[highlight_content]

03 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे तृतीयः सर्गः

ो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।

पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ।। 4.3.1 ।।

प्रथमे सर्गे वैकुण्ठवासिनो भगवतः स्वीयेषु केषाञ्ित् स्वपरत्वे वर्तमाने केषाञ्िद्विषयान्तरप्रावण्यमवलोक्य दूयमानमानसस्य दयावृत्तिविशेषः प्रतिपादितः । द्वितीये ेतनस्य भगवदपराधदण्डभीतस्य तस्मिन्नभिमुख्यमुक्तम् । अथ तल्लाभहेत्वाार्यकृत्यं दर्शयति तृतीये व इत्यादि ।। 4.3.1 ।।



कपिरूपं परित्यज्य हनुमान् मारुतात्मजः ।

भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ।। 4.3.2 ।।

कपीति । रूपान्तरपरिग्रहसामर्थ्यमु्यते मारुतात्मज इति । शठबुद्धितया वञ्कबुद्धितया भिक्षुरूपं सन्न्यासिवेषम् । “भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी” इत्यमरः ।। 4.3.2 ।।



ततः स हनुमान् वाा श्लक्ष्णया सुमनोज्ञया ।

विनीतवदुपागम्य राघवौ प्रणिपत्य

आबभाषे तदा वीरौ यथावत् प्रशशंस ।। 4.3.3 ।।

तत इति सार्धः । विनीतवत् सविनयम् उपागम्य प्राणिपत्य नमस्कृत्य श्लक्ष्णया अपरुषया समुनोज्ञया अर्थतो ऽतिरम्यया वाा आबभाषे । यथावत्परमार्थतया प्रशशंस । अत्र भिक्षुरूपस्य हनुमतः प्रणामादन्यत्रापि भिक्षोर्गृहस्थादिविषये प्रणामः कर्तव्य एवेति विज्ञायते । सन्न्यासिनो गृहस्थादिप्रणामनिषेधवनान्यज्ञविषयाणीति मन्तव्यानि । यदि हि ज्ञानाधिकं दृष्ट्वा कर्ममात्रेणाधिको यतिर्न प्रणमेत् तर्हि “विप्राणां ज्ञानतो ज्यैष्ठ्यम्” इति मनुवनं विरुद्ध्यत । नहि तत्प्रणामनिषेधं मनुवनं किञ्िद्दृश्यते । किं त्वनारभ्याधीतमदृष्टाकरं यत्किञ्िद्यतिप्रणामनिषेधवनं किंवदन्तीसिद्धम् । तस्य विषयो ऽज्ञगृहस्थादिरूपः । यत्तु कैश्िदुक्तम् अत्यद्भुतरामलक्ष्मणरूपदर्शनसञ्जातातिविस्मयः सन् अङ्गीकृतं भिक्षुरूपं विस्मृत्य “अवशाः प्रतिपेदिरे” इतिवत् प्रणनामेति न विरोध इति । तन्नः, उपक्रमविरोधात् । इङ्गितवनादिभिः परहृदयज्ञानार्थं हि प्रेषितो ऽयम् । नहि तथा नियुक्तः, सुनिपुणमतिः सिवधुरन्धरः, स्वकार्यविरोधकरं परिगृहीताकारविरुद्धमविस्रम्भहेतुत्वेन परेङ्गितानाविष्कारहेतुभूतं कार्यं कुर्यात् । यदप्युक्तम् “रूपमेवास्यैतन्महिमानं व्याष्टे” इति न्यायेन दर्शनमत्रेणैतौ सुग्रीवविरोधिनिरसनदक्षाविति निश्ित्य परिगृहीतवेषान्तरस्य स्वस्य ारत्वं प्रकटयितुं नमस्कारं कृतवानिति न दोष इति । तदपि न तथा सति सुग्रीवो नामेत्यादिवक्ष्यमाणमेव प्रथमं कथयेत् । केित्तु भिक्षुर्ब्रह्मारी, अतो न दोष इत्याहुः । तन्न, तादृशभिक्षुकत्वस्य पूर्वमेव सिद्धत्वेन इदानीमपरिग्राह्यत्वात् । अपरे तु सर्वथा कपिरूपं परित्यज्येत्युपक्रमात् उपरिष्टात् प्र्छन्नत्वोक्त्या मानुषरूपाङ्गीकारावश्यंभावात्तद्रूपविशिष्टं ब्रह्मर्यमेवात्र भिक्षुशब्देनो्यत इति न विरोध इत्यूिरे । तत्पक्षे तु पूर्वोक्तया दिशा दूषणं िन्त्यम् ।। 4.3.3 ।।



सम्पूज्य विधिवद्वीरो हनुमान् मारुतात्मजः ।

उवा कामतो वाक्यं मृदु सत्यपराक्रमौ ।। 4.3.4 ।।

सम्पूज्येति कामतः भक्त्या । पूर्वोक्तप्रशंसा भक्तिकृता, नतु केवलपरिक्षाकृतेति भावः ।। 4.3.4 ।।



राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ।

देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ।। 4.3.5 ।।

त्रासयन्तौ मृगगणानन्यांश् वनारिणः ।

पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः ।। 4.3.6 ।।

राजर्षीत्यादिश्लोकद्वयम् । मृगगणान् अन्यान् वनारिणश् त्रासयन्तौ समन्ततः पम्पातीररुहान् वृक्षान् वीक्षमाणौ भवन्तौ वरवर्णिनौ स्निग्धरूपवन्तौ । कर्मधारयादपिमत्वर्थीयो दृष्टरः । अत एव राजर्षिदेवप्रतिमौ संशितव्रतौ तीक्ष्णव्रतौ अत एव तापसौ तपस्विवेषौ भूत्वा इमं दुर्गमं देशं कथं प्राप्तौ ।। 4.3.5,6 ।।



इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ ।

धैर्यवन्तौ सुवर्णाभौ कौ युवां ीरवाससौ ।। 4.3.7 ।।

निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः ।

सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ।। 4.3.8 ।।

शक्रापनिभे ापे गृहीत्वा शत्रुसूदनौ ।

श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ ।। 4.3.9 ।।

हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ।। 4.3.10 ।।

इमामित्यादिसार्धश्लोकत्रयमेकान्वयम् । पम्पायाः सरस्त्वेपि स्वल्पतया पूर्वापरप्रवाहवत्त्वेन नदीत्वमविरुद्धम् । शोभयन्तौ स्वतेजसेति शेषः । सुवर्णाभौ रामस्य श्यामत्वे ऽपि लक्ष्मणस्य पीतवर्णत्वा्छत्ित्रन्यायात् सुवर्णकान्तित्वम् । निःश्वसन्तौ वनसञ्ारायासात् वरभुजौ सुन्दरभुजौ हस्तिहस्तेत्यनेन दैर्ध्यपीवरत्वयोर्वक्षयमाणत्वात् इमाः प्रजाः पक्षिमृगादीन् पीडयन्तौ अपूर्वदर्शनेन विद्रावकावित्यर्थः, सिंहस्येव विप्रेक्षितं वीक्षणं ययोस्तौ सिंहातिबलविक्रमौ सिंहातिशायिबलपराक्रमौ शक्रापनिभे इन्द्रधनुस्तुल्ये ापे गृहीत्वा शत्रुसूदनौ शत्रुसंहारकौ नीलभेदपरभागतया धनुषोराभरणत्वं शत्रुसंहारकत्वेनायुधकोटिप्रविष्टत्वं दर्शितमाभ्यां विशेषणाभ्याम् । श्रीमन्तौ कान्तिमन्तौ रूपसम्पन्नौ सौन्दर्ययुक्तौ वृषभश्रेष्ठविक्रमौ वृषभश्रेष्ठगमनौ द्युतिमन्तौ तेजस्विनौ, तेजस्तु श्रियो भिन्नमिति न पुनरुक्तिः । एवम्भूतौ युवां कावित्यन्वयः ।। 4.3.710 ।।



प्रभया पर्वतेन्द्रो ऽयं युवयोरवभासितः ।। 4.3.11 ।।

प्रभयेत्यर्धम् ।। 4.3.11 ।।



राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ।

पद्मपत्त्रेक्षणौ वीरौ जटामण्डलधारिणौ ।। 4.3.12 ।।

अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ।

यदृ्छयेव सम्प्राप्तौ न्द्रसूर्यौ वसुन्धराम् ।। 4.3.13 ।।

विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ।

सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ ।। 4.3.14 ।।

राज्येत्यादित्रय एकान्वयाः । अमरप्रख्यौ देवतुल्यपराक्रमौ देवलोकादागतौ वीराविव स्थितौ यदृ्छया दैवात् वसुन्धरां प्राप्तौ न्द्रसूर्याविव स्थितौ देवरूपिणौ देवतुल्यरूपिणौ वीरौ मानुषौ युवां राज्यार्हावपि राज्यं त्वक्त्वा वीरौ जटामण्डलधारिणौ अवि्छिन्नजटामण्डलधारिणौ भूत्वा इह देशं वनदेशं कथं किमर्थम् आगतौ । समस्तराजलक्षणलक्षितयोर्युवयोः राज्यभोग एवोितः, नतु वनवास इति भावः ।। 4.3.1214 ।।



आयताश् सुवृत्ताश् बाहवः परिघोपमाः ।

सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः ।। 4.3.15 ।।

आयताः आजानुविलम्बिनः सुवृत्ताः भुजगभोगवद्वृत्ताः बाहवः “रामस्य दक्षिणो बाहुः” इति लक्ष्मणस्य रामबाहुत्वात्तद्बाहुभ्यां बहुवनम् । यद्वा हनुमतो भक्तत्वेन तस्य तुर्भुजवेषेण दृश्यो ऽभवत् । यद्वा द्वयोर्बाहुतुष्टयवत्त्वाद्बहुवनम् । परिघोपमाः परिघो गदाविशेषः तदुपमाः, स्वसौन्दर्यानुभवपराणां समस्तविरोधिनिवर्तनक्षमा इत्यर्थः, सर्वभूषणभूषार्हाः “आभरणस्याभरणम्” इत्युक्तरीत्या भूषणान्यपि भूषयितुमर्हाः किमर्थं न विभूषिताः इमान् भूषणैरलङ्कृत्य आभरणाभरणत्वं किमिति न प्रकाशितमित्यर्थः । यद्वा दृष्टिदोषपरिहाराय एतादृशबाहुसौन्दर्यमा्छादयितव्यं तत्किमर्थं ना्छादितमिति भावः । यद्वा आभरण्छन्नसौन्दर्यमेवालमस्मद्वशीकरणाय । अधिकं निरावरणसौन्दर्यप्रदर्शनमिति भावः । यद्वा राजकुमाराणां क्षणमात्रं ताम्बूलाभावे म्लानतावत्क्षणमात्रविरहे ऽपि स्थातुमनर्हा भूषाः किमर्थं विश्लेषिता इति भावः । यद्वा एवं भूषणविरहः कस्य वा शत्रोर्मूलघातायेति भावः । अनेन अप्रतिहतसङ्कल्पत्वे ऽपि नित्यसूरीन् विहाय तुर्धा ऽवतरणे को हेतुरित्युक्तम् ।। 4.3.15 ।।



उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ।

ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ।। 4.3.16 ।।

उभाविति । विन्ध्यमेरुविभूषितामिति दृष्टान्तार्थः यथा विन्ध्यमेरू भूरक्षकौ तथा भवन्तावपीति ।। 4.3.16 ।।



इमे धनुषी ित्रे श्लक्ष्णे ित्रानुलेपने ।

प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ।। 4.3.17 ।।

ित्रे लोके एतादृशधनुषोरदर्शनादद्भुतावहे वज्रे इत्यभूतोपमा ।। 4.3.17 ।।



सम्पूर्णा निशितैर्बाणैस्तूणाश् शुभदर्शनाः ।

जीवितान्तकरैर्घोरैः श्वसद्भिरिव पन्नगैः ।। 4.3.18 ।।

तूणा इति बहुवनम् एकैकस्य पार्श्वद्वये ऽपि तूणीरद्वयसत्त्वात् ।। 4.3.18 ।।



महाप्रमाणौ विस्तीर्णौ तप्तहाटकभूषितौ ।

खड्गावैतौ विराजेते निर्मुक्ताविव पन्नागौ ।। 4.3.19 ।।

महाप्रमाणाविति दीर्घत्वम् । विस्तीर्णाविति विशालता । तप्तहाटकं द्रुतकनकम् । निर्मुक्तौ निर्मुक्तत्वौ ।। 4.3.19 ।।



एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ।। 4.3.20 ।।

परिभाषन्तं पुनःपुनर्भाषमाणं नाभिभाषथः नाभिभाषेथे । व्यत्यय आर्षः ।। 4.3.20 ।।



सुग्रीवो नाम धर्मात्मा कश्िद्वानरयूथपः ।

वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ।। 4.3.21 ।।

एवं स्ववाक्सौष्ठवेन तूष्णीम्भूतौ दृष्ट्वा स्वकार्यमावेदयति सुग्रीव इत्यादिना । विनिकृतः वञ्ितः ।। 4.3.21 ।।



प्राप्तो ऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।

राज्ञा वानरमुख्यानां हनूमान्नाम वानरः ।। 4.3.22 ।।

महात्मना महाबुद्धिना ।। 4.3.22 ।।



युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमि्छति ।

तस्य मां सिवं वित्तं वानरं पवनात्मजम् ।। 4.3.23 ।।

वित्तं विदेर्लोटि मध्यमपुरुषद्विवनम् ।। 4.3.23 ।।



भिक्षुरूपप्रति्छन्नं सुग्रीवप्रियकाम्यया ।

ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम् ।। 4.3.24 ।।

तर्हि कथं भिक्षुरसीत्यत्राह भिक्ष्विति ।। 4.3.24 ।।



एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ ।

वाक्यज्ञौ वाक्यकुशलः पुनर्नोवा किञ्न ।। 4.3.25 ।।

नोवा तद्वनश्रवणे्छयेति भावः ।। 4.3.25 ।।



एत्छ्रुत्वा वस्तस्य रामो लक्ष्मणमब्रवीत् ।

प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ।। 4.3.26 ।।

एतदिति । हनुमन्तं स्तोतुं लक्ष्मणं प्रत्युक्तिः ।। 4.3.26 ।।



िवो ऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः ।

तमेव कांक्षमाणस्य ममान्तिकमुपागतः ।। 4.3.27 ।।

िव इति । उपागतः स एव सिवद्वारेति शेषः ।। 4.3.27 ।।



तमभ्यभाष सौमित्रे सुग्रीवसिवं कपिम् ।

वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम ।। 4.3.28 ।।

स्नेहयुक्तं मयि सुग्रीवे प्रीतियुक्तमित्यर्थः । अभ्यभाष अभिभाषस्व । अडागमपरस्मैपदे आर्षे । मन्त्रिणा स्वामिनो वनं न नीतिरिति सौमित्रिं नियोजयति ।। 4.3.28 ।।



नानृग्वेदविनीतस्य नायजुर्वेदधारिणः ।

नासामवेदविदुषः शक्यमेवं प्रभाषितुम् ।। 4.3.29 ।।

अथ ेतनोज्जीवनस्याार्यमुखमन्तरेणासम्भवादाार्यलाभं दर्शयति नानृग्वेदेत्यादिना । “आार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः । मन्त्रज्ञो मन्त्रभक्तश् सदा मन्त्रार्थदः शुिः । गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः । एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते ।।” इत्युक्तमाार्यलक्षणं दर्शयति। ऋग्वेदेषु विनीतस्य शिक्षितस्य विनयधारणवेदनानि सर्वत्र वेदेषु योज्यानि। यद्वा प्रतिवर्णं स्वरभूयस्त्वेन मनोनियमनेन सावधानोार्यत्वादृग्वेदविनितस्येत्युक्तिः। एकैकानुवाके अनुवाकान्तरवाक्यासाङ्कर्येण धारणस्य दुष्करत्वाद्यजुर्वेदधारिण इत्युक्तम्। ऊहरहस्यादिगर्भितगानविशेषाणां दुर्विज्ञेयत्वात् सामवेदविदुष इति। अथर्वणस्याध्ययनादिनियमाभावादनुक्तिः। एवं प्रभाषितुम् “देशं कथमिमिं प्रप्तौ” इत्यारभ्य उक्तरीत्या व्यक्तं वक्तुं न शक्यमिति। अनृग्वेदविनीतस्य एवं प्रभाषितुं न शक्यम्, अयजुर्वेदधारिण एवं प्रभाषितुं न शक्यम्, असामवेदविदुषः एवं प्रभाषितुं न शक्यमिति प्रत्येकमन्वयः। प्रत्येकं नञ्प्रयोगात् दार्ढ्यार्थं व्यतिरेकमुखेनोक्तिः। अनृग्वेदविनीतस्य “उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्।” इत्यादिनोक्तसृष्टिस्थितिसंहारकर्तृत्वं वक्तुं न शक्यम्। ऐतरेयके हि “ब्रह्म वा इदमेक एवाग्र आसीत्” इत्यादिना तथात्वं प्रथमतः प्रतिपाद्यते। अयजुर्वेदधारिणः “मानुषौ देवरूपिणौ” इत्यादिना “अजायमानो बहुधा विजायते” इत्युक्तावताररहस्यं वक्तुं न शक्यम्। असामवेदविदुषः “सुवर्णाभौ पद्मपत्त्रेक्षणौ” इत्येवं भाषितुं न शक्यते। छान्दोग्ये हि “अथ य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” इत्यारभ्य “तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी” इत्याम्नायते ।। 4.3.29 ।।



नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् ।

बहु व्याहरता ऽनेन न किञ्िदपशब्दितम् ।। 4.3.30 ।।

न केवलं वेदाध्ययनम् अङ्गाध्ययनं कृतमित्याह नूनमिति । तत्र हेतुमाह बह्विति । अपशब्दितम् अपकृष्टं न शब्दितम् । अत्रादौ यदित्यध्याहार्यम् । व्याकरणं श्रुतम् अतो नापशब्दितम्, कृत्स्नं श्रुतम् अतो न किञ्िदपशब्दितम् । प्रकृतिप्रत्ययसमाससन्ध्यादिषु किञ्िदपि नापभ्रंशितमित्यर्थः । बहुधा श्रुतम् एकवारश्रवणे क्विदन्यथाभावो ऽपि स्यात् ।। 4.3.30 ।।



न मुखे नेत्रयोर्वापि ललाटे भ्रुवोस्तथा ।

अन्येष्वपि गात्रेषु दोषः संविदितः क्वित् ।। 4.3.31 ।।

शिक्षा ानेन श्रुतेत्याह तुर्भिः न मुख इत्यादिभिः । लोके केषाञ्िद्व्यवहारदशायां मुखादिषु सर्वत्र यत्र कुत्रापि वा विकारो दृश्यते न तथात्रेति भावः । दोषः विकृतिः न संविदित इत्यनेन स्वेन सूक्ष्ममवलोकितमिति गम्यते । तदुक्तं शिक्षायाम् “गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञो ऽल्पकण्ठश् षडेते पाठकाधमाः । न शिरः कम्पयेद्गात्रं भ्रुवौ ाप्यक्षिणी तथा । तैलपूर्णमिवात्मानं तत्तद्वर्णे प्रयोजयेत् ।।” इति ।। 4.3.31 ।।



अविस्तरमसन्दिग्धमविलम्बितमद्रुतम् ।

उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे ।। 4.3.32 ।।

एवमुारणशक्तिरुक्ता । अथ वाक्यप्रयोातुरीं दर्शयति अविस्तरमिति । अविस्तरं शब्दप्रपञ्रहितम् । “प्रथने वावशब्दे” इति घञो निषेधात् “ऋ दोरप्” इत्यप्प्रत्ययः । असन्दिग्धं पदवर्णसन्देहरहितम् । अविलम्बितं विलम्बितत्वे स्वाशक्तिः प्रकटिता स्यात् । अद्रुतं द्रुतोञ्ारणे परप्रत्यायनं न स्यात् । उरःस्थं मन्द्रम् । कण्ठगं मध्यमम्, तादृशं वाक्यं मध्यमे स्वरे वर्तते न मन्द्रं न मध्यमं न द्रुतं न विलम्बितं ेत्यर्थः । इदं तुर्दशदोषाभावानामुपलक्षणम् । तथाह शिक्षाकारः “शङ्कितं भीतमुद्घुष्टमव्यक्तमनुनासिकम् । काकस्वरं शीर्षगतं तथा तथा स्थानविवर्जितम् । विस्वरं विरसं ैव विश्लिष्टं विषमान्वितम् । व्याकुलं तालुभिन्नं पाठदोषाश्तुर्दशा ।।” इति। अन्यत्राप्युक्तम् “उपांशु दष्टं त्वरितं विलम्बितं गद्गदितं प्रगीतम्। निष्पीडितं ग्रस्तपदाक्षरं वदेन्न दीनं न तु सानुनास्यम् ।।” इति ।। 4.3.32 ।।



संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम् ।

उञ्ारययति कल्यार्णीं वां हृदयहारिणीम् ।। 4.3.33 ।।

एवं पाठदोषा उक्ताः । अथ तद्गुणानाह संस्कारेति । संस्कारो व्याकरणकृता शब्दशुद्धिः व्यक्तपदत्वमिति यावत् । क्रमः वर्णानां क्रमिकता व्यक्ताक्षरत्वमिति यावत् । कल्याणीम् इतरगुणवतीं हृदयहारिणीं मधुरां वाणीम् उञ्ारयति उञ्रति । तदिदमुक्तं शिक्षायाम् “माधुर्यमक्षरव्यक्तिः पद्छेदस्तथा ऽत्वरा । धैर्यं लयसमत्वं षडेते पाठका गुणाः ।। ” इति ।। 4.3.33 ।।



अनया ित्रया वाा त्रिस्थानव्यञ्नस्थया ।

कस्य नाराध्यते ित्तमुद्यतासेररेरपि ।। 4.3.34 ।।

माधुर्यपराकाष्ठामाह अनयेति । ित्रया आश्र्यावहया । त्रिस्थानानि उरःकण्ठशिरांसि व्यज्यन्ते एषु वर्णा इति व्यञ्नानि । त्रिस्थानरूपव्यञ्जनेषु तिष्ठतीति तथा । तथात्वं न तदुत्पन्नत्वं शिरस्यत्वस्य निषिद्धत्वात् । शीर्षगतं तथेति ह्युदाहृतम् । किन्तु उदात्तानुदात्तस्वरितवत्त्वम् । तथोक्तं शिक्षायाम् “अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः । स्वरितः कण्ठमूलीयः पार्श्वास्ये प्रयस्य तु ।।” इति। नाराध्यते न तोष्यते। कस्येत्यस्य विवरणम्

उद्यतासेररेरपीति । उद्यतासेः छेत्तुमुद्धृतासेरित्यतिक्रूरतोक्तिः । अनेन हनुमदादिभिः रामादीनां संस्कृतभाषयैव व्यवहार इति गम्यते ।। 4.3.34 ।।



एवंविधो यस्य दूतो न भवेत्पार्थिवस्य तु ।

सिध्यन्ति हि कथं तस्य कार्याणां गतयो ऽनघ ।। 4.3.35 ।।

एवं हनुमतो वाक्ातुरीमभिनन्द्य बुद्धिातुरीमभिनन्दति एवंविध इति । एवंविधः एवंप्रष्टा अस्मत्प्रशंसाव्याजेन कुलगोत्रनामधेयराज्यत्यागकारणादीनां प्रष्टा । गतयः सिद्धयः ।। 4.3.35 ।।



एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः ।

तस्य सिद्ध्यन्ति सर्वार्था दूतवाक्यप्रोदिताः ।। 4.3.36 ।।

उक्तमर्थमन्वयमुखेनापि दर्शयति एवमिति । दूतवाक्यप्रोदिताः दूतवाक्यमूला एव सिद्ध्यन्ति, न प्रधानापेक्षा इति भावः ।। 4.3.36 ।।



एवमुक्तस्तु सौमित्रिः सुग्रीवसिवं कपिम् ।

अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ।। 4.3.37 ।।

वाक्यज्ञो वाक्यज्ञमित्युक्त्त्या यथारीत्या हनुमतोक्तं तथैव सौमित्रिणापीत्यु्यते ।। 4.3.37 ।।



विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः ।

तमेवं ावां मार्गावः सुग्रीवं प्लवगेश्वरम् ।। 4.3.38 ।।

विदिता इति । विद्वन्निति हनुमत्सम्बोधनम् ।। 4.3.38 ।।



यथा ब्रवीषि हनुमन् सुग्रीववनादिह ।

तत्तथा हि करिष्यावो वनात्तव सत्तम ।। 4.3.39 ।।

यथेति । अनेन ये तावत् आार्याभिमाननिष्ठाः तेषां कार्यं तद्वनादेव करिष्यामीति भगवतः प्रतिज्ञा सूिता ।। 4.3.39 ।।



तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः ।

मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ।। 4.3.40 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे तृतीयः सर्गः ।। 3 ।।

तदिति । जयोपपत्तौ वालिजयोपपत्तिनिमित्तम् ।। 4.3.40 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने तृतीयः सर्गः ।। 3 ।।

Languages

Related Parts

error: Content is protected !!