श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः
वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः ।
पितुर्बहुमतो नित्यं ममापि च तथा पुरा ।। 4.9.1 ।।
अथ वाल्यपराधवृत्तान्तो नवमे वाली नामेत्यादिषड्विंशतिः श्लोकाः ।। 4.9.1 ।।
पितर्युपरते ऽस्माकं ज्येष्ठो ऽयमिति मन्त्रिभिः ।
कपीनामीश्वरो राज्ये कृतः परमसम्मतः ।। 4.9.2 ।।
पितरीति । अयं ज्येष्ठः । अतः कपीनामीश्वर इति राज्ये कृतः स्थापितः ।। 4.9.2 ।।
राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः ।। 4.9.3 ।।
पितृपैतामहं स्वपितुः ऋक्षरजसः पित्रा ब्रह्मणा तस्मै दत्तत्वात् ।। 4.9.3 ।।
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।
तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा ।। 4.9.4 ।।
दुन्दुभेः पूर्वजः अग्रजः । सुतः मयस्येति शेषः । वक्ष्यत्युत्तरकाण्डे मयः “मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।” इति । तेन मायाविना तस्य वालिनः स्त्रीकृतं स्त्रीनिमित्तं महद्वैरमस्तीति पुरा विश्रुतम् ।। 4.9.4 ।।
स तु सुप्तजने रात्रै किष्किन्धाद्वारमागतः ।
नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ।। 4.9.5 ।।
सुप्तजने सुप्तः जनो यस्मिन् रात्र्यंशे स सुप्तजनः, अर्धरात्र इत्यर्थः ।। 4.9.5 ।।
प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ।
श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ।। 4.9.6 ।।
स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ।
वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ।। 4.9.7 ।।
स तु निर्धूय सर्वान्नो निर्जगाम महाबलः ।
ततो ऽहमपि सौहार्दान्निःसृतो वालिना सह ।। 4.9.8 ।।
स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थिम् ।
असुरो जातसन्त्रासः प्रदुद्राव ततो भृशम् ।। 4.9.9 ।।
भैरवस्वनं भैरवस्वनरूपं नर्दितं गर्जितम् ।। 4.9.69 ।।
तस्मिन् द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ ।
प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ।। 4.9.10 ।।
तस्मिन्निति । उद्गच्छता उदयमानेन ।। 4.9.10 ।।
स तृणैरावृतं दुर्गं धरण्या विवरं महत् ।
प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ।। 4.9.11 ।।
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशंगतः ।
मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ।। 4.9.12 ।।
इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः ।
यावत्तत्र प्रविश्याहं निहन्मि सहसा रिपुम् ।। 4.9.13 ।।
आसाद्य बिलद्वारमिति शेषः ।। 4.9.1113 ।।
मया त्वेतद्वचः श्रुत्वा याचितः स परन्तपः ।
शापयित्वा तु मां पद्भ्यां प्रविवेश बिलं महत् ।। 4.9.14 ।।
याचितः सह प्रवेशनमिति शेषः । पद्भ्यां स्वपदाभ्याम् । “श्लाघह्नुस्थाशपां ज्ञीप्स्यमानः ।” इति चतुर्थी ।। 4.9.14 ।।
तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः ।
स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ।। 4.9.15 ।।
तस्य प्रविष्टस्य तस्मिन् प्रविष्टे साग्रः सम्पूर्णः स कालः संवत्सरः । ममापि संवत्सरो गत इत्यर्थः ।। 4.9.15 ।।
अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः ।
भ्रातरं न च पश्यामि पापाशङ्कि च मे मनः ।। 4.9.16 ।।
अहं तं नष्टं ज्ञात्वा साग्रसंवत्सरमदृष्टं बुद्ध्वा स्नेहादागतसम्भ्रमो ऽभवम् । भ्रातरं च न पश्यामि नापश्यम् । ततः मे मनः पापाशङ्कि तन्मरणाशङ्कि जातम् ।। 4.9.16 ।।
अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम् ।
सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ।। 4.9.17 ।।
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ।
निरस्तस्य च सङ्ग्रामे क्रोशतो निस्वनो गुरोः ।। 4.9.18 ।।
रक्तं रक्तवर्णम् ।। 4.9.17,18 ।।
अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् ।
पिधाय च बिलद्वारं शिलया गिरिमात्रया ।
शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ।। 4.9.19 ।।
चिह्नैः मरणकालिकस्वरैः ।। 4.9.19 ।।
गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ।
ततो ऽहं तैः समागम्य सम्मतैरभिषेचितः ।। 4.9.20 ।।
राज्यं प्रशासतस्तस्य न्यायतो मम राघव ।
आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ।। 4.9.21 ।।
अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः ।
मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ।। 4.9.22 ।।
तत्त्वं यथार्थं वालिमरणं गूहमानस्य प्रच्छादयतः मे मत्तः यत्नतः बहुयत्नेन स्वविषयशापादिना श्रुतमासीत् ।। 4.9.2022 ।।
निग्रहे ऽपि समर्थस्य तं पापं प्रति राघव ।
न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयन्त्रिता ।। 4.9.23 ।।
पापम् अज्ञानकृतमिति सान्त्वनेपि धिक्करणात् पापिष्ठं तं प्रति निग्रहे समर्थस्य, प्रकृतिबलसम्पन्नत्वादिति भावः । यन्त्रिता नियमिता ।। 4.9.23 ।।
हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा ।
मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ।। 4.9.24 ।।
उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्माना ।। 4.9.25 ।।
प्रविवेश पुरमित्युक्त्या मन्त्रिबन्धनादिकं पुराद्वहिरिति ज्ञेयम् ।। 4.9.24,25 ।।
नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो ।
अपि वाली मम क्रोधान्न प्रसादं चकार सः ।। 4.9.26 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः ।। 9 ।।
नत्वेति । मम क्रोधान्मयि कोपात् ।। 4.9.26 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने नवमः सर्गः ।। 9 ।।