श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ततितम: सर्ग:
भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहना: ।
प्रविश्यासह्यपरिघं रम्यं राजगृहं पुरम् ।। 2.70.1 ।।
समागम्य तु राज्ञा च राज पुत्रेण चार्चिता: ।
राज्ञ: पादौ गृहीत्वा तु तमूचुर्भरतं वच: ।। 2.70.2 ।।
भरत इति । असह्यपरिघं परैरप्रधृष्यपरिघम् । राज्ञा केकयराजेन । राजपुत्रेण युधाजिता । अर्चिता: आनीतोपायननिरीक्षणेन संमानिता: । राज्ञ: भरतस्य । भरतस्य परमप्रकृतत्वात् तमिति निर्देश: ।। 2.70.12 ।।
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिण: ।
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ।। 2.70.3 ।।
पुरोहित इति । आत्ययिकं दुष्करम् । अत्यय: कृच्छ्रम् “अत्ययो ऽतिक्रमे कृच्छ्रे मरणे दण्डदोषयो:” इति वैजयन्ती । त्वया कृत्यं कर्तव्यम् अतो निर्याहीत्यन्वय: ।। 2.70.3 ।।
इमानि च महार्हाणि वस्त्राण्याभरणानि च ।
प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ।। 2.70.4 ।।
इमानीति । विशालाक्षेति विभूषणावलोकनजनितविस्मयोत्फुल्लाक्षत्वमाह । मातुलस्य च दापयेति समुच्चयात् प्रथमं मातामहस्य दापय अथ मातुलस्य दापयेत्यर्थ: ।। 2.70.4 ।।
अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते ।
दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज ।। 2.70.5 ।।
अत्रेति । अत्र वस्त्रभरणादिमहार्हवस्तुजाते । नृपते: विंशतिकोट्य: विंशतिकोटिमूल्यानि वस्त्राभरणादीनि । मातुलस्य दशकोट्य: दशकोटिमूल्यानि । संपूर्णा अन्यूना इत्युभयविशेषणम् । तथैव तदर्हमेव । अन्यथा राजतुल्यतया राजपुत्रदाने तस्य बहुमान एव न भवतीति भाव: ।। 2.70.5 ।।
प्रतिगृह्य तु तत्सर्वं स्वनुरक्त: सुहृज्जने ।
दूतानुवाच भरत: कामै: संप्रतिपूज्य तान् ।। 2.70.6 ।।
प्रतिगृह्येति । सुहृज्जने मातुलादौ स्वनुरक्त: प्रदाप्येति शेष: । कामै: अभीष्टान्नपानादिभि: ।। 2.70.6 ।।
कच्चित् सुकुशली राजा पिता दशरथो मम ।
कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ।। 2.70.7 ।।
कच्चिदिति । अरोगता आरोग्यम् । आरोग्यतेति पाठे–स्वार्थे ष्यञ् ।। 2.70.7 ।।
आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी ।
अरोगा चापि कौसल्या माता रामस्य धीमत: ।। 2.70.8 ।।
आर्येति । आर्या ज्येष्ठमातृत्वेन पूज्या । धर्मनिरता धर्मानुष्ठानपरा । धर्मज्ञा ज्ञात्वानुष्ठानमितिन्यायेन अनुष्ठानमूलज्ञानयुक्ता । धर्ममेव जनेषु पश्यतीति धर्मदर्शिनी, गुणग्राहिणी न दोषदर्शिनीत्यर्थ: । अप्यरोगेत्वन्वय: । अपि: प्रश्ने । धीमत इत्यनेन पुत्रकृतातिशय उच्यते ।। 2.70.8 ।।
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।
शत्रुघ्नस्य च वीरस्य सा ऽरोगा चापि मध्यमा ।। 2.70.9 ।।
कच्चिदिति । सेति धर्मज्ञत्वस्मरणाभिनय: । मध्यमेत्यनेन “न ते ऽम्बा मध्यमा तात” इत्यत्र कैकेय्या मध्यमात्वमितरस्त्र्यपेक्षया ।। 2.70.9 ।।
आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी ।
अरोगा चापि मे माता कैकेयी किमुवाच ह ।। 2.70.10 ।।
आत्मकामेति । आत्मानं कामयत इति आत्मकामा, स्वप्रयोजनपरेत्यर्थ: । प्रज्ञैव प्राज्ञा प्राज्ञामात्मानं मन्यत इति प्राज्ञमानिनी । “मन:” इति णिनि: । “क्यङ्मानिनोश्च” इति पुंवद्भाव: । चण्डी उग्रा । क्रोधना क्रोधवती । मे माता अप्यरोगा कैकेयी किमुवाच स्वबन्धुविषये किमुवाचेत्यर्थ: । दु:स्वप्नदर्शनदूतागमनाभ्यां कैकेय्या किञ्चित्कृतं भवेदित्यूहितवान् भरत इति सूचयत्यात्मकामेत्यादिभि: ।। 2.70.10 ।।
एवमुक्तास्तु ते दूता भरतेन महात्मना ।
ऊचु: सप्रश्रयं वाक्यमिदं तं भरतं तदा ।। 2.70.11 ।।
एवमिति । महात्मना महाबुद्धिना । एतेनायोध्यावृत्तान्तो ऽनेन ज्ञात इति सूचितम् । सप्रश्रयं सविनयम् । अनेन सर्वात्मना अयोध्यावृत्तान्तगोपनं सूच्यते । तदेत्यनेन किञ्चित् विलम्बोक्तौ भरतो ऽन्यथा मन्येतेति झटित्युत्तरमुक्तमित्युच्यते ।। 2.70.11 ।।
कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि ।
श्रीश्च त्वां वृणुते पद्मा युज्यतां चापिते रथ: ।। 2.70.12 ।।
कुशला इति । कुशला इति सामान्योक्ति: प्रत्येकोक्त्या सन्देहानुत्पादाय । श्री: लक्ष्मी: । पद्मा पद्महस्ता । अर्श आद्यच् । राज्यश्रीरिति हार्दो भाव: । अमङ्गल्यव्यावृत्तिर्भरतप्रत्याय्या ।। 2.70.12 ।।
भरतश्चापि तान् दूतानेवमुक्तो ऽभ्यभाषत ।
आपृच्छे ऽहं महाराजं दूता: सन्त्वरयन्ति माम् ।। 2.70.13 ।।
भरत इति । एवमुक्तो भरत: दूता: मां संत्वरयन्तीति महाराजमापृच्छ इति तान् दूतानभ्यभाषतेति योजना ।। 2.70.13 ।।
एवमुक्त्वा तु तान् दूतान् भरत: पार्थिवात्मज: ।
दूतै: सञ्चोदितो वाक्यं मातामहमुवाच ह ।। 2.70.14 ।।
एवमिति । दूतै: सञ्चोदितो भरत: तान् दूतानेवमुक्त्वा मातामहं वाक्यमुवाच ।। 2.70.14 ।।
राजन् पितुर्गमिष्यामि सकाशं दूतचोदित: ।
पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ।। 2.70.15 ।।
राजन्निति । मे मां । यदा स्मरिष्यसि यदा आगन्तव्यमिति स्मरिष्यसि तदैष्यामि, आगन्तव्यमिति भवत्स्मरणं यदा जानामि तदा आगमिष्यामीत्यर्थ: । मे इत्यत्र “अधीगथर्दयेशाम्–” इति षष्ठी ।। 2.70.15 ।।
भरतेनैवमुक्तस्तु नृपो मातामहस्तदा ।
तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ।। 2.70.16 ।।
गच्छतातानुजाने त्वां कैकेयी सुप्रजास्त्वया ।
मातरं कुशलं ब्रूया: पितरं च परंतप ।। 2.70.17 ।।
पुरोहितं च कुशलं ये चान्ये द्विजसत्तमा: ।
तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ।। 2.70.18 ।।
भरतेनेत्यादि रामलक्ष्मणावित्यन्तं स्पष्टम् ।। 2.70.1618 ।।
तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि च ।
अभिसत्कृत्य कैकेयो भरताय धनं ददौ ।। 2.70.19 ।।
तस्मा इति । अस्यादावित्युक्त्वेत्युपस्कार्यम् । तस्मै भरताय अभिसत्कृत्य ददौ श्लाघापूर्वं ददावित्यर्थ: ।। 2.70.19 ।।
रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च ।
सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत् ।। 2.70.20 ।।
रुक्मनिष्कसहस्र इति । निष्का: वक्षोभूषणानि । “निष्को ऽस्त्री हेम्नि दीनारे साष्टे कर्षशते पले । वक्षोविभूषणे कर्षे” इति वैजयन्ती । धनम् उक्तरूपम् । आदिशत् आदाय गच्छतेति भृत्यानाज्ञापयामास ।। 2.70.20 ।।
तथामात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान् ।
ददावश्वपति: क्षिप्रं भरतायानुयायिन: ।। 2.70.21 ।।
तथेति । अमा सह प्राणांस्त्यजन्तीत्यमात्यास्तान् । अभिप्रेतान् सहायभूतानित्यर्थ: । निश्वास्यान् विश्वसनीयान् । अश्वपति: केकय: ।। 2.70.21 ।।
ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान् ।
खरान् शीघ्रान् सुसंयुक्तान् मातुलो ऽस्मै धनं ददौ ।। 2.70.22 ।।
मातामहकृतसत्कारप्रकारमुक्त्वा मातुलकृतसत्कारप्रकारमाह–ऐरावतानित्यादिना । ऐरावतान् इरावतपर्वतभवान् । ऐन्द्रशिरान् इन्द्रशिराख्यपर्वतभवान् । शीघ्रान् वेगवत: । सुसंयुक्तान् परिचितान् ।। 2.70.22 ।।
अन्त:पुरे ऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान् ।
दंष्ट्रायुधान् महाकायान् शुनश्चीपायनं ददौ ।। 2.70.23 ।।
स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत ।
भरत: केकयीपुत्रो गमनत्वरया तदा ।। 2.70.24 ।।
बभूव ह्यस्य हृदये चिन्ता सुमहती तदा ।
त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ।। 2.70.25 ।।
अन्त:पुर इति । मातुल इत्यनुषज्यते ।। 2.70.2325 ।।
स स्ववेश्म व्यतिक्रम्य नरनागाश्वसंवृतम् ।
प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ।। 2.70.26 ।।
स इति । स्ववेश्म व्यतिक्रम्येत्यनेन स्ववेश्मप्रवेशो ऽर्थसिद्ध: । तथा च राज्ञा मातुलेन च स्वगृह एव कृत सत्कारो मातामह्यादिदर्शनार्थमन्त:पुरं गतवानिति बोध्यम् । अथवा भरतस्य दु:स्वप्नदर्शनदु:खदूतागमनवृत्तान्तश्रवणेन केकयमातुलौ स्वगृहमेवागताविति द्रष्टव्यम् । सुमहच्छ्रीमान् सुमहाश्रीमान् ।। 2.70.26 ।।
अभ्यतीत्य ततो ऽपश्यदन्त:पुरमुदारधी: ।
ततस्तद्भरत: श्रीमानाविवेशानिवारित: ।। 2.70.27 ।।
अभ्यतीत्येति । राजमार्गमिति शेष: ।। 2.70.27 ।।
स मातामहमापृच्छ्य मातुलं च युधाजितम् ।
रथमारुह्य भरत: शत्रुघ्नसहितो ययौ ।। 2.70.28 ।।
स इति । मातामहं स्वेनैव सहान्त:पुरमागतं मातुलं च तथाभूतम् ।। 2.70.28 ।।
रथान् मण्डलचक्रांश्च योजयित्वा पर:शतम् ।
उष्ट्रगोश्वखरैर्भृत्या भरतं यान्तमन्वयु: ।। 2.70.29 ।।
रथानिति । मण्डलचक्रान् वर्तुलचक्रयुक्तान् । पर:शतं शतात्परान् “पङ्क्तिविंशति” इत्यादिसूत्रे निपातनादेक वचनम् । रथानुष्ट्रादिभि: संयोज्य भृत्या: यान्तं भरतमन्वयु: ।। 2.70.29 ।।
बलेन गुप्तो भरतो महात्मा सहार्यकस्यात्मसमैरमात्यै: ।
आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात् ।। 2.70.30 ।।
बलेनेति । महात्मा महाधैर्यो भरत: । आर्यकस्य मातामहस्य । बलेन गुप्त: आत्मसमै: स्वप्रभावसदृशै: । अमात्यै: सह शत्रुघ्नमादाय अपेतशत्रु: निष्कण्टक: सन् इन्द्रलोकात् सिद्धो देवजातिरिव गृहाद्ययौ ।। 2.70.30 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ततितम: सर्ग: ।। 70 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्ततितम: सर्ग: ।। 70 ।।