[highlight_content]

78 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टसप्ततितम: सर्ग:

अथ यात्रां समीहन्तं शत्रुध्नो लक्ष्मणानुज: ।

भरतं शोकसन्तप्तमिदं वनमब्रवीत् ।। 2.78.1 ।।

अथेत्यादि । अथ अपरक्रियां निर्वर्त्य गृहं प्रति गमनानन्तरं यात्रां रामसमीपगमनं समीहन्तं समीहमानम्, यात्रोद्युक्तमित्यर्थ: ।। 2.78.1 ।।

गतिर्य: सर्वभूतानां दु:खे किं पुनरात्मन: ।

स राम: सत्त्वसम्पन्न: स्त्रिया प्रव्राजितो वनम् ।। 2.78.2 ।।

गतिरिति । सर्वभूतानां प्राणिमात्रस्य दु:खे सति यो गति: स आत्मनो दु:खे सति गतिरिति किं पुन: किं वक्तव्यम् । एवं दु:खनिस्तारक्षमो राम: सत्त्वसम्पन्नोपि बलसम्पन्नोपि स्त्रिया अत्यन्ताबलया वनं प्रव्राजित: इदमत्यन्तित्रमिति भाव: ।। 2.78.2 ।।

बलवान् वीर्यसम्पन्नो लक्ष्मणो नाम यो ऽप्यसौ ।

किं न मोयते रामं कृत्वा स्म पितृनिग्रहम् ।। 2.78.3 ।।

पितृपरतन्त्रो राम: किङ्करोत्वित्यत्राह–बलवानित्यादिना । नामेति कुत्सने । “नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने” इति वैजयन्ती । लक्ष्मणो नाम यो ऽपीत्यनादरोक्ति: । असौ पितृनिग्रहं कृत्वापि रामं वनवासात् किं न मोयते किं न मोितवान् इदमप्यपरमाश्र्यमिति भाव: ।। 2.78.3 ।।

पूर्वमेव तु निग्राह्य: समवेक्ष्य नयानयौ ।

उत्पथं य: समारूढो नार्या राजा वशं गत: ।। 2.78.4 ।।

पितृनिग्रहे दोषो नास्तीत्याशङ्कां परिहरति–पूर्वमित्यादिना । यो राजा नार्या वशं गत: उत्पथं समारूढ: अपथं प्राप्त: स: नयानयौ नीत्यनीती समवेक्ष्य सम्यक्विार्य पूर्वमेव अन्यायप्रवृत्तिसमापनात् पूर्वमेव निग्राह्य इति योजना ।। 2.78.4 ।।

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे ।

प्राग्द्वारे ऽभूत्तदा कुब्जा सर्वाभरणभूषिता ।। 2.78.5 ।।

इतीति । कुब्जा प्राग्द्वारे ऽभूत् स्वाभिलषितो भरताभिषेक: कदा भविष्यतीति अवसरं प्रतीक्षमाणा भरतशत्रुघ्नाधिष्ठितराजगृहस्य प्राग्द्वारे दैवादागता ऽभूत् ।। 2.78.5 ।।

लिप्ता न्दनसारेण राजवस्त्राणि बिभ्रती ।

विविधं विविधैस्तैस्तैर्भूषणैश् विभूषिता ।। 2.78.6 ।।

लिप्तेति । न्दनसारेण न्दनपङ्केन । राजवस्त्राणि राजार्हवस्त्राणि कैकेयीदत्तानि । कञ्ुकान्तरीयोत्तरीयादिभेदाद्बहुवनम् । तैस्तैरिति तत्तदवयवोितत्वमु्यते । एकैकाभरणे रत्नखितत्वादिवैविध्यमाह विविधैरिति । विविधमिति क्रियाविशेषणम् । तेन भूषणसंस्थानविशेष उ्यते ।। 2.78.6 ।।

मेखलादामभिश्ित्रैरन्यैश् शुभभूषणै: ।

बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी ।। 2.78.7 ।।

मेखलादामभिरिति । भूषणशब्दोपि मेखलादामभिन्नपर: गोबलीवर्दन्यायात् । अन्यै: मेखलाप्रदेशधारणीयै: । बद्धेति विशेषणात् भूषणानि बन्धनस्थानीयानि नतु शोभाकराणीत्युक्तम् ।। 2.78.7 ।।

तां समीक्ष्य तदा द्वास्स्था: सुभृशं पापकारिणीम् ।

गृहीत्वा ऽकरुणां कुब्जां शत्रुघ्नाय न्यवेदयन् ।। 2.78.8 ।।

तामिति । अकरुणां निर्दयाम् ।। 2.78.8 ।।

यस्या: कृते वने रामो न्यस्तदेहश् व: पिता ।

सेयं पापा नृशंसा तस्या: कुरु यथामति ।। 2.78.9 ।।

शत्रुघ्नश् तदाज्ञाय वनं भृशदु:खित: ।

अन्त:पुररान् सर्वानित्युवा धृतव्रत: ।। 2.78.10 ।।

तीव्रमुत्पादितं दु:खं भ्रातृ़णां मे तथा पितु: ।

यया सेयं नृशंसस्य कर्मण: फलमश्नुताम् ।। 2.78.11 ।।

एवमुक्ता तु तेनाशु सखीजनसमावृता ।

गृहीता बलवत् कुब्जा सा तद्गृहमनादयत् ।। 2.78.12 ।।

यस्या इति । वने अभूदिति शेष: । कुरु शिक्षणमिति शेष: ।। 2.78.912 ।।

तत: सुभृशसन्तप्तस्तस्या: सर्व: सखीजन: ।

क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वश: ।। 2.78.13 ।।

तत इति । विपलायतेति “उपसर्गस्यायतौ” इति रेफस्य लत्वम् ।। 2.78.13 ।।

आमन्त्रयत कृत्स्नश् तस्या: सर्व: सखीजन: ।

यथायं समुपक्रान्तो निश्शेषान्न: करिष्यति ।। 2.78.14 ।।

आमन्त्रयतेति । आमन्त्रयत अन्योन्यमाह्वयत् । तस्या: सर्व: सखीजन: कृत्स्न: तदितर: सर्वोपि जन: यथा येन प्रकारेणायं शत्रुघ्न: उपक्रान्त: यथा न: निश्शेषान्करिष्यति । जनापेक्षया पुंस्त्वम् ।। 2.78.14 ।।

सानुक्रोशां वदान्यां धर्मज्ञां यशस्विनीम् ।

कौसल्यां शरणं याम सा हि नो ऽस्तु ध्रुवा गति: ।। 2.78.15 ।।

रोषेण ताम्राक्ष: क्षत्रुघ्न: शत्रुतापन: ।

विकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले ।। 2.78.16 ।।

वदान्यां वल्गुवाम् । “वदान्यो वल्गुवागपि” इति वैजयन्ती । कौसल्यां शरणं याम सा नो ध्रुवा गतिरस्त्वित्यन्योन्यमाह्वयदित्यन्वय: ।। 2.78.1516 ।।

तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्तत: ।

ित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ।। 2.78.17 ।।

तस्या इति । भाण्डं भूषणं “वणिङ्मूलधने पात्रे भाण्डं भूषाश्वभूषयो:” इति वैजयन्ती । पृथिव्यां तद्व्यशीर्यत विशीर्णमासीत् (पाठभेद: । पृथिव्यां तद्विशीर्यते विशीर्णमासीत्) ।। 2.78.17 ।।

तेन भाण्डेन संस्तीर्णं श्रीमद्राजनिवेशनम् ।

अशोभत तदा भूय: शारदं गगनं यथा ।। 2.78.18 ।।

तेनेति । शारदं प्रसन्ननक्षत्रमित्यर्थ: ।। 2.78.18 ।।

स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभ: ।

कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं व: ।। 2.78.19 ।।

स इति । बलवत्क्रोधात् अतीव क्रोधात् । कैकेयीमभिनिर्भर्त्स्येत्यनेन मन्थरामोनार्थं तदा कैकेयी समागतेत्यवगम्यते ।। 2.78.19 ।।

तैर्वाक्यै: परुषैर्दु:खै: कैकेयी भृशदु:खिता ।

शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागता ।। 2.78.20 ।।

तैरिति । शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागतेत्यनेन भर्त्सनानन्तरं तां प्रहर्तुमप्युद्युक्तवानिति सू्यते ।। 2.78.20 ।।

तां प्रेक्ष्य भरत: क्रुद्धं शत्रुघ्नमिदमब्रवीत् ।

अवध्या: सर्वभूतानां प्रमदा: क्षम्यतामिति ।। 2.78.21 ।।

तामिति । क्षम्यतामित्यब्रवीदित्यन्वय: ।। 2.78.21 ।।

हन्यामहमिमां पापां कैकेयीं दुष्टारिणीम् ।

यदि मां धार्मिको रामो नासूयेन्मातृघातकम् ।। 2.78.22 ।।

हन्यामिति । नासूयेन्न गर्हेत ।। 2.78.22 ।।

इमामपि हतां कुब्जां यदि जानाति राघव: ।

त्वां मां हि धर्मात्मा नाभिभाषिष्यते ध्रुवम् ।। 2.78.23 ।।

भरतस्य व: श्रुत्वा शत्रुघ्नो लक्ष्मणानुज: ।

न्यवर्त्तत ततो रोषात्तां मुमो मन्थराम् ।। 2.78.24 ।।

सा पादमूले कैकेय्या मन्थरा निपपात ह ।

निश्वसन्ती सुदु:खार्त्ता कृपणं विललाप ।। 2.78.25 ।।

माभून्मातृहत्या, सर्वकुहनामूलभूतेयमेव कुब्जा हन्यतामित्यत्राह–इमामित्यादिना । नाभिभाषिष्यते इत्यब्रवीदिति अनुकृष्टेन पूर्वेण सम्बन्ध: ।। 2.78.2325 ।।

शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता ।

शनै: समाश्वासयदार्त्तरूपां क्रौञ्ीं विलग्नामिव वीक्षमाणाम् ।। 2.78.26 ।।

शत्रुघ्नेति । विक्षेपो भ्रामणं तेन विमूढसंज्ञाम् अन्यथाभूतमतिम् । विलग्नां वागुरालग्नामिति भाव: । विविग्नामिति पाठे–कम्पवतीमित्यर्थ: ।। 2.78.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टसप्ततितम: सर्ग: ।। 78 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टसप्ततितम: सर्ग: ।। 78 ।।

Languages

Related Parts

error: Content is protected !!