श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तदशः सर्गः
ततः शरेणाभिहतो रामेण रणकर्कशः ।
पपात सहसा वाली निकृत्त इव पादपः ।। 4.17.1 ।।
अथ रामं प्रति वालिनिन्दा सप्तदशे ततः शरेणेत्यादि । आरम्भणार्थो ऽयमनुवादः ।। 4.17.1 ।।
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः ।
अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ।। 4.17.2 ।।
तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे ।
नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ।। 4.17.3 ।।
स भूमाविति । रश्मिः बन्धनरज्जुः ।। 4.17.2,3 ।।
भूमौ निपतितस्यापि तस्य देहं महात्मनः ।
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ।। 4.17.4 ।।
भूमाविति । तेजः प्रतापः ।। 4.17.4 ।।
शक्रदत्ता वरा माला काञ्चनी वज्रभूषिता ।
दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ।। 4.17.5 ।।
उक्ते ऽर्थे हेतुमाह शक्रेति ।। 4.17.5 ।।
स तया मालया वीरो हैमया हरियूथपः ।
सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ।। 4.17.6 ।।
स इति । हैमयेति ङीबभाव आर्षः ।। 4.17.6 ।।
तस्य माला च देहश्च मर्मघाती च यः शरः ।
त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ।। 4.17.7 ।।
तस्येति । लक्ष्मीः तेजः ।। 4.17.7 ।।
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।
रामबाणासनक्षिप्तमावहत्परमां गतिम् ।। 4.17.8 ।।
स्वर्गमार्गस्य प्रभावनं प्रापकम् । “भू प्राप्तौ” इत्यस्माल्ल्युट् । अत एव परमां गतिम् आवहत् सम्पादयामासेत्यर्थः ।। 4.17.8 ।।
तं तदा पतितं सङ्ख्ये गतार्चिषमिवानलम् ।
बहु मान्य च तं वीरं वीक्षमाणं शनैरिव ।। 4.17.9 ।।
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ।
आदित्यमिव कालेन युगान्ते भुवि पातितम् ।। 4.17.10 ।।
महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम् ।
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ।। 4.17.11 ।।
सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।
लक्ष्मणानुगतो रामो ददर्शोपससर्प च ।। 4.17.12 ।।
तं तदेत्यादिचत्वारः । सङ्ख्ये युद्धे । तं वीरं रामं बहुमान्य साधु बाणं पातितवानसीति श्लाघयित्वा स कुत्र स्थित इति शनैः वेदनातिशयान्मन्दं वीक्षमाणम् । इवशब्दो वाक्यालङ्कारे । ययातिमिव कालेन दैवेन । “कालः श्यामलदिष्टयोः” इति दर्पणः । महेन्द्रमिव दुःसहम् आभिमुख्येन स्थातुमशक्यम् । सिंहेति । दीप्तास्यं दीप्तमुखम् । हरिलोचनं कपिलनेत्रम् ।। 4.17.912 ।।
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् ।
अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ।। 4.17.13 ।।
प्रश्रितं विनयान्वितम् इत्येव पाठक्रमः साधुः ।। 4.17.13 ।।
त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः ।
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः ।। 4.17.14 ।।
पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः ।
यदहं युद्धसंरब्धः शरेणोरसि ताडितः ।। 4.17.15 ।।
प्रश्रितं वचनमाह त्वमित्यादिना । प्रियदर्शनः प्रियं दर्शनं शास्त्रं यस्य सः । “दर्शनं दृशि शास्त्रे स्यात्” इति दर्पणः । पराङ्मुखवधं परयुद्धासक्तवधम् । गुणः उत्कर्षः । युद्धसंरब्धः अन्ययुद्धपराङ्मुख इत्यर्थः ।। 4.17.14,15 ।।
रामः करुणवेदी च प्रजानां च हिते रतः ।
सानुक्रोशो जितोत्साहः समयज्ञो दृढव्रतः ।
इति ते सर्वभूतानि कथयन्ति यशो भुवि ।। 4.17.16 ।।
करुणवेदी कारुण्यज्ञः । सानुक्रोशः सदयः । समयज्ञः आचारज्ञः । ते यश इत्यन्वयः ।। 4.17.16 ।।
दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः ।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ।। 4.17.17 ।।
दम इति । “शमश्चित्तप्रशान्तिः स्याद्दम इन्द्रियनिग्रहः” ।। 4.17.17 ।।
तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव ।
तारया प्रतिषिद्धो ऽपि सुग्रीवेण समागतः ।। 4.17.18 ।।
अभिजनमाभिजात्यम् । समागतः युद्धं कृतवानस्मीत्यर्थः ।। 4.17.18 ।।
न मामन्येन संरब्धं प्रमत्तं योद्धुमर्हति ।
इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ।। 4.17.19 ।।
न मामिति । प्रमत्तं युद्धपरवशम् । अर्हसि उक्तगुणो राम इति शेषः । अदर्शने तव दर्शने त्वेवमभूदिति भावः ।। 4.17.19 ।।
न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् ।
जाने पापसमाचारं तृणैः कूपमिवावृतम् ।। 4.17.20 ।।
न त्वामिति । विनिहतात्मानं विशेषेण निहतबुद्धिम् । धर्मध्वजं धर्मलिङ्गम् । वस्तुतो धर्मरहितमित्यर्थः ।। 4.17.20 ।।
सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ।
नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ।। 4.17.21 ।।
एतदेव स्पष्टयति सतामिति । धर्मच्छद्माभिसंवृतं धर्मव्याजयुक्तम् ।। 4.17.21 ।।
विषये वा पुरे वा ते यदा नापकरोम्यहम् ।
न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ।। 4.17.22 ।।
फलमूलाशनं नित्यं वानरं वनगोचरम् ।
मामिहाप्रतियुद्ध्यन्तमन्येन च समागतम् ।। 4.17.23 ।।
विषय इति । यदा नापकरोमि यस्मान्नापाकरवं त्वां नावजाने, त्वय्यवमानं नाकरवमित्यर्थः । तस्मादकिल्बिषं मां किमर्थं हंसीति सम्बन्धः । फलेत्यस्य श्लोकस्य मामिति पूर्वेण सम्बन्धः ।। 4.17.22,23 ।।
लिङ्गमप्यस्ति ते राजन् दृश्यते ऽधर्मसंहितम् ।। 4.17.24 ।।
कः क्षत्ित्रयकुले जातः श्रुतवान्नष्टसंशयः ।
धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् ।। 4.17.25 ।।
लिङ्गमिति । हे राजन् अधर्मसंहितम् अधर्मकृतं लिङ्गमपि ते अस्ति दृश्यते च स्पष्टमवगम्यते चेत्यर्थः । कुत इत्यत्राह क इति ।। 4.17.24,25 ।।
राम राजकुले जातो धर्मवानिति विश्रुतः ।
अभव्यो भव्यरूपेण किमर्थं परिधावसि ।। 4.17.26 ।।
रामेति । अभव्यः क्रूरः भव्यरूपेण सौम्यरूपेण परिधावसि चरसि ।। 4.17.26 ।।
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ।। 4.17.27 ।।
साम सान्त्वनम् ।। 4.17.27 ।।
वयं वनचरा राम मृगा मूलफलाशनाः ।
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ।। 4.17.28 ।।
लोके कस्यचिद्वधे अपराधस्तदर्थलाभेच्छा वा हेतुर्भवेत् । तत्र नाद्य इत्याह वयमिति । पुरुषः मनुष्यः न च केवलमनुष्यः अपि तु नरेश्वरः ।। 4.17.28 ।।
भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च ।
अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ।। 4.17.29 ।।
द्वितीयो ऽपि नेत्याह भूमिरिति । लोके भूम्यादीनि कलहे कारणानि भवन्ति । अत्र अन्येषु वा मदीयेषु फलेषु ते को लोभः किंविषयेच्छा वर्तते ।। 4.17.29 ।।
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ।
राजवृत्तिरसङ्कीर्णा न नृपाः कामवृत्तयः ।। 4.17.30 ।।
नयो ऽनुग्रहश्च सद्राजधर्मौ । विनयो विपरीतनयः निग्रहश्च कुराजधर्मौ । इत्येषा राजवृत्तिरसङ्कीर्णा ग्राह्या । तथा च नृपाः कामवृत्तयो न स्युः । स्वेच्छया नयो विनियश्च निग्रहो ऽनुग्रहश्च राजभिर्न कार्या इत्यर्थः ।। 4.17.30 ।।
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः ।
राजवृत्तैश्च सङ्कीर्णः शरासनपरायणः ।। 4.17.31 ।।
अनवस्थितः अमर्यादः राजवृत्तैः राजचरितैः हेतुभिः सङ्कीर्णः सङ्कीर्णराजवृत्त इत्यर्थः । शरासनपरायणः यदृच्छया यं हन्तुमिच्छसि तं हंसीत्यर्थः ।। 4.17.31 ।।
न ते ऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता ।
इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर ।। 4.17.32 ।।
अपचितिः पूजा । धर्मे श्रद्धा नास्तीत्यर्थः । अवस्थिता व्यवस्थिता, परद्रव्याभिलाषिणीत्यर्थः । कामे च न व्यवस्थेत्याह इन्द्रियैरिति ।। 4.17.32 ।।
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ।
किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ।। 4.17.33 ।।
हत्वेति । मां हत्वा स्थितः त्वं जुगुस्पितं कर्म कृत्वा सतां साधुकर्मकारिणां मध्ये किं वक्ष्यसि ।। 4.17.33 ।।
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः ।
नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ।। 4.17.34 ।।
परिवेत्ता ज्येष्ठे ऽनूढे दारपरिग्रहकृत् । “परिवेत्ता ऽनुजो ऽनूढे ज्येष्ठे दारपरिग्रहात् ।” इत्मयरः । निरयगामिनः नरकगामिनः ।। 4.17.34 ।।
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः ।
लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ।। 4.17.35 ।।
सूचकश्चेति । सूचकः पिशुनः । कदर्थः लुब्धः । गच्छन्ते गच्छन्ति ।। 4.17.35 ।।
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् ।
अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ।। 4.17.36 ।।
किमेवं निन्दसि? मृगयायां मृगवधस्यादोषत्वादित्यत्राह अधार्यमिति । मृगचर्मवत् मे चर्म न धार्यम् । मे रोमाणि ऊर्णादिवन्नास्तरणार्हाणि । मे अस्थि च गजास्थिवत् न स्पृश्यम् । मांसानि च न भक्ष्याणि । अतः किमर्थं मां हतवानसि ।। 4.17.36 ।।
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्त्रेण राघव ।
शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ।। 4.17.37 ।।
अभक्ष्यता कुत इत्यत्राह पञ्चेति । शल्यकः, श्वाविधः, गोधा, शशः, कूर्मश्चेति पञ्चनखाः पञ्च भक्ष्याः । पञ्चनखेषु जन्तुषु एते पञ्चैव भक्ष्याः नान्य इत्यर्थः । परिसङ्ख्याविधिरयम् । ब्रह्मक्षत्रेणेत्युपलक्षणं, त्रैवर्णिकेनेत्यर्थः । शलतीति शल्यः “शल, श्वल्ल आशुगमने” इत्यस्माद्धातोः “सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलधिष्ण्यशल्याः” इति निपातनाद्यत्प्रत्ययः । ततः स्वार्थे कः । यद्वा शल्यं शङ्कुः । “वा पुंसि शल्यं शङ्कुर्ना” इत्यमरः । तत्सदृशानि रोमाणि शल्यानि तद्वान् शल्यः । अर्शआद्यजन्तः । ततः स्वार्थे कः । श्वानं विध्यतीति श्वाविधः पचाद्यच् । “अन्येषामपि” इति दीर्घः । [श्वाविड इति पाठे पृषोदरादित्वाड्डकारः सम्प्रसारणम् ।] इमौ वराह विशेषौ ।। 4.17.37 ।।
चर्म चास्थि च मे राजन् न स्पृशन्ति मनीषिणः ।
अभक्ष्याणि च मांसानि सो ऽहं पञ्चनखो हतः ।। 4.17.38 ।।
तारया वाक्यमुक्तो ऽहं सत्यं सर्वज्ञया हितम् ।
तदतिक्रम्य मोहेन कालस्य वशमागतः ।। 4.17.39 ।।
उपसंहरति चर्म चेति । सो ऽहम् अभक्ष्यपञ्चनखान्तर्भूतो ऽहम् ।। 4.17.38,39 ।।
त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा ।
प्रमदा शीलसम्पन्ना धूर्तेन पतिना यथा ।। 4.17.40 ।।
त्वयेति । पतिना पत्या ।। 4.17.40 ।।
शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ।
कथं दशरथेन त्वं जातः पापो महात्मना ।। 4.17.41 ।।
शठ इति । शठः गूढविप्रियकृत् । निकृत्या अपकारेण जीवतीति नैकृतिकः । क्षुद्रः क्षुद्रकर्मकारी । मिथ्याप्रश्रितमानसः मिथ्याशान्तमनस्कः ।। 4.17.41 ।।
छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना ।
त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ।। 4.17.42 ।।
छिन्नेति । छिन्ना चारित्रमेव कक्ष्या इभबन्धनं येन स तथा । सतां धर्मातिवर्तिना सतां धर्माः पूर्वोक्ताः सामदानसापराधिजनदण्डनादयः तानतीत्य वर्तत इति तथा । गजविषये अतिक्रान्तमर्यादेनेत्यर्थः ।। 4.17.42 ।।
अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् ।
वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः ।। 4.17.43 ।।
अशुभमिति । ईदृशं कृत्वा स्थितस्त्वं सद्भिः ईदृशम् अशुभत्वादिविशिष्टं वक्ष्यसे, अशुभकारीत्येवं वक्ष्यसीत्यर्थः ।। 4.17.43 ।।
उदासीनेषु यो ऽस्मासु विक्रमस्ते प्रकाशितः ।
अपकारिषु तं राजन्नहि पश्यामि विक्रमम् ।। 4.17.44 ।।
उदासीनेष्वति । अपकारिषु रावणादिषु ।। 4.17.44 ।।
दृश्यमानस्तु युध्येथा मया यदि नृपात्मज ।
अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ।। 4.17.45 ।।
“दृश्यमानस्तु युध्येथा” इति पाठः ।। 4.17.45 ।।
त्वया ऽदृश्येन तु रणे निहतो ऽहं दुरासदः ।
प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ।। 4.17.46 ।।
त्वयेति । अदृश्येनेति च्छेदः ।। 4.17.46 ।।
मामेव यदि पूर्वं त्वमेतदर्थमचोदयः ।
मैथिलीमहमेकाह्ना तव चानीतवान् भवेत् ।।
[ राक्षसं च दुरात्मानं तव भार्यापहारिणम् ।। ] ।। 4.17.47 ।।
एतदर्थं मैथिल्यानयनार्थं भवेत् भवेयम्, पुरुषव्यत्यय आर्षः ।। 4.17.47 ।।
सुग्रीवप्रियकामेन यत्कृते ऽस्मि हतस्त्वया ।
कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे ।। 4.17.48 ।।
यत्कृते यस्य रावणस्य कृते हतोस्मि तं कण्ठे बद्ध्वा ते प्रदद्यामिति योजना । सुग्रीवसख्यनिमित्तभूतं मैथिल्यानयनं च तारया पूर्वं निवेदितमिति ज्ञेयम् ।। 4.17.48 ।।
न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् ।
आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव ।। 4.17.49 ।।
न्यस्तामिति । श्वेतामश्वतरीमिव मधुकैटभाभ्यां पाताले निरुद्धां श्वेताश्वतरीरूपां श्रुतिं हयग्रीव इवेत्यर्थः ।। 4.17.49 ।।
युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि ।
अयुक्तं यदधर्मेण त्वयाहं निहतो रणे ।। 4.17.50 ।।
युक्तमिति । राज्यार्थं सुग्रीवो मां हतवानित्येतद्युक्तम् । त्वं तु मां हतवानित्येतत्त्वयुक्तमित्यर्थः । ज्ञातीनामेवंविधकृत्यस्य स्वाभाविकत्वादिति भावः ।। 4.17.50 ।।
काममेवंविधो लोकः कालेन विनियुज्यते ।
क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ।। 4.17.51 ।।
काममिति । लोकः एवंविधे मरणरूणे कर्मणि विनयुज्यते । जातस्य मरणं स्वभाव इत्यर्थः । भवता प्राप्तम् अदृश्यतया प्रहरणं क्षमं चेत् तत्र साधूत्तरं चिन्त्यतामित्यर्थः ।। 4.17.51 ।।
इत्येवमुक्त्वा परिशुष्कवक्रः शराभिघाताद्व्यथितो महात्मा ।
समीक्ष्य रामं रविसन्निकाशं तूष्णीं बभूवामरराजसूनुः ।। 4.17.52 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तदशः सर्गः ।। 17 ।।
इतीति । परिशुष्कवक्त्रः बहुभाषणक्लेशादिति भावः । अस्मिन् सर्गे द्विपञ्चाशच्छ्लोकाः ।। 4.17.52 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तदशः सर्गः ।। 17 ।।