[highlight_content]

02 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वितीयः सर्गः

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ ।

वरायुधधरौ वीरौ सुग्रीवः शङ्कितो ऽभवत् ।। 4.2.1 ।।

अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये तौ त्वित्यादि । महात्मानौ महाशरीरौ, भद्राकृती इत्यर्थः । वरायुधधरौ अत एव वीरौ ।। 4.2.1 ।।

उद्विग्नहृदयः सर्वा दिशः समवलोकयन् ।

न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ।। 4.2.2 ।।

उद्विग्नहृदयः भीतमनस्कः ।। 4.2.2 ।।

नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ ।

कपेः परमभीतस्य चित्तं व्यवससाद ह ।। 4.2.3 ।।

स्थाने स्वस्थाने निश्चिलत्व इति यावत् । व्यवससाद दुःखितमभूत् ।। 4.2.3 ।।

चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् ।

सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह ।। 4.2.4 ।।

धर्मे राजधर्मे आत्मा मतिर्यस्य स धर्मात्मा । अनुचरैः मन्त्रिभिः सह चिन्तयित्वा गुरुलाघवं विमृश्य स्थाने पलायने च गुरुलाघवं विमृश्य च परमोद्विग्नो ऽभवत् ।। 4.2.4 ।।

ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः ।

शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ।। 4.2.5 ।।

रामलक्ष्मणौ तत्स्वभावं शशंस ।। 4.2.5 ।।

एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् ।

छद्भना चीरवसनौ प्रचरन्ताविहागतौ ।। 4.2.6 ।।

प्रणिहितौ चारौ छद्भना ऋषिवेषव्याजेन ।। 4.2.6 ।।

ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ ।

जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ।। 4.2.7 ।।

जग्मुः सुग्रीववचने हितत्वबुद्ध्येति शेषः ।। 4.2.7 ।।

ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् ।

हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ।। 4.2.8 ।।

अधिगम्य नानादिक्षु पलायिताः एकत्र समागम्य ।। 4.2.8 ।।

एकमेकायनगताः प्लवमाना गिरेर्गिरिम् ।

प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि ।। 4.2.9 ।।

पुनरपि गिरेर्गिरिं प्लवमानाः गिरीणां शिखराण्यपि प्रकम्पयन्तः एकायनगताः क्रमेणैकस्थानगताः सन्तः एकम् एकाकिनं सुग्रीवमुपतस्थिर इत्यनुषङ्गः । “एवमेकायनगता” इति पाठे एवम् उक्तरीत्या एकायनगतास्ते प्रकम्पयन्तो ऽभवन्निति योजना ।। 4.2.9 ।।

ततः शाखामृगाः सर्वे प्लवमाना महाबलाः ।

बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गसंश्रितान् ।। 4.2.10 ।।

दुर्गं गिरिः ।। 4.2.10 ।।

आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् ।

मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा ।। 4.2.11 ।।

आप्लवन्तो ययुः नतु मन्दं ययुरित्यर्थः ।। 4.2.11 ।।

ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः ।

सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ।। 4.2.12 ।।

पर्वतेन्द्रम् ऋश्यमूकं पर्यन्तपर्वतेषु तत्र तत्र गत्वा पुनस्तमेव ऋश्यमूकं ययुरित्यर्थः ।। 4.2.12 ।।

ततस्तं भयसंविग्नं वालिकिल्बिषशङ्कितम् ।

उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः ।। 4.2.13 ।।

वालिकिल्बिषेण वालिकपटेन शङ्कितं वालिना प्रोषिताविमाविति शङ्कितमित्यर्थः ।। 4.2.13 ।।

सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान् ।

मलयो ऽयं गिरिवरो भयं नेहास्ति वालिनः ।। 4.2.14 ।।

वालिकृते वालिनिमित्तं सम्भ्रमस्त्यज्यताम् । मलय इति पर्वतमात्रस्य नाम अयं मलयः अयं पर्वतः गिरिवरः ऋश्यमूक इत्यर्थः ।। 4.2.14 ।।

यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव ।

तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ।। 4.2.15 ।।

वाली वेषान्तरधारी समागत इति भ्रमं वारयति यस्मादित्यादिना । यस्मात् वालिनः क्रूरं क्रूरकर्माणम् ।। 4.2.15 ।।

यस्मात्तव भयं सौम्य पूर्वजात् पापकर्मणः ।

स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ।। 4.2.16 ।।

यस्मादिति । पापकर्मणः अनुजभार्यापहारिणः भयं भयहेतुम् ।। 4.2.16 ।।

अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम ।

लघुचित्ततयात्मानं न स्थापयसि यो मतौ ।। 4.2.17 ।।

अहो इति । मतौ सम्यग्विचारे ।। 4.2.17 ।।

बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर ।

न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ।। 4.2.18 ।।

बुद्धिः सामान्यतो ज्ञानम्, विशेषतो ज्ञानं विज्ञानम्, इङ्गितम् अभिप्रायसूचको व्यापारः, सर्वं कार्यम् अबुद्धिम् अबुद्ध्यादिकम् ।। 4.2.18 ।।

सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः ।

ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ।। 4.2.19 ।।

ततः शुभतरं तद्वाक्यादत्यन्तशुभम् ।। 4.2.19 ।।

दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ।

कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ।। 4.2.20 ।।

दीर्घा बाहवो ययोस्तौ दीर्घबाहू, इत्येवं सर्वत्र समासः ।। 4.2.20 ।।

वालिप्रणिहितावेतौ शङ्के ऽहं पुरुषोत्तमौ ।

राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ।। 4.2.21 ।।

वालिप्रणिहितौ नाहं वाली समागत इति बिभेमि, किन्तु तत्प्रेषिताविति मत्वेति भावः । एतादृशतदीयपुरुषस्य का प्रसक्तिस्तत्राह राजान इति । अत्र राजविषये ।। 4.2.21 ।।

अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः ।

विश्वस्तानामविश्वस्ता रन्ध्रेषु प्रहरन्ति हि ।। 4.2.22 ।।

छन्नचारिणो ऽरयः मनुष्येण शत्रुमता ज्ञेयाः । कुत इत्यत्राह विश्वस्तानामिति । विश्वस्तानां शत्रूणां रन्ध्रेषु प्रमादेषु सत्सु स्वयमविश्वस्ताः सन्तः प्रहरन्ति हि ।। 4.2.22 ।।

कृत्येषु वाली मेधावी राजानो बहुदर्शनाः ।

भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ।। 4.2.23 ।।

कृत्येषु कर्तव्यकार्येषु वाली मेधावी दूरदर्शी । स्वभावश्चायं राज्ञामित्याह राजान इति । राजानः बहुदर्शनाः बहूपायज्ञाः परहन्तारो भवन्ति । ते प्राकृतैः दीनवेषधरैः नरैः ज्ञेयाः ।। 4.2.23 ।।

तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम ।

इङ्गितानां प्रकरैश्च रूपव्याभाषणेन च ।। 4.2.24 ।।

प्राकृतेन प्राकृतवेषेण इङ्गितानां भावसूचककायिकव्यापाराणां प्रकारैरवान्तरभेदैः, रूपेण सौम्यासौम्यलक्षणेन, व्यभाषणेन अन्योन्यसम्भाषणेन च तौ ज्ञेयौ ।। 4.2.24 ।।

लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि ।

विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनःपुनः ।। 4.2.25 ।।

ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव ।

प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ।। 4.2.26 ।।

यदि प्रहृष्टमनसौ यदि शुद्धभावौ तदा प्रशंसाभिः तदनुकूलेङ्गितैश्च पुनःपुनः विश्वासयन् ममैवाभिमुखम् अनुकूलं यथा भवति तथा स्थित्वा स्थापयित्वा धनुर्धरौ धनुर्धरतया अत्र वने प्रवेशस्य प्रयोजनं पृच्छ ।। 4.2.25,26 ।।

शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम ।

व्याभाषितैर्वा विज्ञेया स्याद्दुष्टादुष्टता तयोः ।। 4.2.27 ।।

शुद्धेति । यद्येतौ शुद्धात्मानौ तदा पुनरपि जानीहि । किं तेनेत्यत्राह व्याभाषितैरिति । वाकारश्चार्थः । अदुष्टतेति च्छेदः ।। 4.2.27 ।।

इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः ।

चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ।। 4.2.28 ।।

सुग्रीववचनं समीचीनममन्यतेत्याह इतीति ।। 4.2.28 ।।

तथेति संपूज्य वचस्तु तस्य तत्कपेः सुभीमस्य दुरासदस्य च ।

महानुभावो हनुमान्ययौ तदा स यत्र रामो ऽतिबलश्च लक्ष्मणः ।। 4.2.29 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वितीयः सर्गः ।। 2 ।।

संपूज्य श्लाघयित्वा । सुभीमस्य दुरासदस्येत्येताभ्यां सुनीतित्वं सूचितम् । महानुभावः वेषान्तरधारणसमर्थः सः हनुमान् यत्र रामो लक्ष्मणश्च तं देशं ययावित्यन्वयः ।। 4.2.29 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वितीयः सर्गः ।। 2 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.