श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षण्णवतितम: सर्ग:
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।
निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ।। 2.96.1 ।।
एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरति–तामित्यादिना । गिरिनिम्नगां गिरिनदीम् । मांसेन छन्दयन् वशीकुर्वन् । “वशाभिप्राययोश्छन्द:” इति वैजयन्ती ।। 2.96.1 ।।
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।
एवमास्ते स धर्मात्मा सीतया सह राघव: ।। 2.96.2 ।।
वशीकरणप्रकारमाह–इदमित्यादिना । इदं मांसं मेध्यं शुद्धम्, निर्मलमिति यावत् । स्वादु रसवत् । निष्टप्तं प्रतप्तम् । इदंशब्देन स्वभुक्तशेषमिति गम्यते । एवमास्ते एवं ब्रुवन्नास्य इत्यर्थ: ।। 2.96.2 ।।
तथा तत्रासतस्तस्य भरतस्योपयायिन: ।
सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ।। 2.96.3 ।।
तथेति । तथा उक्तरीत्या । तत्र गिरिप्रस्थे । तस्य आसत: तस्मिन्नासीने सति । सैन्यरेणु: शब्द: सैन्यशब्दश्चोभौ नभस्स्पृशौ सन्तौ प्रादुरास्ताम् ।। 2.96.3 ।।
एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: ।
अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ।। 2.96.4 ।।
एतस्मिन्निति । एतस्मिन्नन्तरे अस्मिन् शब्दश्रवणसमये । तत: तेन ।। 2.96.4 ।।
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: ।
तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ।। 2.96.5 ।।
स इति । सैन्यसमुद्धूतं सैन्योत्पादितम् ।। 2.96.5 ।।
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।
उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ।। 2.96.6 ।।
तानिति । दीप्ततेजसमित्यनेन वक्ष्यमाणावेक्षणक्षमत्वमुच्यते ।। 2.96.6 ।।
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।
भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ।। 2.96.7 ।।
हन्तेति । व्यप्रतायामव्ययं वाक्यारम्भे वा । “वाक्यारम्भे ऽनुकम्पायां हन्त हर्षविषादयो: ।” इति वैजयन्ती । पश्य वृक्षमारुह्य प्रेक्षस्व । सुमित्रा सुप्रजास्त्वया त्वया सुमित्रा सत्पुत्रेति सान्त्वोक्ति: । भीमस्तनितगम्भीर: भयङ्करमेघनिर्घोषवद्गम्भीर: । महीस्तनितगम्भीर इति पाठे–भूकम्पजनितशब्दवत् गम्भीर इत्यर्थ: ।। 2.96.7 ।।
गजयूथानि वा ऽरण्ये महिषा वा महावने ।
वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ।। 2.96.8 ।।
गजयूथानीति । मृगा इत्यत्रापि वाशब्द: सम्बन्धनीय: ।। 2.96.8 ।।
राजा वा राजमात्रो वा मृगयामटते वने ।
अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ।। 2.96.9 ।।
राजेति । राजमात्र: राजतुल्य: । कश्चिन्मृगयामुद्दिश्य अटते । आत्मनेपदमार्षम् । श्वापदं व्याघ्रादिहिंस्रपशु: । नपुंसकत्वमार्षम् । “व्याघ्रादयो वनचरा: पशव: श्वापदा मता:” इति हलायुध: । अन्यो वा य:कश्चित् श्वापद: अटत इति सम्बन्ध: ।। 2.96.9 ।।
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ।। 2.96.10 ।।
सुदुश्चर इति । अयं गिरि: पक्षिणामपि सुदुश्चरो वर्त्तते, पक्षिसञ्चारोपीदानीं नास्तीत्यर्थ: । सर्वमेतत्पूर्वोक्तकारणेष्वन्यतमं ज्ञातुमर्हसीत्यर्थ: ।। 2.96.10 ।।
स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् ।
प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ।। 2.96.11 ।।
स इति । पुष्पितमित्यनेन विरलपत्रतया ऽनावारकत्वमुक्तम् । सर्वा दिश: प्रेक्षमाण: सामान्येन प्रेक्षमाण: सन् पूर्वां दिशमुदैक्षत सविशेषमलोकयत् ।। 2.96.11 ।।
उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् ।
रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ।। 2.96.12 ।।
तत्र हेतुदर्शनमाह–उदङ्मुख इत्यादिना । यत्तै: सन्नद्धै: ।। 2.96.12 ।।
तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।
शशंस सेनां रामाय वचनं चेदमब्रीत् ।। 2.96.13 ।।
तामिति । रथध्वजविभूषितां रथबद्धध्वजैरलङ्कृताम् ।। 2.96.13 ।।
अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् ।
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ।। 2.96.14 ।।
अग्निमिति । अग्निं संशमयतु, अन्यथा धूमानुसारेणागच्छेत्सेनेति भाव: । सत्यं ज्यया मौर्व्या सहितं कुरुष्व, शरांश्च कवचं तथा शरांश्च कवचं च, गृहाणेति शेष: । यद्वा कुरुष्वेत्यनुषङ्ग: । करोते: क्रियासामान्यवाचित्वात् औचित्येन शरान् गृहाण कवचं धारयेत्यर्थ: ।। 2.96.14 ।।
तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।
अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ।। 2.96.15 ।।
तमिति । तम् एवं समीक्ष्य वदन्तम् । पुरुषव्याघ्र: समीक्ष्यकारीति भाव: । अङ्गेति सम्बोधने । अवेक्षस्व ध्वजचिह्नेन सम्यगालोकये । इमां त्वया दृष्टां चमूं कस्येयमिति मन्यसे, वदेति शेष: ।। 2.96.15 ।।
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।
दिधक्षन्निव तां सेनां रुषित: पावको यथा ।। 2.96.16 ।।
एवमिति । रुषित: कुपित: । कर्त्तरि क्त: । पावको यथा वह्नितुल्य: ।। 2.96.16 ।।
सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।
आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ।। 2.96.17 ।।
सम्पन्नमिति । कैकेय्या: सुत: तत्सुतत्वेन क्रूरप्रकृति: भरत: अभिषेचनं प्राप्य कैकेयीवरानुरोधेनाभिषिक्त: तावताप्यतृप्त: । सम्पन्नं समृद्धम्, निष्कण्टकमिति यावत् । राज्यमिच्छन् सन् तदंशभागिनौ आवां हन्तुं समभ्येति ।। 2.96.17 ।।
एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।
विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ।। 2.96.18 ।।
भरतागमने किं चिह्नमित्यत्राह–एष इति । विटपी ध्वजचिह्नीभूतो वृक्ष: । प्रकाशते स्पष्टं दृश्यते । तमेव विशिनष्टि विराजतीति । उद्गतस्कन्ध: उन्नतस्कन्ध: । उन्नतस्कन्धत्वं लिखितवृक्षद्वारा । कोविदारध्वज: कोविदारवृक्षयुक्तो ध्वज: ।। 2.96.18 ।।
[असौ हि सुमहास्कन्धो विटपी च महाद्रुम: ।
विराजते महासैन्ये कोविदारध्वजो रथे ।।]
भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।
एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ।। 2.96.19 ।।
भजन्तीति । एते अश्वारोहा: अश्वानारुह्य भजन्ति, इमं देशं प्राप्नुवन्तीत्यर्थ: । सादिन: गजारोहा: ।। 2.96.19 ।।
गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।
अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ।। 2.96.20 ।।
गृहीतधनुषाविति । दुर्गे स्थित्वा युद्धार्थं गिरे: श्रयणम् ।। 2.96.20 ।।
अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ।। 2.96.21 ।।
अपि: कामप्रवेदने । नौ आवयो: ।। 2.96.21 ।।
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।
त्वया राघव सम्प्राप्तं सीतया च मया तथा ।। 2.96.22 ।।
अपिद्रक्ष्यामीत्यारभ्य श्लोक: ।। 2.96.22 ।।
यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।
सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ।। 2.96.23 ।।
यन्निमित्तमिति । यन्निमित्तं यस्माद्भरताद्धेतो: ।। 2.96.23 ।।
भरतस्य वधे दोषं नाहं पश्यामि राघव ।
पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ।। 2.96.24 ।।
भरतस्येति । त्यागे वधे ।। 2.96.24 ।।
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।
एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ।। 2.96.25 ।।
पूर्वापकारीति । अपकारश्च न प्रामादिक इत्याह त्यक्तधर्म इति ।। 2.96.25 ।।
अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।
मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ।। 2.96.26 ।।
अद्येति । सङ्ख्ये युद्धे । “मृधमास्कन्दनं सङ्ख्यम्” इत्यमर: ।। 2.96.26 ।।
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।
कलुषेणाद्य महता मेदिनी परिमुच्यताम् ।। 2.96.27 ।।
कैकेयीमिति । वधिष्यामि । हन्तेर्वधादेश आर्ष: । सानुबन्धा मन्थराद्यनुबन्धसहिताम् । कलुषेण पापेन । “कलुषं वृजिनैनोवमंहोदुरितदुष्कृतम्” इत्यमर: ।। 2.96.27 ।।
अद्येमं संयतं क्रोधमसत्कारं च मानद ।
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ।। 2.96.28 ।।
अद्येति । संयतं स्ताम्भतम् । असत्कारं तिस्कारम् । मोक्ष्यामि तत्कार्य्यं करिष्यामीत्यर्थ:, शरव्याजेन मोक्ष्यामीति वार्थ: । कक्षेषु शुष्कगुल्मेषु । मानदेत्यनेन मानं माच्छेत्सीरित्युच्यते ।। 2.96.28 ।।
अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: ।
भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ।। 2.96.29 ।।
शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।
श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ।। 2.96.30 ।।
अद्यैतदिति । शत्रुशरीराणि भिन्दन् एतत् काननं शोणितोक्षितं करिष्य इत्यन्वय: ।। 2.96.2930 ।।
शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।
ससैन्यं भरतं हत्वा भविष्यामि न संशय: ।। 2.96.31 ।।
शराणामिति । अहं यत: पूर्वं तत्रतत्र युद्धे शराणां धनुषश्च विषये अनृण: ऋणरहित: शत्रुकलेवराहारदानेन परिहृतऋण:, स्वयं युद्धे क्वाप्यपराजित: शत्रुजयैकशील इत्यर्थ: । अत: अस्मीत्यहमर्थे ऽव्ययम् । अस्मि अहं महामृधे भाविन्यपि युद्धे ससैन्यं भरतं हत्वा अनृण इत्यनुकर्ष:, अनृणो भविष्यामीत्यन्वय: । वनवासात्पूर्वमपि शम्बरसुतजयादिप्रतिपादनात् तत्र लक्ष्मणस्यापि सहभावावश्यंभावाद्युद्धसम्भव: । अस्मीति क्रियापदं वा । तदा अभवमित्यर्थ: । यत: अनृणो ऽभवमित्यन्वय: । त्वयापि मद्वीर्यं ज्ञातपूर्वमित्यर्थ: ।। 2.96.31 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षण्णवतितम: सर्ग: ।। 96 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षण्णवतितम: सर्ग: ।। 96 ।।