श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्यशीतितम: सर्ग:
तामार्यगणसम्पूर्णां भरत: प्रग्रहां सभाम् ।
ददर्श बुद्धिसम्पन्न: पूर्णचन्द्रो निशामिव ।। 2.82.1 ।।
तामिति । प्रग्रहां नियमवतीम् । यद्वा शुक्रबृहस्पत्यादिप्रकृष्टग्रहयुक्ताम्, तदा निशाविशेषणमिदम् ।। 2.82.1 ।।
आसनानि यथान्यायमार्याणां विशतां तदा ।
वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा ।। 2.82.2 ।।
आसनानि विशताम् आसनेषूपविशतामित्यर्थ: ।। 2.82.2 ।।
सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।
अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ।। 2.82.3 ।।
सेति । घनापाये वर्षापगमे, शरदीते यावत् । भरताभिषेकाय सर्वे अलङ्कृता: समागता इति भाव: ।। 2.82.3 ।।
राज्ञस्तु प्रकृती: सर्वा: समग्रा: प्रेक्ष्य धर्मवित् ।
इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ।। 2.82.4 ।।
प्रेक्ष्य संवादार्थमवलोक्य ।। 2.82.4 ।।
तात राजा दशरथ: स्वर्गतो धर्ममाचरन् ।
धनधान्यवतीं स्फीतां प्रदापय पृथिवीं तव ।। 2.82.5 ।।
तात वत्स धर्मं सत्यपरिपालनरूपम् । तव तुभ्यम् ।। 2.82.5 ।।
रामस्तथा सत्यधृति: सतां धर्ममनुस्मरन् ।
नाजहात् पितुरादेशं शशी ज्योत्स्नामिवोदित: ।। 2.82.6 ।।
तथा पितृवत् सत्ये धृति: प्रीतिर्यस्य स सत्यधृति: । “धृङ् प्रीतौ” इति धातो: स्त्रियां क्तिन् प्रत्यय: । सतां पितृनिर्देशवर्त्तिनाम् । धर्मं पितृवचनपरिपालनरूपम् । “जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभि: पुत्रस्य पुत्रता ।।” इति वचनात् ।। 2.82.6 ।।
पित्राभ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् ।
तद्भुङ्क्ष्व मुदितामात्य: क्षिप्रमेवाभिषेचय ।। 2.82.7 ।।
पित्रेति । अभिषेचय आत्मानमिति शेष: ।। 2.82.7 ।।
उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवला: ।
कोट्यापरान्ता: सामुद्रा रत्नान्यभिहरन्तु ते ।। 2.82.8 ।।
उदीच्या इति प्राच्या इत्यपि सिद्धम् । केवला: सिंहासनादिरहिता इत्यपरान्तादिविशेषणम् । अपरान्ता: अपरान्तदेशवासिनो यवना: । कोट्या कोटिसङ्ख्यया उपलक्षितानि रत्नानि । सामुद्रा: समुद्रद्वीपवासिन: ।। 2.82.8 ।।
तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुत: ।
जगाम मनसा रामं धर्मज्ञो धर्मकांक्षया ।। 2.82.9 ।।
धर्मज्ञ: कुलक्रमागतज्येष्ठाभिषेचनरूपधर्मज्ञ: । धर्मकाङ्क्षया ज्येष्ठानुवर्त्तनरूपधर्मलिप्सया । रामं मनसा जगाम, सस्मारेत्यर्थ: ।। 2.82.9 ।।
स बाष्पकलया वाचा कलहंसस्वरो युवा ।
विललाप सभामध्ये जगर्हे च पुरोहितम् ।। 2.82.10 ।।
स इति । बाष्पकलया अधर्मस्मरणात् रामस्मरणाद्वा । बाष्पेणाव्यक्तया कलहंसस्वर इत्यनेन अभिनिवेशविशेषो द्योत्यते । युवेत्यनेन भोगकालेपि भोगोपकरणजिहासा चित्रमिति ऋषि: स्तौति । सभामध्ये जगर्हे “नियमातिक्रमं रहसि बोधयेत्” इति नियमोपि भग्न: । अतिक्रूरमधर्मं नियुक्तवानिति दु:खपारवश्यात् रह: सदोविभागविस्मरणेन गर्हितवान् । पुरोहितं जगर्हे सम्यक् त्वयास्य कुलस्य भाविहितमवेक्षितमिति निनिन्द । सभामध्ये बहव: समेत्य ममैकस्य पारतन्त्र्यं किमपजिहीर्षन्ति सभामध्ये किमवनेपि मद्धनं मुष्णन्ति ।। 2.82.10 ।।
चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमत: ।
धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ।। 2.82.11 ।।
चरितेति । चरितब्रह्मचर्यस्य अनुष्ठितगुरुकुलवासस्य । विद्यास्नातस्य “वेदमधीत्य स्नायात्” इति स्मृतिप्रक्रियया निखिलवेदाध्ययनानन्तरभाविस्नानकर्मयुक्तस्य । धीमत: तदर्थज्ञस्य । धर्मे प्रयतमानस्य तदर्थानुष्ठानवत: । मद्विध: शास्त्रवश्यो मादृश: ।। 2.82.11 ।।
कथं दशरथाज्जातो भवेद्राज्यापहारक: ।
राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि ।। 2.82.12 ।।
मद्विध इत्येतद्विवृणोति–कथमित्यादिना । रामविरहोत्तरक्षणे मृतस्य कुक्षौ जातो ऽहं कथं तत्त्यक्तं राज्यं परिगृह्णीयाम् ? मत्स्वरूपपर्यालोचनयापि नाहं राज्यार्ह इत्याह राज्यं चेति । शेषवस्तुष्वेकमेकस्य किमीष्टे प्रत्युत राज्यं वा किमिति मां नेष्टे राज्यं चाहं च रामस्य राज्यमपि रामसम्बन्धि अहमपि च रामसम्बन्धी, उभयमपि रामशेषमित्यर्थ: । धर्मं वक्तुमिहार्हसि लोके स्वपित्रादिकं निगृह्य स्वयं राज्यस्य कर्त्तार: सन्ति तदेतद्व्यक्तावपि भवतीति मा मंस्था: । इह मद्विषये । मत्प्रकृतिं ज्ञात्वा धर्मं वक्तुमर्हसि । धर्मं पाल्यत्वपालकत्वरूपं वक्तुमर्हसि, रामशेषत्वाविशेषे एकं शेषं कथमपरं रक्षेत् । तथासति राज्यमेव मां किमिति न रक्षेदिति भाव: । ननु रत्नपेटिकयोर्द्वयो: शेषत्वाविशेषेपि एकं रक्ष्यमपरं रक्षकं च दृष्टम् तद्वदस्त्विति चेन्न, तत्र हि पेटिका कुञ्चिकादिव्यापारेण स्वामिना रक्षकत्वेन विनियुक्ता, नाहमेवं रामेण विनियुक्त: । यथा स्वैकधार्यमपि रत्नमवसरे पेटिकास्थं करोति तद्वत्स्वेनैव पाल्यमपि राज्यमस्माभिर्यावच्छक्ति प्रसादितोपि अनवसरतया रामो यदा मदधीनं कुर्यात्तदा तदाहितशक्तिकस्तत्परतन्त्र: पेटिकावत् यावत्तदागमनं रक्षेयम् । अतस्तन्निवर्तनप्रयत्न एव सर्वथा कार्य: । प्रथमतो वरनिर्बन्धादिकृता राज्यस्यास्मदीयत्वबुद्धि: रामसमक्षं गत्वा परिहरणीयेति भाव: ।। 2.82.12 ।।
ज्येष्ठ: श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपम: ।
लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा ।। 2.82.13 ।।
वक्तव्यं धर्ममाह–ज्येष्ठ इत्यादिना । दिलीपनहुषशब्दौ चन्द्रसूर्यवंशश्रेष्ठराजोपलक्षणार्थौ ।। 2.82.13 ।।
अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि ।
इक्ष्वाकूणामहं लोके भवेयं कुलपांसन: ।। 2.82.14 ।।
अनार्येति । इक्ष्वाकूणां लोके तत्सम्बधिनि जने ।। 2.82.14 ।।
यद्धि मात्रा कृतं पापं नाहं तदपि रोचये ।
इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलि: ।। 2.82.15 ।।
यद्धीत्यनेनाप्राप्तभाषणश्रवणपापस्य प्रायश्चित्तमनुष्ठितम् ।। 2.82.15 ।।
राममेवानुगच्छामि राजा स द्विपदां वर: ।
त्रयाणामपि लोकानां राज्यमर्हति राघव: ।। 2.82.16 ।।
द्वौ पादौ येषां ते द्विपाद: । “सङ्ख्यासुपूर्वंस्य” इति लोप: समासान्त: । अत: “पाद:पत्” इति भस्थले पदादेश: । तेषां पुरुषाणामित्यर्थ: ।। 2.82.16 ।।
तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासद: ।
हर्षान्मुमुचुरश्रूणि रामे निहितचेतस: ।। 2.82.17 ।।
मध्ये कविवाक्यम्–तद्वाक्यमिति । सभासु सीदन्तीति सभासद: सभ्या: ।। 2.82.17 ।।
यदि त्वार्यं न शक्ष्यामि विनिवर्त्तयितुं वनात् ।
वने तत्रैव वत्स्यामि यथार्थो लक्ष्मणस्तथा ।। 2.82.18 ।।
यदीति । कनिष्ठे लक्ष्मणे आर्यशब्दप्रयोगो ज्येष्ठानुवर्त्तनरूपधर्मनिरतत्वात् । यथार्यो लक्ष्मणस्तथाहं लक्ष्मणश्चेत्यर्थ: ।। 2.82.18 ।।
सर्वोपायं तु वर्त्तिष्ये विनिवर्त्तयितुं बलात् ।
समक्षमार्यमिश्राणां साधूनां गुणवर्त्तिनाम् ।। 2.82.19 ।।
सर्वोपायं वर्तिष्ये । सर्वोपायमिति क्रियाविशेषणम्, सर्वोपायैर्यत्नं करिष्य इत्यर्थ: । आर्यमिश्राणां सदस्यानाम् । “आर्य्यमिश्रा: पारिषदा: सदस्या: सामवायिका:” इति सज्जन: । भवद्भिरागन्तव्यमित्यर्थादुक्तं भवति ।। 2.82.19 ।।
विष्टिकर्मान्तिका: सर्वे मार्गशोधकरक्षका: ।
प्रस्थापिता मया पूर्वं यात्रापि मम रोचते ।। 2.82.20 ।।
एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सल: ।
समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् ।। 2.82.21 ।।
तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् ।
यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ।। 2.82.22 ।।
विष्टयो भृतिमन्तरेण जनपदेभ्य: समानीता: कर्मकरा: । कर्मान्तिका: कर्मान्ते भृतिग्रहीतार: । मार्गशोधकरक्षका इति विष्ट्यादिविशेषणम् । प्रस्थापिता मया पूर्वमित्यभिधानात् । वसिष्ठ: शिबिरकरणनियोगमजानन्नभिषेकप्रस्तावं कृतवानित्यवगम्यते ।। 2.82.2022 ।।
एवमुक्त: सुमन्त्रस्तु भरतेन महात्मना ।
हृष्टस्तदादिशत् सर्वं यथासन्दिष्टमिष्टवत् ।। 2.82.23 ।।
इष्टवत् इष्टार्हम्, इष्टानुरूपमिति यावत् ।। 2.82.23 ।।
ता: प्रहृष्टा: प्रकृतयो बलाध्यक्षा बलस्य च ।
श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्त्तने ।। 2.82.24 ।।
ता: प्रकृतय: । पौरश्रेणय: “राज्याङ्गानि प्रकृतय: पौराणां श्रेणयो ऽपि च” इत्यमर: । बलाध्यक्षा: सेनापतयश्च राघवस्य निवर्त्तने निवर्त्तननिमित्तं समाज्ञप्तां बलस्य सैन्यस्य यात्रां श्रुत्वा प्रहृष्टा: आसन्निति शेष: ।। 2.82.24 ।।
ततो योधाङ्गना: सर्वा भर्तृ़न् सर्वान् गृहेगृहे ।
यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिता: ।। 2.82.25 ।।
तत इति । यात्रागमनं यात्राया आगमनं सिद्धिं यात्रारूपगमनमिति वा ।। 2.82.25 ।।
ते हयैर्गोरथै: शीघ्रै: स्यन्दनैश्च महाजवै: ।
सहयोधैर्बलाध्यक्षा बलं सर्वमचोदयन् ।। 2.82.26 ।।
गोरथै: वृषभयुक्तरथै: शकटैरित्यर्थ: । बलं सर्वमित्यवयवावयविनोर्भेदनिर्देश: ।। 2.82.26 ।।
सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसन्निधौ ।
रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतो ऽब्रवीत् ।। 2.82.27 ।।
भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षित: ।
रथं गृहीत्वा प्रययौ युक्तं परमवाजिभि: ।। 2.82.28 ।।
सज्जं सन्नद्धम् । गुरुसन्निधावित्यनुज्ञाकरणार्थमुक्तम् ।। 2.82.2728 ।।
स राघव: सत्यधृति: प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रम: ।
गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन् भरतो ऽब्रवीत्तदा ।। 2.82.29 ।।
उक्तमर्थं पुन: सङ्ग्रहेण दर्शयति–स इत्यादिना । सत्यधृति: । अप्रच्युतधैर्य: । सुयुक्तं ब्रुवन् गुरुं प्रसादयिष्यन् उचितवचनेन रामं प्रीणयिष्यन्नित्यर्थ: ।। 2.82.29 ।।
तूर्णं समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान् ।
आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय ।। 2.82.30 ।।
स सूतपुत्रो भरतेन सम्यगाज्ञापित: संपरिपूर्णकाम: ।
शशास सर्वान् प्रकृतिप्रधानान् बलस्य मुख्यांश्च सुहृज्जनं च ।। 2.82.31 ।।
बलस्य योगाय बलस्य सन्नहनाय बलस्य सङ्गतये वा । “योग: सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमर: । बलप्रधानान् गच्छ, प्रधानशब्द: पुँल्लिङ्गो ऽप्यस्ति ।। 2.82.3031 ।।
तत: समुत्थाय कुलेकुले ते राजन्यवैश्या वृषलाश्च विप्रा: ।
अयूयुजन्नुष्ट्ररथान् खरांश्च नागान् हयांश्चैव कुलप्रसूतान् ।। 2.82.32 ।।
वृषला: शूद्रा: । कुलेकुले गृहेगृहे । “कुलं जनपदे गृहे” इत्यमर: । अयूयुजन् सज्जानकुर्वन् । कुलप्रसूतान् उत्तमानित्यर्थ: ।। 2.82.32 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्यशीतितम: सर्ग: ।। 82 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्व्यशीतितम: सर्ग: ।। 82 ।।