श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग:
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: ।
वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ।। 2.94.1 ।।
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।
भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ।। 2.94.2 ।।
एवमेतावत्पर्य्यन्तं भरतकथां प्रस्तुत्य रामस्य चित्रकूटप्रवेशानन्तरदिनेषु विहारतारतम्याभावात् भरतप्राप्तिदिनसम्भूतविहारविशेषान् वर्णयति–दीर्घकालेत्यादिना सर्गद्वयेन । आदौ श्लोकद्वयमेकान्वयम् । अथ प्रात:कर्त्तव्यकर्मानुष्ठानानन्तरम् । तस्मिन् गिरौ चिरपरिचयेपि वैलक्षण्यातिशयादपूर्ववद्भासमाने । दीर्घकालोषित: मासमात्रमुषितोपि गिरिवनप्रिय: “नवंनवं प्रीतिरहो करोति” इत्युक्तरीत्या गिरिवनयो: नवनवत्वापादकप्रीतिक: । वैदेह्या: प्रियेण सहैव वनदर्शनकुतूहलाया: । प्रियं प्रीतिमाकाङ्क्षन् तद्द्वारा स्वचित्तं च विलोभयन् प्रीणयन् । अमरसङ्काश: कुत्रापि निर्भय इत्यर्थ: । दाशरथि: राम: । चित्रमन्वर्थं चित्रकूटम् । भार्यां सर्वात्मना भरणीयां सीतां शचीं पुरन्दर इव अदर्शयत् । “गतिबुद्धि–” इत्यादिना द्विकर्मकत्वम् ।। 2.94.12 ।।
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: ।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ।। 2.94.3 ।।
नेति । राज्यात् भक्तजनपूर्णात् । विनाभवो विनावस्थानम् । अप्छान्दस: । दृष्ट्वा स्थितस्येति शेष: । मनो न बाधते न दु:खाकरोतीत्यर्थ: । अयोध्यावासिजनविरहज: खेद: सर्वो निवृत्त इति भाव: ।। 2.94.3 ।।
पश्येममचलं भद्रे नानाद्विजगणायुतम् ।
शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ।। 2.94.4 ।।
स्वचित्तविलोवभनमुक्त्वा मैथिलीप्रियकरणं दर्शयति–पश्येति । खमाकाशम् । उद्विद्धैरिव स्थितै: विद्ध्वोत्थितैरिव स्थितै: । अभ्रंलिहैरिति यावत् । कर्तरि निष्ठा ।। 2.94.4 ।।
केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: ।
पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ।। 2.94.5 ।।
केचिदिति । धातुविभूषिता: नानाधात्वलङ्कृता: । अत एवाचलेन्द्रस्य चित्रकूटस्य केचिद्देशा: रजतसङ्काशा: अत्यन्तशुभ्रा: । केचित् क्षतजसङ्काशा: रुधिरसदृशवर्णा: । मणिवरप्रभा: इन्द्रनीलप्रभा: ।। 2.94.5 ।।
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: ।
विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ।। 2.94.6 ।।
पुष्पार्ककेतकाभा: पुष्प: पुष्पराग: अर्क: स्फटिक: । “अर्क: स्फटिकसूर्ययो:” इत्यमर: । केतकाभा: ईषत्पाण्डुरा: । ज्योतीरसप्रभा: ज्योतीषि तारा ज्वाला वा । “ज्योतिस्ताराग्निभाज्वालदृक्पुत्रार्थाध्वराग्निषु” इति वैजयन्ती । रस: पारद: । श्वेतवर्णा वान्तरभेदा उच्यन्ते ।। 2.94.6 ।।
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: ।
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ।। 2.94.7 ।।
नानेति । द्वीपी महाव्याघ्र: । तरक्षु: क्षुद्रव्याघ्र: । अदुष्टै: मुनिजनसन्निधानेन शान्ततया हिंसादिदोषरहितै: ।। 2.94.7 ।।
आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: ।
अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ।। 2.94.8 ।।
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।
बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ।। 2.94.9 ।।
पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: ।
एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ।। 2.94.10 ।।
आम्रेत्यादि । असनै: पीतसालै: । लोघ्रै: तिरीटै: । प्रियालै: राजादनै: । अङ्कोलै: भव्यै: । न्युब्जै: तिनिशै: । स्यन्दनै: बिल्वै: । तिन्दुकै: कालस्कन्धै: । वेणुभि: वंशै: । काश्मरीभि: मधुपर्णिकाख्यैर्वृक्षै: । अरिष्टै: निम्बै: । वरुणै: तिक्तशाकै: । मधूकै: गुडपुष्पै: । तिलकै: क्षुरकै: । बदरीभि: आमलकै: । नीपै: कदम्बै: । वेत्रै: । धन्वनै: इन्द्रवृक्षै: । बीजकै: बीजप्रचुरफलै: दाडिमै: । पुष्पवद्भिरित्यादि सर्ववृक्षविशेषणम् । पुष्यति वर्द्धयति ।। 2.94.810 ।।
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।
किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ।। 2.94.11 ।।
शैलप्रस्थेष्विति । रोमहर्षणान् दर्शनमात्रत: पुलककरान् । द्वन्द्वश: स्त्रीपुरुषौ द्वौद्वावित्यर्थ: । मनस्विन: अन्योन्यबद्धमनस्कान् ।। 2.94.11 ।।
शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।
पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ।। 2.94.12 ।।
शाखेति । खड्गादीनि विद्याधराणामेव । विद्याधरा: देवयोनिविशेषा: ।। 2.94.12 ।।
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।
स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ।। 2.94.13 ।।
जलप्रपातै: निर्झरै: । उद्भेदैर्भुवमुद्भिद्य निर्गतै: । स्रवद्भिरिति सर्वविशेषणम् ।। 2.94.13 ।।
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।
घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ।। 2.94.14 ।।
गुहेति । घ्राणतर्प्पणमिति क्रियाविशेषणम् ।। 2.94.14 ।।
यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।
लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ।। 2.94.15 ।।
यदीति । हे अनिन्दिते सर्वाङ्गसुन्दरि इह वने अनेका: शरद: संवत्सरान् त्वया लक्ष्मणेन कैङ्कर्य्यलक्ष्मीवता च सार्द्धं यदि वत्स्यामि तदा मां शोक: नगरत्यागजं दु:खं न प्रधक्ष्यति न पीडयिष्यतीत्यर्थ: । अत्र यदीत्युक्त्या भाविविवासस्सूच्यते ।। 2.94.15 ।।
बहुपुष्पफले रम्ये नानाद्विजगणायुते ।
विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ।। 2.94.16 ।।
बहुपुष्पेति । घ्राणरसनचक्षुस्त्वक्श्रोत्रप्रीतिकरे ऽस्मिन्वने रतवानस्मि प्रीतियुक्तो ऽस्मि । भामिनि विशेषतस्त्वत्सन्निधानादिति भाव: ।। 2.94.16 ।।
अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ।। 2.94.17 ।।
न केवलं सुखस्य लाभ: किन्तु पित्रानृण्यबन्धुहर्षावपीत्याह–अनेनेति । फलद्वयमेवाह पितुरिति । धर्मेविषये पितु: अनृणता आनृण्यम्, तद्वाक्यकरणमित्यर्थ: । भरतस्य प्रियं च भरतस्य भाविस्वकैङ्कर्य्यमिति भाव: ।। 2.94.17 ।।
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ।। 2.94.18 ।।
एवं स्वप्रीतिमुक्त्वा सीताप्रीतिं पृच्छति–वैदेहीत्यादिना । वैदेहि ‘भोगोपोद्धातकेलीचुलकितभगद्वैश्वरूप्यानुभावां’ त्वां जानासि किं मया भोगस्रोतसि त्वां प्रधानीकुर्वन्तं मां जानासि । (पाठभेद: । मया भोगस्रोतसि त्वामप्रधानीकुर्वन्तं मां जानासि किं चित्रकूटे भोगस्थानसौभाग्यमपि वाङ्मनसाविषयं जानासि ।) तटस्थोद्दीपनविभावानप्याह पश्यन्तीति । मनोवाक्काया: संयता: यैस्तान् स्ववशीकृतजनमनोवाक्कायानित्यर्थ: । मनोवाक्कायसंयतेति पाठे सन्नियमितकरणत्रयेत्यर्थ: । विविधान् मलयानिलकोकिलालापभ्रमरझङ्कारपुष्पहासप्रभृतिभेदान् । भावान् विभावान् पश्यन्ती रमसे कच्चित् । यद्वा भावान् किन्नरमृगादीनां चेष्टा । “भावो लीला क्रिया चेष्टा भूत्यभिप्रायजन्तुषु ।” इति वैजयन्ती ।। 2.94.18 ।।
इदमेवामृतं प्राहू राज्ञि राजर्षय: परे ।
वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ।। 2.94.19 ।।
न केवलमयं वनवासो भोगाय आमुष्मिकसाधकश्चेत्याह–इदमिति । वनवासं वनवासरूपम् । इदम् अमृतम् अमृतवद्भोग्यं वस्तु । मे प्रपितामहा: मत्पितृवंश्या: । परे पूर्वे राजर्षय: । प्रेत्य प्रारब्धशरीरवियोगं प्राप्य । भवार्थाय संसारविनाशायेत्यर्थ: । ‘तमसे दीपो मशकार्थो धूम:’ इत्यादिवन्निर्देश: । प्राहु: प्रोचु: । यद्वा इदमिति लिङ्गव्यत्यय आर्ष: । इदम् इमम् । वनवासं वानप्रस्थोचितनियमसहितं वनवासम् । अमृतं प्राहु: मोक्षसाधनं प्राहु: । “अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे च धन्वन्तरिसुवर्णयो: ।।” इति वैजयन्ती। प्रेत्यभावार्थाय देवादिदेहान्तरपरिग्रहरूपप्रयोजनाय च प्राहु:। रघुवंश्या राजर्षय: वानप्रस्थोचितं वनवासं स्वर्गसाधनम् अपवर्गसाधनं च प्राहुरित्युक्तं भवति ।। 2.94.19 ।।
शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: ।
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ।। 2.94.20 ।।
शिला इति । विशाला: विपुला: । बहुलै: उल्बणै: नीलादिभिर्वर्णैरुपलक्षिता: । बहुला: बहुविधा: । शैलस्य चित्रकूटस्य । शिला: शतश: अभित: शोभन्ते ।। 2.94.20 ।।
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।
ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ।। 2.94.21 ।।
निशीति । अचलेन्द्रस्य ओषध्य: महौषधय: । स्वप्रभालक्ष्या: प्रभालक्ष्यस्वस्वरूपा: अत एव भ्राजमाना: भासमाना: । निशि सहस्रशो भान्ति ।। 2.94.21 ।।
केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: ।
केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ।। 2.94.22 ।।
भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: ।
चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ।। 2.94.23 ।।
केचिदिति । अस्य पर्वतस्य देशा: केचित् क्षयनिभा: गृहसदृशा: । “धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं च वास्तु क्षय:” इति हलायुध: । बहुगुहावत्त्वादिति भाव: । उद्यानसन्निभा: बहुलतावृक्षवत्त्वात् । एकशिला: शिलाभेदरहिता: ।। 2.94.2223 ।।
कुष्ठपुन्नागस्थगरभूर्जपत्रोत्तरच्छदान् ।
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ।। 2.94.24 ।।
कुष्ठेति । कुष्ठं पारिभाव्यम् । “व्याधि: कुष्ठं पारिभाव्यं वाप्यं पाकलमुत्पलम्” इत्यमर: । पुन्नागपुष्पाणि स्थगराणि पुत्रकसंज्ञिकवृक्षविशेषपुष्पणि । भूर्जपत्राणि भूर्जवृक्षत्वच: । एतानि उत्तरच्छदा: उपर्यास्तरणानि येषां तान् । कुशेशयदलायुतान् पद्मदलव्याप्तान् स्वास्तरान्, शयनानीत्यर्थ: ।। 2.94.24 ।।
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: ।
कामिभिर्वनिते पश्य फलानि विविधानि च ।। 2.94.25 ।।
मृदिता इति । मृदिता: कृतमर्दना:, घ्राणादिभोगेन म्लाना इत्यर्थ: । अपविद्धा: त्यक्ता: । फलानीत्यत्रापि मृदितान्यपविद्धानीति योज्यम् ।। 2.94.25 ।।
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।
पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ।। 2.94.26 ।।
वस्वौकसारामिति । वस्वौकसारा पूर्वदिगवस्थिता शक्रपुरी । “वस्वौकसारा शक्रस्य पूर्वस्यां दिशि संस्थिता” इति श्रीविष्णुपुराणवचनात् । यद्वा वस्वौकसारा कुबेरपुरी । “पुरी वस्वौकसारा स्याद्विमानं पुष्पको ऽस्त्रियाम्” इति
यादव: । नलिनीं मानससरसीम्, सौगन्धिकाख्यसरसीं वा । अत्येतीव रमणीयतया अतिक्रामतीव ।। 2.94.26 ।।
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।
रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ।। 2.94.27 ।।
इमतिति । हे वनिते सीते परै: श्रेष्ठै: नियमै: सतां राजर्षीणां पथि स्थित: सन् इमं कालं चतुर्दशसमासम्मितं कालं त्वया लक्ष्मणेन च सह इह चित्रकूटे विजह्रिवान् विहृतवान् । विपूर्वाद्धरतेर्लिट: क्वसुरादेश: । पश्चात्कुलधर्मवर्द्धनीं कुलधर्म: प्रजापालनं तद्वर्द्धनीम् । रतिं राज्यसुखं प्रपत्स्ये ।। 2.94.27 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग: ।। 94 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्नवतितम: सग: ।। 94 ।।