श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनसप्ततितम: सर्ग:
यामेव रात्रिं ते दूता: प्रविशन्ति स्म तां पुरीम् ।
भरतेनापि तां रात्रिं स्वप्नो दृष्टो ऽयमप्रिय: ।। 2.69.1 ।।
यामिति । यामेव यस्यामेव । सप्तम्यर्थे द्वितीया छान्दसी । तां तस्याम् । अयं वक्ष्यमाण: ।। 2.69.1 ।।
व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् ।
पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ।। 2.69.2 ।।
व्युष्टामिति । व्युष्टां प्रभातायां सत्यामित्यर्थ: । प्रभातस्वप्न: सद्य:फलद इति द्योतयितुमिदमुक्तम् ।। 2.69.2 ।।
तप्यमानं समाज्ञाय वयस्या: प्रियवादिन: ।
आयासं हि विनेष्यन्त: सभायां चक्रिरे कथा: ।। 2.69.3 ।।
तप्यमानमिति । वयस्या: सुहृद: । आयासं मन:खेदम् ।। 2.69.3 ।।
वादयन्ति तथा शान्तिं लासयन्त्यपि चापरे ।
नाटकान्यपरे प्राहुर्हास्यानि विविधानि च ।। 2.69.4 ।।
वादयन्तीति । शान्तिं भरतस्य दु:खशान्तिमुद्दिश्य वादयन्ति, वीणादिकमिति शेष: । लासयन्ति लास्यं सुकुमारनृत्तम्, नाटकानि संस्कृतप्राकृतपैशाचमागधादिमिश्रगद्यपद्यरूपाणि । हास्यानि हासजनकवाक्यानि ।। 2.69.4 ।।
स तैर्महात्मा भरत: सखिभि: प्रियवादिभि: ।
गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघव: ।। 2.69.5 ।।
स तैरिति । गोष्ठीहास्यानि गोष्ठी सभा, सभ्यहास्यानीत्यर्थ: ।। 2.69.5 ।।
तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् ।
सुहृद्भि: पर्युपासीन: किं सखे नानुमोदसे ।। 2.69.6 ।।
एवं ब्रुवाणं सुहृदं भरत: प्रत्युवाच ह ।
श्रृणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम् ।। 2.69.7 ।।
स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्द्धजम् ।
पतन्तमद्रिशिखरात् कलुषे गोमयह्रदे ।। 2.69.8 ।।
तमिति । प्रियसख: अन्तरङ्गसुहृत् । “राजाहस्सखिभ्यष्टच्” इति टच् ।। 2.69.68 ।।
प्लवमानश्च मे दृष्ट: स तस्मिन् गोमयह्रदे ।
पिबन्नञ्जलिना तैलं हसन्नपि मुहुर्मुहु: ।। 2.69.9 ।।
प्लवमान इति । प्लवमान: मण्डूकवत् ।। 2.69.9 ।।
ततस्तिलौदनं भुक्त्वा पुन:पुनरध:शिरा: ।
तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत ।। 2.69.10 ।।
तत इति । तिलमिश्र ओदन: तिलौदन: ।। 2.69.10 ।।
स्वप्ने ऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि ।
उपरुद्धां च जगतीं तमसेव समावृताम् ।। 2.69.11 ।।
औपवाह्यस्य नागम्य विषाणं शकलीकृतम् ।
सहसा चापि संशान्तं ज्वलितं जातवेदसम् ।। 2.69.12 ।।
अवतीर्णां च पृथिवीं शुष्कांश्च विविधान् द्रुमान् ।
अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान् ।। 2.69.13 ।।
स्वप्ने ऽपीति । तमसा समावृतामिव । उपरुद्धां तिरोहिताम् । औपवाह्यस्य राजवाह्यस्य “औपवाह्यो राजवाह्य:” इति हलायुध: । नागस्य गजस्य । जातवेदसा अग्निना । अवतीर्णामिति । अवतीर्णाम् अध:पतितां पश्यामीति सर्वत्रान्वय: । वर्तमानसामीप्ये वर्तमानवत्प्रयोग: ।। 2.69.1113 ।।
पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् ।
प्रहसन्ति स्म राजानं प्रमदा: कृष्णपिङ्गला: ।। 2.69.14 ।।
त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपन: ।
रथेन खरयुक्तेन प्रयातो दक्षिणामुख: ।। 2.69.15 ।।
प्रहसन्तीव राजानं प्रमदा रक्तवासिनी ।
प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना ।। 2.69.16 ।।
पीठ इति । कृष्णाश्च पिङ्गलाश्च कृष्णपिङ्गला: ।। 2.69.1416 ।।
एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम् ।
अहं रामो ऽथवा राजा लक्ष्मणो वा मरिष्यति ।। 2.69.17 ।।
उक्तस्वप्नदर्शनफलमाह–एवमित्यादिना । इमां रात्रिम् अस्यां रात्रौ । अहं मरिष्यामीति विपरिणाम: कार्य: ।। 2.69.17 ।।
नरो यानेन य: स्वप्ने खरयुक्तेन याति हि ।
अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते ।। 2.69.18 ।।
नर इति । धूमाग्रं धूमशिखा ।। 2.69.18 ।।
एतन्निमित्तं दीनो ऽहं तन्न व: प्रतिपूजये ।
शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मन: ।। 2.69.19 ।।
एतदिति । एतन्निमित्तम् उक्तस्वप्नदर्शनहेतुना ।। 2.69.19 ।।
न पश्यामि भयस्थानं भयं चैवोपधारये ।
भ्रष्टश्च स्वरयोगो मे च्छाया चोपहता मम ।। 2.69.20 ।।
नेति । भयस्थानं भयकारणम् । अथ च भयमुपधारये अवशतो बिभेमि । छाया कान्ति: । “छाया त्वनातपे कान्तौ” इति वैजयन्ती ।। 2.69.20 ।।
जुगुप्सन्निव चात्मानं न च पश्यामि कारणम् ।। 2.69.21 ।।
जुगुप्सन्निति । जुगुप्सन्निव अस्मीति शेष: । कारणं जुगुप्साकारणम् ।। 2.69.21 ।।
इमां हि दु:स्वप्नगतिं निशाम्य तामनेकरूपामवितर्कितां पुरा ।
भयं महत्तद्धृदयान्न याति मे विचिन्त्य राजानमचिन्त्यदर्शनम् ।। 2.69.22 ।।
इमामिति । तामिमां दु:स्वप्रगतिं दु:स्वप्नभेदम् । अवितर्कितां पूर्वमविचारिताम्, अमोघामिति भाव: । पूर्वचिन्ताकृतत्वे हि वैफल्यम् । अचिन्त्यदर्शनम् असम्भाव्यदर्शनम् । अत्र सर्गे “अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति खरैर्वराहै:” इत्यादि श्रुतिरुपबृंहिता । स्वप्नश्च पूर्वचिन्तापुरस्कृतो न फलति । प्रत्यूषे च फलति सद्य: । यामविलम्बात्फलविलम्ब: । फलं च द्रष्टु: दृष्टस्य तत्सम्बन्धिनो वा भविष्यतीत्यादिकमुक्तम् ।। 2.69.22 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनसप्ततितम: सर्ग: ।। 69 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अध्योध्याकाण्डव्याख्याने एकोनसप्ततितम: सर्ग: ।। 69 ।।