यमेव प्राधान्येन प्रतिपादयन्तीत्यर्थ: । परं प्रयोजनं सत्येनैवाप्यते ।। 2.14.7 ।।

सत्यं समनुवर्त्तस्व यदि धर्मे धृता मति: ।

स वर: सफलो मे ऽस्तु वरदो ह्यसि सत्तम ।। 2.14.8 ।।

सत्यमिति । अत्रादौ तस्मादित्युपस्कार्यम् । धृता स्थिरा । वरद: सर्वेषां सर्ववरप्रद: ।। 2.14.8 ।।

धर्मस्येहाभिकामार्थं मम ैवाभ्योदनात् ।

प्रव्राजय सुतं रामं त्रि: खलु त्वां ब्रवीम्यहम् ।। 2.14.9 ।।

धर्मस्येति । अभिकामार्थं प्रीत्यर्थम् । धर्माभिवृद्ध्यर्थमिति यावत् । मम प्रियाया इति शेष: । समनस्कत्वज्ञापनाय त्रिरित्युक्तम् ।। 2.14.9 ।।

समयं ममाद्येमं यदि त्वं न करिष्यसि ।

अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ।। 2.14.10 ।।

समयमिति । समयं रामविवासनं । परित्यक्ता उपेक्षिता ।। 2.14.10 ।।

एवं प्रोदितो राजा कैकेय्या निर्विशङ्कया ।

नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ।। 2.14.11 ।।

एवमिति । एवं त्रिर्ब्रवीमीत्येवम् । पाशं सत्यपाशम् । अन्मोक्तुं मोयितुम् । बलि: महाबलि: । इन्द्रकृतम् इन्द्रद्वारोपेन्द्रकृतं पाशं पदत्रयदानप्रतिज्ञारूपं पदत्रयादानान्निगलं वा ।। 2.14.11 ।।

उद्भ्रान्तहृदयश्ापि विवर्णवदनो ऽभवत् ।

स धुर्यो वै परिस्पन्दन् युगक्रान्तरं यथा ।। 2.14.12 ।।

उद्भ्रान्तहृदय इति । स राजा युगक्रयोरन्तरं परिस्पन्दन् ग्छन् । धुर्यो यथा अनङ्वानिव । उद्भ्रान्तहृदयो विवर्णवदनश्ाभवत् ।। 2.14.12 ।।

विह्वलाभ्यां नेत्राभ्यामपश्यन्निव भूमिप: ।

कृ्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ।। 2.14.13 ।।

विह्वलाभ्यामिति । विह्वलाभ्यां क्षुब्धाभ्याम् । अपश्यन्निव अन्ध इव स्थित: भूमिप: कृ्छ्रात् लब्धेन धैर्येण संस्तभ्य, दु:खातिशयजनितक्षोभं निरुद्ध्येत्यर्थ: ।। 2.14.13 ।।

यस्ते मन्त्रकृत: पाणिरग्नौ पापे मया धृत: ।

तं त्यजामि स्वजं ैव तव पुत्रं सह त्वया ।। 2.14.14 ।।

य इति । हे पापे अग्नौ अग्निसमीपे सामीप्ये सप्तमी । मन्त्रकृत: मन्त्रसंस्कृत: । य: पाणिर्मया धृत: तं त्यजामि, तत्प्रयुक्तव्यवहारं त्यजामीत्यर्थ: । अत एव स्वजं स्वस्मात् जातमपि तव पुत्रं त्वया सह त्यजामि ।। 2.14.14 ।।

प्रयाता रजनीदेवि सूर्यस्योदयनं प्रति ।

अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ।। 2.14.15 ।।

प्रयातेति । उदयनं प्रति उदयं प्रतिलभ्य त्वरयिष्यतीति सम्बन्ध: ।। 2.14.15 ।।

रामाभिषेकसम्भारैस्तदर्थमुपकल्पितै: ।

राम: कारयितव्यो मे मृतस्य सलिलक्रियाम् ।। 2.14.16 ।।

रामेति । तदर्थं रामाभिषेकार्थम् उपकल्पितै: रामाभिषेकसम्भारै: रामाभिषेकसामग्रीभि:सह गुरुजनस्त्वरयिष्यतीति पूर्वेण सम्बन्ध: । यद्वा अभिषेकसामग्र्येव सलिलक्रियासामग्रीभवत्वित्यर्थ: ।। 2.14.16 ।।

त्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया ।

व्याहन्तास्यशुभाारे यदि रामाभिषेनम् ।। 2.14.17 ।।

त्वयेति । व्याहन्तासीति लुण्मध्यमपुरषैकवनम् ।। 2.14.17 ।।

शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम् ।

हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ।। 2.14.18 ।।

ेति । तथासुखं तादृशसुखयुक्तम् । जनं दृष्ट्वा पुन: हतहर्षं हतहर्षविकारम् । निरानन्दं अतएवावाङ्मुखं जनं द्रष्टुं न शक्नोमि ।। 2.14.18 ।।

तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मन: ।

प्रभाता शर्वरी पुण्या न्द्रनक्षत्रशालिनी ।। 2.14.19 ।।

तामिति । तस्य ब्रुवत: तस्मिन् ब्रुवतीत्यर्थ: । पुण्येत्युक्ति: अनन्तरं रामदर्शनसम्भवात् ।। 2.14.19 ।।

तत: पापसमाारा कैकेयी पार्थिवं पुन: ।

उवा परुषं वाक्यं वाक्यज्ञा रोषमूर््छिता ।। 2.14.20 ।।

तत इति । रोषमूर््छिता क्रोधेन व्याप्ता ।। 2.14.20 ।।

किमिदं भाषसे राजन् वाक्यं गररुजोपमम् ।

आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ।। 2.14.21 ।।

स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेरम् ।

निस्सपत्नां मां कृत्वा कृतकृत्यो भविष्यसि ।। 2.14.22 ।।

किमिदमिति । गररुजोपमं विषजनितव्याधिसदृशम् । अङ्गरुजोपममितिपाठे सर्वाङ्गव्याप्तमहाव्याधिसदृशमित्यर्थ: । अङ्गेति सम्बोधनं वा । अक्लिष्टम् अक्लेशं यथा भवति तथा आनाययितुमिति सम्बन्ध: ।। 2.14.2122 ।।

स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तम: ।

राजा प्रयोदितो ऽभीक्ष्णं कैकेयीमिदमब्रवीत् ।। 2.14.23 ।।

स इति । नुन्न: व्यथित: । प्रतोदेन तोत्रेण । अभीक्ष्णं पुन: पुन: । “पुन: पुन: शश्वदभीक्ष्णमसकृत्समा:” इत्यमर: ।। 2.14.23 ।।

धर्मबन्धेन बद्धो ऽस्मि नष्टा मम ेतना ।

ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमि्छामि धार्मिकम् ।। 2.14.24 ।।

धर्मबन्धेनेति । धर्मबन्धेन धर्मपाशेन । बद्धोस्मीत्यनेन रामविवासनं मनागनुज्ञातम् । द्रष्टुमि्छामि गमनात्पूर्वमिति शेष: ।। 2.14.24 ।।

तत: प्रभातां रजनीमुदिते दिवाकरे ।

पुण्ये नक्षत्रयोगे मुहूर्त्ते समाहिते ।। 2.14.25 ।।

तत इत्यादि परमद्विजैरित्यन्तमेकं वाक्यम् । प्रभातां रजनीं प्रभातायां रजन्यां समाहिते सन्निहिते सति ।। 2.14.25 ।।

वसिष्ठो गुणसम्पन्न: शिष्यै: परिवृतस्तदा ।

उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ।। 2.14.26 ।।

सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम् ।

विित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ।। 2.14.27 ।।

प्रविवेश पुरोत्तमम् इत्यनेन वसिष्ठो नगरबाह्यसरय्वां स्नानाद्यनुष्ठानं कृत्वा पुरीं प्रविष्टवानित्यवगम्यते ।। 2.14.2627 ।।

संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।

महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ।। 2.14.28 ।।

न्दनागरुधूपैश् सर्वत: परिधूपिताम् ।

तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ।। 2.14.29 ।।

ददर्शान्त:पुरं श्रेष्ठं नानाद्विजगणायुतम् ।

पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ।

यज्ञविद्भि: सुसम्पूर्णं सदस्यै: परमद्विजै: ।। 2.14.30 ।।

समृद्धविपणापणां समृद्धा: विपणा: विक्रय्या: येषां ते समृद्धविपणा: आपणा: निषद्या: यस्यां ताम् । समुत्सुकां समुत्सुकजनाम् ।। 2.14.2830 ।।

तदन्त:पुरमासाद्य व्यतिक्राम तु जनम् ।

वसिष्ठ: परमप्रीत: परमर्षिर्विवेश ।। 2.14.31 ।।

तदिति । तं जनं पौरादिजनम् । व्यतिक्रामेत्यनेनान्त:पुरद्वारवेदिकां प्राप्त इति गम्यते । विवेश वेदिकायामिति शेष: ।। 2.14.31 ।।

स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।

द्वारे तु राजसिंहस्य सिवं प्रियदर्शनम् ।। 2.14.32 ।।

स इति । विनिष्क्रान्तम् स्वगृहादिति शेष: । द्वारे अन्त:पुरद्वारे । प्रियदर्शनमित्यनेनाभिषेकार्थमात्मानमलंकृत्यागत इत्युक्तम् ।। 2.14.32 ।।

तमुवा महातेजा: सूतपुत्रं विशारदम् ।

वसिष्ठ: क्षिप्रमाक्ष्व नृपतेर्मामिहागतम् ।। 2.14.33 ।।

तमिति । क्षिप्रमाक्ष्वेति वसिष्ठ: प्रोवाेतिसम्बन्ध: ।। 2.14.33 ।।

इमे गङ्गोदकघटा: सागरेभ्यश् काञ्ना: ।

औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् ।। 2.14.34 ।।

इम इत्यादि । काञ्ना: काञ्नमया: । गङ्गोदकघटा: गङ्गोदकपूर्णघटा: । अत्र आहृतमित्येतद्वनव्यत्ययेन सम्बध्यते । इमे इति छेदमपि । सागरेभ्य आहृता इमे उदकघटा इत्यध्याहारेण योज्यम् ।। 2.14.34 ।।

सर्वबीजानि गन्धाश् रत्नानि विविधानि

क्षौद्रं दधि धृतं लाजा दर्भा: सुमनस: पय: ।। 2.14.35 ।।

क्षौद्रं मधु ।। 2.14.35 ।।

अष्टौ कन्यारुिरा मत्तश् वरवारण: ।

तुरश्वो रथ: श्रीमान् निस्त्रिंशो धनुरुत्तमम् ।। 2.14.36 ।।

तुरश्वो रथ: श्रीमान् निस्त्रिंशो धनुरुत्तमम्’ इत्यत्रतु इति गायत्र्याश्तुर्थाक्षरम् । निस्त्रिंश: खङ्ग: ।। 2.14.36 ।।

वाहनं नरसंयुक्तं छत्रं शशिसन्निभम् ।

श्वेते वालव्यजने भृङ्गारश् हिरण्मय: ।। 2.14.37 ।।

भृङ्गार: कनकालुका ।। 2.14.37 ।।

हेमदामपिनद्धश् ककुद्मान् पाण्डरो वृष: ।

केसरी तुर्दंष्ट्रो हरिश्रेष्ठो महाबल: ।। 2.14.38 ।।

सिंहासनं व्याघ्रतनु: समिद्धश् हुताशन: ।

सर्ववादित्रसङ्घाश् वेश्याश्ालंकृता: स्त्रिय: ।। 2.14.39 ।।

केसरी प्रशस्तकेसर: । हरिश्रेष्ठ: अश्वोत्तम: ।। 2.14.3839 ।।

ार्या ब्राह्मणां गाव: पुण्याश् मृगपक्षिण: ।

पौरजानपदश्रेष्ठा नैगमाश् गणै: सह ।। 2.14.40 ।।

एते ान्ये बहव: प्रीयमाणा: प्रियम्वदा: ।

अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवै: ।। 2.14.41 ।।

व्याघ्रतनु: व्याघ्रर्मेत्यर्थ: । नैगमो वणिज: । “नैगमो वणिजो वणिक्” इत्यमर: ।। 2.14.4041 ।।

त्वरयस्व महाराजं यथा समुदिते ऽहनि ।

पुण्ये नक्षत्रयोगे रामो राज्यमवाप्नुयात् ।। 2.14.42 ।।

इति तस्य व: श्रुत्वा सूतपूत्रो महात्मन: ।

स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ।। 2.14.43 ।।

समुदिते सम्यग्व्यक्ते ।। 2.14.4243 ।।

तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ।

न शेकुरभिसंरोद्धुं राज्ञ: प्रियिकीर्षव: ।। 2.14.44 ।।

पूर्वोदितम् अयं सर्वदा अनिवार्य इति राज्ञा पूर्वमुक्तम् ।। 2.14.44 ।।

स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ।

वाग्भि: परमतुष्टाभिरभिष्टोतुं प्रक्रमे ।। 2.4.45 ।।

स इति । अजज्ञिवान् अज्ञातवान् ।। 2.4.45 ।।

तत: सूतो यथाकालं पार्थिवस्य निवेशने ।

सुमन्त्र: प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।। 2.14.46 ।।

तत इति । यथाकालं प्रात:कालार्हम् ।। 2.14.46 ।।

यथा नन्दति तेजस्वी सागरो भास्करोदये ।

प्रीत: प्रीतेन मनसा तथानन्दघन: स्वत: ।। 2.14.47 ।।

इन्द्रमस्यां तु वेलायामभितुष्टाव मातलि: ।

सो ऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ।। 2.14.48 ।।

यथेति । भास्करोदयेपि समुद्रवृद्धिरस्त्येव । यद्वा भास: करोतीति व्युत्पत्त्या भास्करश्न्द्र: ।। 2.14.4748 ।।

वेदा: सहाङ्गविद्याश् यथा ह्यात्मभुवं विभुम् ।

ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ।। 2.14.49 ।।

वेदा इति । सहाङ्गविद्या: अङ्गभूतशिक्षादिविद्यासहिता: । ब्रह्माणं बोधयन्ति सृष्ट्युपयोगितत्तदर्थबोधं जनयन्ति । तथाह मनु:– “नाम रूपं भूतानां कृत्यानां प्रपञ्नम् । वेदशब्देभ्य एवादौ देवादीनां कार स: ।।” इति ।। 2.14.49 ।।

आदित्य: सह न्द्रेण यथा भूतधरां शुभाम् ।

बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ।। 2.14.50 ।।

आदित्य इति । भूतधरां सर्वप्राणिधरां पृथिवीं बोधयति विशेषणद्वारा पृथ्वीबोधनम्, अद्य बोधयामीत्यन्वय: ।। 2.14.50 ।।

उत्तिष्ठाशु महाराज कृत कौतुकमङ्गल: ।

विराजमानो वपुषा मेरोरिव दिवाकर: ।। 2.14.51 ।।

सोमसूर्यौ काकुत्स्थ शिववैश्रवणावपि ।

वरुणश्ाग्निरिन्द्रश् विजयं प्रदिशन्तु ते ।। 2.14.52 ।।

उत्तिष्ठेति । कृतकौतुकमङ्गल: कृतं कौतुकहेतुभूतं मङ्गलारणं येन स तथोक्त:, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थ: । यद्वा कौतुकम् उत्सव: । कृतोत्सवार्थमङ्गलानुष्ठान इत्यर्थ: । मेरोर्दिवाकर इव दिवाकरस्य प्रधानमेरोरुत्थानं मेरुसम्बद्धरथाक्षद्वारेति ज्ञेयम् ।। 2.14.5152 ।।

गता भगवती रात्रि: कृतं कृत्यमिदं तव ।

बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ।। 2.14.53 ।।

गतेति । सर्वानन्दकररामाभिषेकमहोत्सवोपयुक्तत्वाद्रात्रिर्भगवतीति स्तूयते ।। 2.14.53 ।।

उदतिष्ठत रामस्य समग्रमभिषेनम् ।

पौरजानपदैश्ापि नैगमैश् कृताञ्जलि: ।। 2.14.54 ।।

स्वयं वसिष्ठो भगवान् ब्राह्मणै: सह तिष्ठति ।

क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेनम् ।। 2.14.55 ।।

यथा ह्यपाला: पशवो यथा सेना ह्यनायका ।

यथा न्द्रं विना रात्रिर्यथा गावो विना वृषम् ।। 2.14.56 ।।

एवं हि भवता राष्ट्रं यत्र राजा न दृश्यते ।। 2.14.57 ।।

उदतिष्ठतेति । “उदो ऽनूर्ध्वकर्मणि” इत्यात्मनेपदम् । उपस्थितमित्यर्थ: । अभिषेनं अभिषेकसाधनम् । उपतिष्ठतीतिपाठान्तरम् ।। 2.14.5457 ।।

इति तस्य व: श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।

अभ्यकीर्यत शोकेन भूय एव महीपति: ।। 2.14.58 ।।

इतीति । सान्त्वपूर्वं सामपूर्वं “साम सान्त्वम्” इत्यमर: । अर्थवदितिनिर्देश: । प्रात:कालप्रबोधस्य सर्वविजयहेतुत्वात् ।। 2.14.58 ।।

तत: स राजा तं सूतं सन्नहर्ष: सुतं प्रति ।

शोकरक्तेक्षण: श्रीमान् उद्वीक्ष्योवा धार्मिक: ।

वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।। 2.14.59 ।।

तत: स राजेत्यादि । सुतं प्रति सन्नहर्ष: नष्टहर्ष: । भूयो निकृन्तसि कैकेयीवाक्यकृत्तानि मर्माणि भूयोप्यनुितकालस्तुतिभिर्निकृन्तसीत्यर्थ: । अत्र इतिशब्दो ऽध्याहार्य: ।। 2.14.59 ।।

सुमन्त्र: करुणं श्रुत्वा दृष्ट्वा दीनं पार्थिवम् ।

प्रगृहीताञ्जलि: किञ्ित्तस्माद्देशादपाक्रमत् ।। 2.14.60 ।।

करुणं दीनवाक्यम् ।। 2.14.60 ।।

यदा वक्तुं स्वयं दैन्यान्न शशाक महीपति: ।

तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवा ह ।। 2.14.61 ।।

मन्त्रज्ञा राजनीत्यनुसारेण स्वकार्योितविारज्ञेत्यर्थ: ।। 2.14.61 ।।

सुमन्त्र राजा रजनीं रामहर्षसमुत्सुक: ।

प्रजागरपरिश्रान्तो निद्रावया वशमेयिवान् ।। 2.14.62 ।।

तद्ग्छ त्वरितं सूत राजपुत्रं यशस्विनम् ।

राममानय भद्र ते नात्र कार्या विारणा ।। 2.14.63 ।।

सुमन्त्रेति । रजनीमिति अत्यन्तसंयोगे द्वितीया । प्रजागरो निद्राक्षय: । विारणेत्यनन्तरमितिशब्दोध्याहर्तव्य: । इति प्रत्युवाेत्यन्वय: ।। 2.14.6263 ।।

स मन्यमान: कल्याणं हृदयेन ननन्द

निर्जगाम सम्प्रीत्या त्वरितो राजशासनात् ।। 2.14.64 ।।

सुमन्त्रश्िन्तयामास त्वरितं ोदितस्तया ।

व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ।। 2.14.65 ।।

इति सूतो मतिं कृत्वा हर्षेण महता वृत: ।

निर्जगाम महाबाहू राघवस्य दिदृक्षया ।। 2.14.66 ।।

स इति । राजशासनादित्युक्ति: राजसम्मतमिति बुद्ध्या ।। 2.14.6466 ।।

सागरह्रदसङ्काशात् सुमन्त्रो ऽन्त:पुरा्छुभात् ।

निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रत: ।। 2.14.67 ।।

सागरह्रदयसङ्काशादिति । सागरह्रद: समुद्रान्तर्गतहृद: । पुरान्तर्वत्यन्त:पुरत्वात्समुद्रस्थह्रदौपम्यम् । जनसम्बाधं जनैर्निबिडम् ।। 2.14.67 ।।

तत: पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतो विलोकयन् ।

ददर्श पौरान् विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्ठितान् ।। 2.14.68 ।।

तत इति । पुरस्तादग्रे महीपतीन् विलोकयन् पश्ात् पौरान् ददर्श । महाधनान् उपहारपाणीन् । उपस्थितान् उपस्थानं सद: कुर्वत: ।। 2.14.68 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे तुर्दश: सर्ग: ।। 14 ।।
इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने तुर्दश: सर्ग: ।। 14 ।।

Languages

Related Parts

error: Content is protected !!