[highlight_content]

11 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकादशः सर्गः

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।

सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ।। 4.11.1 ।।

असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः ।

त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ।। 4.11.2 ।।

अथ सुग्रीवो वालिवधक्षमं रामबलं परीक्षितुकामस्तद्बलं दर्शयत्येकादशे रामस्येत्यादि । पूजयाञ्चक्रे अञ्जलिबन्धादिना । प्रशशंस तुष्टाव ।। 4.11.1,2 ।।

वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या ।

तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ।। 4.11.3 ।।

पौरुषं बलम् । अनन्तरं यत्कर्तव्यं तद्विधत्स्व ।। 4.11.3 ।।

समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् ।

क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ।। 4.11.4 ।।

समुद्रादिति । “ब्राह्मे मुहूर्त उत्थाय” इति ब्राह्ममुहूर्तस्य सन्ध्याकर्मकालत्वेन तस्मिन्नुत्थाय अनुदिते सूर्ये सन्ध्याकर्मकारणार्थं पश्चिमात्समुद्रात्पूर्वसमुद्रं दक्षिणात्समुद्रादुत्तरं समुद्रं च व्यपगतक्लमः सन् क्रामति । इदं व्यक्तमुत्तरकाण्डे । तारः “चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।।” इति। ननु कथं चतुर्ष्वप्येकसन्ध्याकरणम्? उच्यते एकस्मिन् तटाके पार्श्वभेद इव स्नानाचमनार्ध्यप्रदानजपानां कर्तुं शक्यात्वात् अनुदिते सूर्य इत्युत्तरावधिरभिहितः। पूर्वावधिस्तु ब्राह्मे मुहूर्त उत्थायेत्युनुष्ठानाङ्गत्वेन विहितः कालः। चतुःसमुद्रपरिक्रमस्यानुष्ठानार्थत्वम् “चतुर्भ्योऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण। इमं मुहुर्तमायाति वाली तिष्ठ मुहूर्तकम्।।” इत्युत्तरश्रीरामायणोक्ततारवचनादवगम्यते ।। 4.11.4 ।।

अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ।

ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ।। 4.11.5 ।।

अग्राणीति । कन्दुकानीवेति भावः ।। 4.11.5 ।।

बहवः सारवन्तश्च वनेषु विविधा द्रुमाः ।

वालिना तरसा भग्ना बलं प्रथयतात्मनः ।। 4.11.6 ।।

बहव इति । मक्षिकोत्सारणरीत्येति भावः । सारवन्तः स्थिरांशवन्तः । “सारो बले स्थिरांशे च ” इत्यमरः ।। 4.11.6 ।।

महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः ।

बलं नागसहस्रस्य धारयामास वीर्यवान् ।। 4.11.7 ।।

कैलासशिखरप्रभः तदाकार इत्यर्थः ।। 4.11.7 ।।

वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः ।

जगाम सुमहाकायः समुद्रं सरितां पतिम् ।। 4.11.8 ।।

ऊर्मिमन्तमतिक्रम्य सागरं रत्नस़ञ्चयम् ।

मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ।। 4.11.9 ।।

वीर्योत्सेकेन वीर्यगर्वेण दुष्टात्मा दुर्बुद्धिः अतिक्रम्य जगाम । पूर्वकालो न विवक्षितः । आक्रामन् जगामेत्यर्थः ।। 4.11.8,9 ।।

ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ।

अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ।। 4.11.10 ।।

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद ।

श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति ।। 4.11.11 ।।

समुत्थाय पुरुषवेषेणोत्थाय ।। 4.11.10,11 ।।

शैलराजो महारण्ये तपस्विशरणं परम् ।

शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः ।। 4.11.12 ।।

गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः ।

स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ।। 4.11.13 ।।

तं भीत इति विज्ञाय समुद्रमसुरोत्तमः ।

हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ।। 4.11.14 ।।

ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः ।

चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ।। 4.11.15 ।।

ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः ।

हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः ।। 4.11.16 ।।

क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल ।

रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ।। 4.11.17 ।।

तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः ।

उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ।। 4.11.18 ।।

परं तपस्विशरणं तपस्विनां परमावासस्थानम् नित्यनपुंसकम् । प्रस्रवणं निर्झरः । निर्दराः विदीर्णपाषाणरन्ध्राणि ।। 4.11.1218 ।।

यदि युद्धे ऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः ।

तमाचक्ष्व प्रदद्यान्मे यो ऽद्य युद्धं युयुत्सतः ।। 4.11.19 ।।

यदीति । त्वं युद्धासमर्थो यदि यदि वा समर्थो ऽपि मद्भयान्निरुद्यमः उभयथापि न त्वां योत्स्यामीत्यर्थः । युयुत्सतः योद्धुमिच्छतः ।। 4.11.19 ।।

हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः ।

अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ।। 4.11.20 ।।

वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः ।

अध्यास्ते वानरः श्रीमान् किष्कन्धामतुलप्रभाम् ।। 4.11.21 ।।

हिमवानिति । अनुक्तपूर्वम् इतः पूर्वं केनाप्यनुक्तं वाक्यम् । अत एव क्रोधात् ।। 4.11.20,21 ।।

स समर्थो महाप्राज्ञस्तव युद्धविशारदः ।

द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ।। 4.11.22 ।।

तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।

स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ।। 4.11.23 ।।

श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः ।

जगाम तं पुरीं तस्य किष्किन्धां वालिनस्तदा ।। 4.11.24 ।।

धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः ।

प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ।। 4.11.25 ।।

स इति । दातुं समर्थ इत्यन्वयः ।। 4.11.2225 ।।

ततस्तद्द्वारमागम्य किष्कन्धाया महाबलः ।

ननर्द कम्पयन् भूमिं दुन्धुभिर्दुन्दुभिर्यथा ।। 4.11.26 ।।

समीपस्थान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः ।

विषाणेनोल्लिखन् दर्पात्तद्द्वारं द्विरदो यथा ।। 4.11.27 ।।

तद्द्वारं किष्किन्धाद्वारम् । विषाणेन उल्लिखन् उद्भिन्दन् ।। 4.11.26,27 ।।

अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ।

निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ।। 4.11.28 ।।

अन्तःपुरगत इति । सह स्त्रीभिरिति मदातिरेकादिति भावः ।। 4.11.28 ।।

मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम् ।

हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ।। 4.11.29 ।।

किमर्थं नगरद्वारमिदं रुद्धा विनर्दसि ।

दुन्दुभे विदितो मे ऽसि रक्ष प्राणान् महाबलः ।। 4.11.30 ।।

तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः ।

उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ।। 4.11.31 ।।

व्यक्तान्यक्षराणि येषु तानि व्यक्ताक्षराणि पदानि यस्मिन् कर्मणि तद्व्यक्ताक्षरपदमिति क्रियाविशेषणम् । वनचारिणां भल्लूकादीनाम् ।। 4.11.2931 ।।

न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि ।

मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ।। 4.11.32 ।।

न त्वमिति । स्त्रीसन्निधौ वचनम् स्त्रीजनभ्रामकं वचनमित्यर्थः । 4.11.32 ।।

अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ।

गृह्यतामुदयः स्वैरं कामभोगेषु वानर ।। 4.11.33 ।।

उदयः सूर्योदयः । गृह्यताम् अवधित्वेन गृह्यताम् ।। 4.11.33 ।।

दीयतां सम्प्रदानं च परिष्वज्य च वानरान् ।

सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान् ।। 4.11.34 ।।

सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे ।

क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः ।। 4.11.35 ।।

सम्प्रदानं देयद्रव्यम्, वानरान् बन्धून् परिष्वज्य तेभ्यः सम्प्रदानं दीयतां चरमकालदानं दीयतामित्यर्थः । संसादय कञ्चिदपि कालं सङ्गच्छस्व, आत्मसमं राजानमित्यर्थः । क्रीडस्व क्रीड, अद्येति शेषः । दर्पनाशनः पश्चादिति शेषः ।। 4.11.34,35 ।।

यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् ।

हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ।। 4.11.36 ।।

यो हीति । मत्तं मधुपानादिना मत्तं प्रमत्तम् अनवहितं रहितम् आयुधादिशून्यं त्वद्विधं त्वामिव स्त्रीमध्यगतं मदमोहितं मदनमोहितं यो हन्यात्स श्रूणहा गर्भवधकृत् ।। 4.11.36 ।।

स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् ।

विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा ।। 4.11.37 ।।

स इति । मन्दं प्रहस्य धर्मान्वितवाक्यत्वादिति भावः । ताः विसृज्याब्रवीत् ।। 4.11.37 ।।

मत्तो ऽयमिति मा मंस्था यद्यभीतो ऽसि संयुगे ।

मदो ऽयं सम्प्रहारे ऽस्मिन् वीरपानं समर्थ्यताम् ।। 4.11.38 ।।

मत्त इति । संयुगे यद्यभीतो ऽसि तदा अयं मत्त इति मा मंस्थाः । अयं मदः अस्मिन् सम्प्रहारे युद्धे वीरपानं समर्थ्यतां वीरपानं कृतमिति मन्यताम् । वीरपानं नाम युद्धोपक्रमे उत्साहवर्धनाय वीरैः क्रियमाणं पानम् ।। 4.11.38 ।।

तमेवमुक्त्वा सङ्क्रुद्धो मालामुत्क्षिप्य काञ्चनीम् ।

पित्रा दत्तां महेन्द्रेण यद्धाय व्यवतिष्ठत ।। 4.11.39 ।।

उत्क्षिप्य अंसयोरुपरि विन्यस्य एतत्काञ्चनमालाधारणकाले यः पुरो युद्धायागच्छति तस्य बलं सर्वं तवैव भविष्यतीति महेन्द्रेण दत्तामित्यर्थः । व्यवतिष्ठत व्यवातिष्ठत ।। 4.11.39 ।।

विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम् ।

आविध्यत तदा वाली विनदन् कपिकुञ्जरः ।। 4.11.40 ।।

आविध्यत अभ्रामयत् ।। 4.11.40 ।।

वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम् ।

श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ।। 4.11.41 ।।

व्यापातयाञ्चक्रे भूमौ पातयामास । अथ पात्यतः पात्यमानस्य श्रोत्राभ्यां रक्तं सुस्राव । श्रोत्रमूलविषाणपीडनादिति भावः ।। 4.11.41 ।।

तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः ।

युद्धं समभवद्घोरं दुन्दुभेर्वानरस्य च ।। 4.11.42 ।।

अयुध्यत तदा वाली शक्रतुल्यपराक्रमः ।

मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा ।। 4.11.43 ।।

क्रोधसंरम्भात् क्रोधवेगात् ।। 4.11.42,43 ।।

परस्परं घ्नोतस्तत्र वानरासुरयोस्तदा ।

आसीददसुरो युद्धे शक्रसूनुर्व्यवर्धत ।। 4.11.44 ।।

व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः ।

तं तु दुन्दुभिमुत्पाट्य धरण्यामभ्यपातयत् ।। 4.11.45 ।।

परस्परमिति । घ्नतोः सतोः ।। 4.11.44,45 ।।

युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस्तदा ।

पपात च महाकायः क्षितौ पञ्चत्वमागतः ।। 4.11.46 ।।

प्राणहरे तस्मिन् युद्धे निष्पिष्टो दुन्दुभिः पञ्चत्वं भूतानां पृथग्भावम्, मरणमिति यावत् । आगतः प्राप्तः, पपात ।। 4.11.46 ।।

तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ।

चिक्षेप बलवान् वाली वेगेनैकेन योजनम् ।। 4.11.47 ।।

तोलयित्वा चालयित्वा एकेन वेगेन एकप्रयत्नेन ।। 4.11.47 ।।

तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः ।

प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ।। 4.11.48 ।।

वेगप्रविद्धस्य वेगेन क्षिप्तस्य ।। 4.11.48 ।।

तान् दृष्ट्वा पतितांस्तस्य मुनिः शोणितविप्रुषः ।

क्रुद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ।। 4.11.49 ।।

शोणितविप्रुष इति पुँल्लिङ्गत्वमार्षम् । तत्र शोणितबिन्दुविषये क्रुद्धः सन् कोन्वयमिति चिन्तयामास ।। 4.11.49 ।।

येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना ।

को ऽयं दुरात्मा दुर्बद्धिरकृतात्मा च बालिशः ।। 4.11.50 ।।

इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः ।

महिषं पर्वताकारं गतासुं पतितं भुवि ।। 4.11.51 ।।

को न्वयमित्येतद्विवृणोति येनेति । स्पृष्टः अन्तर्भावितण्यर्थः । दुरात्मा दुःस्वभावः अत एव दुर्बुद्धिः । अकृतात्मा अवशीकृतान्तःकरणः । बालिशः मूर्खः ।। 4.11.50,51 ।।

स तु विज्ञाय तपसा वानरेण कृतं हि तत् ।

उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ।। 4.11.52 ।।

स त्विति । तपसा तपोमाहात्म्येन ।। 4.11.52 ।।

इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् ।

वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः ।

सम्भग्नाः पादपाश्चेमे क्षिपतेहासुरीं तनुम् ।। 4.11.53 ।।

इहेति । अप्रवेष्टव्यम् न प्रवेष्टव्यमित्यर्थः । सम्भग्ना इति । आसुरीं तनुमिह क्षिपतेत्यन्वयः ।। 4.11.53 ।।

समन्ताद्योजनं पूर्णमाश्रमं मामकं यदि ।

आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ।। 4.11.54 ।।

स न भविष्यति नश्यतीत्यर्थः ।। 4.11.54 ।।

ये चापि सचिवास्तस्य संश्रिता मामकं वनम् ।

न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ।। 4.11.55 ।।

ये चेति । तस्य वालिनः ।। 4.11.55 ।।

यदि ते ऽपीह तिष्ठन्ति शपिष्ये तानपि ध्रुवम् ।

वने ऽस्मिन् मामके नित्यं पुत्रवत्परीरक्षिते ।। 4.11.56 ।।

पत्त्राङ्कुरविनाशाय फलमूलाभवाय च ।। 4.11.57 ।।

यदीति । अस्मिन् वने पत्त्राङ्कुरविनाशाय फलमूलाभवाय च यदीह तिष्ठन्तीत्यन्वयः ।। 4.11.56,57 ।।

दिवसश्चास्य मर्यादा यं द्रष्टा श्वो ऽस्मि वानरम् ।

बहुवर्षसहस्राणि स वै शैलो भविष्यति ।। 4.11.58 ।।

दिवस इति । अस्य शापस्य । एको ऽयं दिवसो मर्यादा । श्वः परेद्युः यं द्रष्टास्मि सः शैलो भविष्यति ।। 4.11.58 ।।

ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् ।

निश्चक्रमुर्वनात्तस्मात्तान् दृष्ट्वा वालिरब्रवीत् ।। 4.11.59 ।।

ततस्त्विति । गिरं शापम् ।। 4.11.59 ।।

किं भवन्तः समस्ताश्च मतङ्गवनवासिनः ।

मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ।। 4.11.60 ।।

किं भवन्त इति । वनौकसां वानरेभ्यः ।। 4.11.60 ।।

ततस्ते कारणं सर्वं तदा शापं च वालिनः ।

शशंसुर्वानराः सर्वे वालिने हेममालिने ।। 4.11.61 ।।

ततस्ते कारणमिति । कारणं दुन्दुभिपतनम् ।। 4.11.61 ।।

एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् ।

स महर्षिं तदासाद्य याचते स्म कृताञ्जलिः ।। 4.11.62 ।।

एतच्छ्रुत्वेति । स्पष्टम् ।। 4.11.62 ।।

महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा ।

शापधारणभीतस्तु वाली विह्वलतां गतः ।। 4.11.63 ।।

ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् ।

प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ।। 4.11.64 ।।

तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् ।

विचरामि सहामात्यो विषादेन विवर्जितः ।। 4.11.65 ।।

महर्षिरिति । विह्वलातां गत इति, जगामेति शेषः ।। 4.11.6365 ।।

एषोस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते ।

वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ।। 4.11.66 ।।

एष इति । अस्थिनिचयः शुष्ककाय इति यावत् ।। 4.11.66 ।।

इमे च विपुलाः सालाः सप्त शाखावलम्बिनः ।

यत्रैकं घटते वाली निष्प्रत्त्रयितुमोजसा ।। 4.11.67 ।।

एतदस्यासमं वीर्यं मया राम प्रकीर्तितम् ।

कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ।। 4.11.68 ।।

इमे चेति । विपुलाः स्थूलाः शाखावलम्बिनः लम्बितशाखाः, शाखावृतत्वेन दुर्ज्ञेयलक्ष्या इत्यर्थः । यत्र सालेषु एकं सालम् ओजसा नतु धनुषा निष्पत्त्रयितुं निर्गतशरपत्त्रं कर्तुं घटते शक्नोति । एकं सालं भित्त्वा शरो निष्पत्त्रं यथा तथा वृक्षान्तरासक्तमूलं गच्छति तथा वेद्धुं समर्थ इत्यर्थः । धनुर्विना केवलबाणेन एकं सालं विध्यतीत्यर्थः । यद्वा वेद्धुं शक्तः नतु कदाचित्तथा कृतवानिति घटत इति पदेन व्यज्यते । एवमुत्तरत्रापि योज्यम् । यद्वा स्वजातिविरुद्धत्वेन युद्धे धनुर्गहणाभावे ऽपि लीलार्थं धनुरस्तीति ध्येयम् ।। 4.11.67,68 ।।

तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणो ऽब्रवीत् ।

कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ।। 4.11.69 ।।

तथेति । कस्मिन्निति । मुहूर्तेन चतुःसमुद्रगमने उत्क्षिप्तपर्वतशिखरग्रहणे दुन्दुभिकायोत्क्षेपणे सालभेदने वेत्यर्थः ।। 4.11.69 ।।

तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा ।

एवमेकैकशो वाली विव्याधाथ स चासकृत् ।। 4.11.70 ।।

तमिति । पुरा वाली इमान् सप्त सालान् विव्याध । अथ च अनन्तरमपि एवमेकैकशः असकृद्विव्याधेति योजना । यद्वा स वाली एवंविधानिमान् सप्त सालान् एकैकशः पुरा विव्याध अनन्तरमप्यसकृद्विव्याध ।। 4.11.70 ।।

रामो ऽपि दारयेदेषां बाणेनैकेन चेद्द्रुमम् ।

वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ।। 4.11.71 ।।

राम इति । एषां मध्ये एकं द्रुमम् एकेन बाणेन यदि विदारयेत् तदा तादृशं

विक्रमं दृष्ट्वा वालिनं निहतं मन्ये ।। 4.11.71 ।।

हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण ।

उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुःशते ।। 4.11.72 ।।

उद्यम्य प्रकोष्ठेनोत्क्षिप्य द्वे धनुःशते धनुःशतद्वयदूरम् । धनुर्नाम चतुर्हस्तमानम् । “किष्कुः स्यादवटो हस्तश्चतुर्विंशतिरङ्गुलः । चतुर्हस्तो धनुर्दण्डो धनुर्धन्वन्तरं युगम् ।।” इति वैजयन्ती। एवं सुग्रीवस्तमुवाचेति पूर्वेणान्वयः ।। 4.11.72 ।।

एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् ।

ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोब्रवीत् ।। 4.11.73 ।।

शूरश्च शूरघाती च प्रख्यातबलपौरुषः ।

बलवान् वानरो वाली संयुगेष्वपराजितः ।। 4.11.74 ।।

दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि ।

यानि सञ्चिन्त्य भीतो ऽहमृश्यमूकं समाश्रितः ।। 4.11.75 ।।

तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् ।

विचिन्तयन्न मुञ्चामि ऋश्यमूकमहं त्विमम् ।। 4.11.76 ।।

एवमविश्वासकरणे सुहृद्दुर्मनायेतेत्यालोच्य यथा रामः सन्तुष्यति तथा वदति एवमुक्त्वेत्यादिना ।। 4.11.7376 ।।

उद्विग्नः शङ्कितश्चापि विचरामि महावने ।

अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः ।। 4.11.77 ।।

उपलब्धं च मे श्लाध्यं सन्मित्रं मित्रवत्सल ।

त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ।। 4.11.78 ।।

किन्तु तस्य बलज्ञो ऽहं दुर्भ्रातुर्बलशालिनः ।

अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ।। 4.11.79 ।।

उद्विग्न इति । उद्विग्नः भीतः ।। 4.11.7779 ।।

न खल्वहं त्वां तुलये नावमन्ये न भीषये ।

कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम ।। 4.11.80 ।।

नेति । स्पष्टम् ।। 4.11.80 ।।

कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ।

सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ।। 4.11.81 ।।

[ स्निग्धानां प्रीतियुक्तानां सुहृदां सुहृदं प्रति ।

कातरं हृदयं राम प्रत्ययं नाधिगच्छति ।।

यदि बाणेन भेत्ता त्वं सालान् सप्ताद्य राघव ।

वालिनं समरे हन्तुं समर्थः स्यात्ततो भवान् ।। ]

तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ।

स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ।। 4.11.82 ।।

काममिति । वाणी एकरूपं वचनं प्रमाणं बुद्धिः धैर्यम् अचञ्चलता आकृतिर्वेषश्च भस्मच्छन्नमनलमिव स्थितं ते परं तेजः कामम् अतिशयेन सूचयन्ति । अथापि मे कातर्यं जनितमिति पूर्वेणान्वयः ।। 4.11.81,82 ।।

यदि न प्रत्ययो ऽस्मासु विक्रमे तव वानर ।

प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ।। 4.11.83 ।।

यदीति । विक्रमे विषये प्रत्ययं विश्वासम् । समरे विषये ।। 4.11.83 ।।

एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः ।

राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ।

तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ।। 4.11.84 ।।

एवमिति । सान्त्वमित्यनेन प्रत्ययप्रश्नेन सुग्रीवस्य दुःखितत्वं द्योत्यते । पादाङ्गुष्ठेन अनुद्धृतेन तोलयित्वा चालयित्वा ।। 4.11.84 ।।

असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान् ।

क्षिप्तं दृष्ट्वा ततः कायं सुगीवः पुनरब्रवीत् ।। 4.11.85 ।।

असुरस्येति । तनुं पूर्वापेक्षया स्वल्पम् । कायं शरीरम् ।। 4.11.85 ।।

लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।। 4.11.86 ।।

कथं कमित्यत्राह लक्ष्मणस्येति ।। 4.11.86 ।।

आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ।

लघुः संम्प्रति निर्मांसस्तृणभूतश्च राघव ।। 4.11.87 ।।

आर्द्र इति । आर्द्रः सरक्तः । प्रत्यग्रः यत्किञ्चित् प्राणचेष्टायुक्तः । लघुत्वं सदृष्टान्तमाह तृणभूत इति ।। 4.11.87 ।।

परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा ।

क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन ।

नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ।। 4.11.88 ।।

एवं प्रक्षेपेप्यवैषम्यमुक्त्वा प्रक्षेप्तृतारतम्यमाह परिश्रान्तेनेति । एवं प्रहर्षेण एवंविधप्रहर्षवता । नात्रेति । अत्र दुन्दुभिकायक्षेपकर्मणि तव वा तस्य वा अधिकं बलमिति ज्ञातुं न शक्यम् ।। 4.11.88 ।।

आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम् ।

स एव संशयस्तात तव तस्य च यद्बले ।। 4.11.89 ।।

पुनः सङ्ग्रहेणाह आर्द्रमिति । आर्द्रं शुष्कमित्येतत्सुमहत् अन्तरं तारतम्यं यद्यस्मादस्ति अतस्तव च तस्य च बले युवयोर्बलतारतम्ये स एव संशयो वर्तते, संशयो न निवृत्त इत्यर्थः ।। 4.11.89 ।।

सालमेकं तु निर्भिन्द्या भवेद्व्यक्तिर्बलाबले ।। 4.11.90 ।।

कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवाततम् ।

आकर्णपूर्णमायम्य विसृजस्व महाशरम् ।। 4.11.91 ।।

सालमिति । निर्भिन्द्याः भञ्जय । व्यक्तिः विशेषज्ञानम् ।। 4.11.90,91 ।।

इमं हि सालं सहितस्त्वया शरो न संशयो ऽत्रास्ति विदारयिष्यति ।

अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजात्मज शापितो मया ।। 4.11.92 ।।

पुनर्निर्बन्धेन कुपितो भवेदिति सान्त्वयति इममिति । संहितः संहितः “समो वा हितततयोः” इति मलोपः । शरो विदारयिष्यति । विमर्शेन पुनः किमर्थं प्रत्ययोत्पादनमिति विमर्शेन । मम प्रियं नतु त्वत्परीक्षार्थम् ।। 4.11.92 ।।

यथा हि तेजस्सु वरः सदा रविर्यथा हि शैलो हिमवान् महाद्रिषु ।

यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ।। 4.11.93 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकादशः सर्गः । 11 ।।

यथेति । तेजस्सु तेजस्विषु । विक्रमे स्थितानामिति शेषः । अस्मिन् सर्गे त्र्युत्तर नवतिश्लोकाः ।। 4.11.93 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकादशः सर्गः ।। 11 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.