श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अशीतितम: सर्ग:
अथ भूमिप्रदेशज्ञा: सूत्रकर्मविशारदा: ।
स्वकर्माभिरता: शूरा: खनका यन्त्रकास्तथा ।। 2.80.1 ।।
कर्मान्तिका: स्थपतय: पुरुषा यन्त्रकोविदा: ।
तथा वर्द्धकयश्चैव मार्गिणो वृक्षतक्षका: ।। 2.80.2 ।।
कूपकारा: सुधाकारा वंशकर्मकृतस्तथा ।
समर्था ये च द्रष्टार: पुरतस्ते प्रतस्थिरे ।। 2.80.3 ।।
अथेत्यादि । भूमिप्रदेशज्ञा: । निम्नोन्नतादिप्रदेशज्ञा: । यद्वा नानादेशविद: । सूत्रकर्मविशारदा: सूत्रकर्मणि निर्जलप्रदेशेष्वगाधवापीकूपादिजलोद्धारसूत्रकर्मणि विशारदा: समर्था: । यद्वा सूत्रै: कर्म सूत्रकर्म तत्र विशारदा: समर्था:, तन्तुवाया इत्यर्थ: । स्वकर्माभिरता: मार्गरक्षणादिस्वकर्मसावधाना: । खनका: खननोपजीविन:, सुरङ्गादिकृत इत्यर्थ: । यन्त्रका: महाकुल्यादितरणाय काष्ठादिना उपयन्त्रप्रवर्तका: वागुरिका वा । कर्मान्तिका: कर्मणि अन्तो ऽवसानमेषामस्तीति कर्मान्तिका: परिकल्पितकर्मकारिण:, भृतिजीविन इति यावत् । स्थपतय: कारव: “स्थपति: कारुभेदेपि” इत्यमर: । पुरुषा: अध्यक्षराजपुरुषा: । यन्त्रकोविदा: क्षेपणीयादियन्त्रकरणसमर्था: । वर्द्धकयस्तक्षाण: । “तक्षा तु वर्द्धकि:” इत्यमर: । मार्गिण: मार्गसमीकरणसमर्था: । वृक्षतक्षका: मार्गनिरोधकवृक्षच्छेदका: । कूपकारा: कूपनिर्माणसमर्था: । सुधाकारा: प्रासादस्थलक्षित्यादिलेपनकरा: । वंशकर्मकृत: वंशै: कटपिटकशूर्पादिकर्मकरा: । समर्था: कार्यान्तरेषु समर्था: । द्रष्टार: पूर्वानुभूतमार्गा:, मार्गप्रदर्शका इति यावत् ।। 2.80.13 ।।
स तु हर्षात्तमुद्देशं जनौघो विपुल: प्रयान् ।
अशोभत महावेग: समुद्र इव पर्वणि ।। 2.80.4 ।।
हर्षात् कर्मकरणस्य दु:खात्मकत्वेपि जनौघस्य हृष्टत्वं रामदर्शनकुतूहलात् । तमुद्देशं प्रयान् रामाधिष्ठितप्रदेशमुद्दिश्य गच्छन् ।। 2.80.4 ।।
ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदा: ।
करणैर्विविधोपेतै: पुरस्तात् सम्प्रतस्थिरे ।। 2.80.5 ।।
ते मार्गशोधका: । स्ववारं समास्थाय स्वस्वशोध्यमार्गशोधने अन्योन्यपर्यायकरणं प्राप्य “निवहावसरौ वारौ” इत्यमर: । विविधोपेतै: विविधा: नानाप्रकारा: तानुपेतै:, नानाविधैरित्यर्थ: । करणै: खनित्रपिटककुठारादिभि: सह पुरस्तात् संप्रतस्थिरे ।। 2.80.5 ।।
लता वल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च ।
जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् ।। 2.80.6 ।।
लता: मार्गावरणीभूता: शाखा: “समे शाखालते” इत्यमर: । वल्ली: वीरुध: । गुल्मान् कक्षान् । स्थाणून् शंकून् । “स्थाणुरस्त्री ध्रुव: शङ्कु:” इत्यमर: ।। 2.80.6 ।।
अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् ।
केचित् कुठारैष्टङ्कैश्च दात्रैश्छिन्दन् क्वचित् क्वचित् ।। 2.80.7 ।।
टङ्कैः पाषाणभेदनादिसाधनै: । “टङ्क: पाषाणदारण:” इत्यमर: । दात्रैर्लवित्रै: “दात्रं लवित्रम्” इत्यमर: । छिन्दन् अच्छिन्दन् ।। 2.80.7 ।।
अपरे वीरणस्तम्बान् बलिनो बलवत्तरा: ।
विधमन्ति स्म दुर्गाणि स्थलानि च ततस्तत: ।। 2.80.8 ।।
वीरणस्तम्बान् वीरणतृणकाण्डान् । विधमन्ति स्म अदहन् । “ध्मा शब्दाग्निवक्रसंयोगयो:” इत्यस्मात् धातोर्धमादेश: । बलिन: रूढमूलान्, छेत्तुमशक्यानित्यर्थ: । दुर्गाणि गन्तुमशक्यानिनिम्नोन्नतस्थलानीत्यर्थ: । स्थलानि समानि चक्रुरिति शेष: ।। 2.80.8 ।।
अपरे ऽपूरयन् कूपान् पांसुभि: श्वभ्रमायतम् ।
निम्नभागांस्तत: केचित्समांश्चक्रु: समन्तत: ।। 2.80.9 ।।
कूपान् मार्गस्थान् । आयतं श्वभ्रमवटं च पांसुभिरपूरयन् । निम्नभागांश्च पांसुभि: समांश्चक्रु:, प्रपूर्य्येति शेष: । यद्वा पूर्वश्लोके दुर्गाणि तृणलतादिच्छन्नानि स्थलानि च विधमन्ति स्मेति योजना । अतो न पुनरुक्ति: ।। 2.80.9 ।।
बबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तदा ।
बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा ।। 2.80.10 ।।
बन्धनीयान् जलप्रदेशान् । बबन्धु: सेनासन्तरणार्थं सेतुभिर्बबन्धु: । क्षोद्यान् क्षोदार्हान् शर्कराभूयिष्ठप्रदेशान् संचुक्षुदु: चूर्णयामासु: । भेदनीयान् कच्छादिबहुजलप्रदेशान् जलनिर्गमनार्थं बिभिदु: ।। 2.80.10 ।।
अचिरेणैव कालेन परिवाहान् बहूदकान् ।
चक्रुर्बहुविधाकारान् सागरप्रतिमान् बहून् ।। 2.80.11 ।।
परिवाहान् अल्पप्रवाहान् जलोच्छ्वासान् । बन्धनेन बहूदकान् चक्रु: । यद्वा परिवाहान्
दूरस्थतटाकप्रवर्त्तितान् बहुविधाकारान् सोपानावताराद्यनेकप्रकारानित्यर्थ: ।। 2.80.11 ।।
निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।
उदपानान् बहुविधान् वेदिकापरिमण्डितान् ।। 2.80.12 ।।
उदपानान् कूपान् । “पुंस्येवान्धु: प्रहि: कूप उदपानं तु पुंसिवा” इत्यमर: । बहुविधान् नरगजतुरगादिपानयोग्यसरोवाप्यादिभेदेन बहुविधान् । वेदिकापरिमण्डितान् जलपानकाले विश्रान्त्यर्थं तीरे वेदिकालङ्कृतान् ।। 2.80.12 ।।
ससुधाकुट्टिमतल: प्रपुष्पितमहीरुह: ।
मत्तोद्घुष्टद्विजगण: पताकाभिरलङ्कृत: ।। 2.80.13 ।।
चन्दनोदकसंसिक्तो नानाकुसुमभूषित: ।
बह्वशोभत सेनाया: पन्था: सुरपथोपम: ।। 2.80.14 ।।
ससुधेत्यादिश्लोकद्वयमेकान्वयम् । सुधालिप्तकुट्टिमतलोपेत: “कुट्टिमो ऽस्त्री निबद्धा भू:” इत्यमर: । प्रपुष्पितमहीरुह: जलसेचने नेति शेष: । चन्दनोदकसंसिक्त: विश्रान्तिप्रदेशेषु चन्दनयुक्तवारिसिक्त: । नानाकुसुमभूषित: प्रकीर्णनानापुष्पशोभित: ।। 2.80.1314 ।।
आज्ञाप्याथ यथाज्ञप्ति युक्तास्ते ऽधिकृता नरा: ।
रमणीयेषु देशेषु बहुस्वादुफलेषु च ।। 2.80.15 ।।
यो निवेशस्त्वभिप्रेतो भरतस्य महात्मन: ।
भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम् ।। 2.80.16 ।।
अथ मार्गकरणानन्तरम् । अधिकृता: मार्गशिबिरादिकरणे नियुक्ता: । युक्ता: परस्परं युक्ता: । बहुस्वादुफलेषु रमणीयेषु देशेषु भरतस्य यो निवेश: यादृशाकारविशिष्टो निवेशो ऽभिप्रेत: अभिमतस्तं तादृशसंनिवेशम्, यथाज्ञप्ति यथामति आज्ञाप्य कर्त्तुं नियम्य भूषणोपमं भूषणभूतम्, स्वतोलङ्कृतमिति यावत् । निवेशं भूषाभि: वितानकनककलशध्वजादिभि: भूयोपि शोभयामासु: भूषयामासु: ।। 2.80.1516 ।।
नक्षत्रेषु प्रशस्तेषु मुहूर्त्तेषु च तद्विद: ।
निवेशान् स्थापयामासुर्भरतस्य महात्मन: ।। 2.80.17 ।।
तद्विद: वास्तुशास्त्रज्ञा: । निवेशान् शिबिराणि ।। 2.80.17 ।।
बहुपांसुचयाश्चापि परिखा परिवारिता: ।
तत्रेन्द्रकीलप्रतिमा: प्रतोलीवरशोभिता: ।। 2.80.18 ।।
प्रासादमालावितता: सौधप्राकारसंवृता: ।
पताका शोभिता: सर्वे सुनिर्मितमहापथा: ।। 2.80.19 ।।
विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकै: ।
समुच्छ्रितैर्निवेशास्ते बभु: शक्रपुरोपमा: ।। 2.80.20 ।।
बह्वित्यादिश्लोकत्रयमेकं वाक्यम् । तत्र मार्गे । बहुपांसुचया: पांसुशब्देनात्र सूक्ष्मसिकता उच्यन्ते । बहव: पांसुचया येषु ते तथोक्ता: । परिखापरिवारिता: खेयैर्वृता: इन्द्रकीलप्रतिमा: इन्द्रकीलपर्वतसदृशा: । प्रतोलीवरशोभिता: । प्रतोली वीथि: । “रथ्या प्रतोली विशिखा” इत्यमर: । प्रासादमालावितता: प्रासादा देवगृहाणि “प्रासादो देवभूभुजाम्” इत्यमर: । सौधप्राकारसंवृता: सौधा: राजगृहाणि । यद्वा सौधा: सुधाधवलिता: “तेन रक्तं रागात्” इत्यण् । समुच्छ्रितै: उन्नतै: अत एव आकाशे विसर्पद्भिरिव स्थितै: । विटङ्काग्रविमानकै: विटङ्कयुक्ताग्रविमानै: । “कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्” इत्यमर: । विमानानि सप्तभूमिका: प्रासादास्तैर्बभु: । शक्रपुरोपमा: अमरावतीसदृशा: ।। 2.80.1820 ।।
जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् ।
शीतलामलपानीयां महामीनसमाकुलाम् ।। 2.80.21 ।।
समामाद्य अवधीकृत्य, तत्पर्यन्तमित्यर्थ: । निवेशा बभुरिति पूर्वेणान्वय: । उत्तरेण वा गङ्गाविशेषणैस्तत:परं निवेशकरणाशक्यत्वं द्योत्यते ।। 2.80.21 ।।
सचन्द्रतारागणमण्डितं यथा नभ: क्षपायाममलं विराजते ।
नरेन्द्रमार्ग: स तथा व्यराजत क्रमेण रम्य: शुभशिल्पिनिर्मित: ।। 2.80.22 ।।
सचन्द्रेति । सचन्द्रो यस्तारागण: तेन मण्डितम् ।। 2.80.22 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अशीतितम: सर्ग: ।। 80 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अशीतितम: सर्ग: ।। 80 ।।