श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टादशः सर्गः
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।
परुषं वालिना रामो निहतेन विचेतसा ।। 4.18.1 ।।
अथ रामस्योत्तरमष्टादशे इत्युक्त इत्यादि । वालिना इत्युक्त इत्यन्वयः । विचेतसेत्यनेन परुषवचनमज्ञानकृतमित्युच्यते ।। 4.18.1 ।।
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् ।
उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ।। 4.18.2 ।।
धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् ।
अधिक्षिप्तस्तदा रामः पश्चाद्वालिमब्रवीत् ।। 4.18.3 ।।
तमित्यादि द्वौ । तदा पूर्वम् अधिक्षिप्तो रामः धर्मार्थगुणसम्पन्नम् अनुत्तमं यथा भवति तथा पश्चाद्वालिनमब्रवीदिति योजना ।। 4.18.2,3 ।।
धर्ममथ च कामं च समयं चापि लौकिकम् ।
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ।। 4.18.4 ।।
धर्ममिति । समयम् आचारम् । “समयाः शपथाचारकालसिद्धान्तसंविदः ।” इत्यमरः । बाल्यात् अज्ञानात् ।। 4.18.4 ।।
अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान् ।
सौम्य वानरचापल्यात्किं मां वक्तुमिहेच्छसि ।। 4.18.5 ।।
अपृष्ट्वेति । अपृष्ट्वा धर्मादिकमिति शेषः । वानरचापल्यात् वानरत्वकृतचापल्यात् ।। 4.18.5 ।।
इक्ष्वाकूणामियं भूमिः सशैलवनकानना ।
मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ।। 4.18.6 ।।
इक्ष्वाकूणामिति । इयं जम्बूद्वीपात्मिका । लोके कस्यचित् भूमेः स्वत्वे ऽपि शैलवनादिकमाक्रम्यान्ये भूमिं पीडयन्ति तद्व्यावृत्यर्थमाह सशैलेति । काननं महारण्यम् । मृगादिनिग्रहानुग्रहावपि इक्ष्वाकूणामेव कृत्यमिति शेषः ।। 4.18.6 ।।
तां पालयति धर्मात्मा भरतः सत्यवागृजुः ।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ।। 4.18.7 ।।
तामिति । तां भूमिम् ।। 4.18.7 ।।
नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम् ।
विक्रमश्च यथादृष्टः स राजा देशकालवित् ।। 4.18.8 ।।
नयश्चेति । नयो नीतिः, विनयः शिक्षा, ताविभौ सत्यं च यथादृष्टः शास्त्रविहितः विक्रमश्च । एतत्सर्वं यस्मिन् सुस्थितं देशकालवित् स भरतो राजेति योजना ।। 4.18.8 ।।
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः ।
चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः ।। 4.18.9 ।।
धर्मकृतादेशाः धर्मकृतनियोगाः । कथं कनिष्ठेन ज्येष्ठनियोग इत्यपेक्षायां राजधर्मो ऽयमित्याशयेनोक्तं धर्मपदम् । धर्मसन्तानं धर्मवृद्धिम् । यद्यपि भरतेन नादेशः कृतः तथापि नेदमसत्यं यथाकथञ्चित् भरतेन राज्यभरणस्य स्वीकृतत्वात्तदन्येषां तत्कुलीनानां तदादिष्टत्वं सिद्धमिति हृदयम् । अत एवायोध्याकाण्डे दर्शितम् “त्वं राजा” इति ।। 4.18.9 ।।
तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले ।
पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् ।। 4.18.10 ।।
धर्मनिग्रहं धर्महानिम् ।। 4.18.10 ।।
ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः ।
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ।। 4.18.11 ।।
ते वयमिति । धर्मविभ्रष्टं, जनमिति शेषः ।। 4.18.11 ।।
त्वं तु सङ्क्लिष्टधर्मा च कर्मणा च विगर्हितः ।
कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ।। 4.18.12 ।।
ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ।
त्रयस्ते पितरो ज्ञेया धर्मे पथि हि वर्तिनः ।। 4.18.13 ।।
सङ्क्लिष्टधर्मा धर्मविलोपकृत् । कर्मणा च विगार्हित इति अकृत्यकारीत्यर्थः ।। 4.18.12,13 ।।
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः ।
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् ।। 4.18.14 ।।
यवीयानिति । आत्मन इति त्रिष्वप्यन्वेति । गुणोदित इति च । ते त्रयः पुत्रवञ्चिन्त्याः । पुत्रशब्दो ऽत्र दृष्टान्तार्थः । यथा पुत्रे पुत्रवद्वर्तते तथान्ययोरपि वर्तितव्यमित्यर्थः । पुत्रे पुत्रवद्वृत्तिर्नाम सम्यक्स्नेह । “गगनं गगनाकारम्” इतिवत् । एवं चिन्त्यत्वे किं प्रमाणम्? तत्राह धर्मश्चेदिति । अत्र अस्मिन्नर्थे धर्मः कारणं व्यवस्थापकं चेत् यदि धर्मो नानुवर्तनीयः तदा नैवं द्रष्टव्यम् । अनुवर्तनीयश्चेत् अवश्यमेवं द्रष्टव्यमिति चेच्छब्दस्य भावः ।। 4.18.14 ।।
सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम ।
हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ।। 4.18.15 ।।
सूक्ष्मः अतीन्द्रियः । अत एव सतामपि परमदुर्ज्ञेयः, किमुत भवादृशस्येति भावः । यद्वा जनस्य धर्माधर्मकरणं न को ऽपि वेत्तुमर्हति । तर्हि को वेत्तीत्यत्राह हृदिस्थ इति । सर्वभूतानां हृदिस्थः सर्वान्तर्यामी । अलुक् । आत्मा परमात्मा । शुभाशुभं शुभाशुभकरणं वेत्तीत्यर्थः । सूक्ष्मं धर्मं परमात्मना मया विना को वेत्तुं दक्ष इति भावः ।। 4.18.15 ।।
चपलश्चपलैः साध वानरैरकृतात्मभिः ।
जात्यन्ध इव जात्यन्धैर्मन्त्रयन् द्रक्ष्यसे नु किम् ।। 4.18.16 ।।
त्वया तु न शक्य इत्याह चपल इति । किं नु द्रक्ष्यसे न किमपि द्रक्ष्यसीत्यर्थः ।। 4.18.16 ।।
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते ।
न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ।। 4.18.17 ।।
अहमिति । अस्य वचनस्य “यवीयानात्मनः” इति पूर्वोक्तवचनस्य ।। 4.18.17 ।।
तदेतत्कारणं पश्य यदथ त्वं मया हतः ।
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ।। 4.18.18 ।।
वर्तसि वर्तसे ।। 4.18.18 ।।
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ।
रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत् ।। 4.18.19 ।।
तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर ।
भ्रातृभार्यावमर्शे ऽस्मिन् दण्डो ऽयं प्रतिपादितः ।। 4.18.20 ।।
नहि धर्मविरुद्धस्य लोकवृत्तादपेयुषः ।
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ।। 4.18.21 ।।
अस्येति । धरमाणस्य जीवितं धारयतः । अनेन जीवतो भ्रातुर्भार्या भ्रात्रा न ग्राह्या । मृतस्य तु ग्राह्येति तत्कुलधर्म इति प्रतीयते । अत एव हि वालिनो बिलगमनानन्तरं मन्त्रिभिरभिषिक्तस्य सुग्रीवस्य तारापरिग्रहं रामो न निन्दितवान्, अत एव प्रायोपवेशे अङ्गदो वक्ष्यति “भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ।।” इति ।। 4.18.1921 ।।
न हि ते मर्षये पापं क्षत्ित्रयो ऽहं कुलोद्भवः ।। 4.18.22 ।।
तर्हि शिक्षैव कर्तव्या किमर्थमवधीस्तत्राह न हीति ।। 4.18.22 ।।
औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ।
प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ।। 4.18.23 ।।
भरतस्तु महीपालो वयं त्वादेशवर्तिनः ।
त्वं तु धर्मादतिक्रान्तः कथं शक्य उपेक्षितुम् ।। 4.18.24 ।।
औरसीं पुत्रीं प्रचरेत गच्छेत् ।। 4.18.23,24 ।।
गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ।
भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ।। 4.18.25 ।।
वयं तु भरतादेशं विधिं कृत्वा हरीश्वर ।
त्वद्विधान् भिन्नमर्यादान् नियन्तुं पर्यवस्थिताः ।। 4.18.26 ।।
भरतस्तु महीपाल इत्युक्तं विवृणोति गुरुरिति । धर्मव्यतिक्रान्तं धर्मव्यतिक्रमणं पालयन् परामृशन् गुरुः भरतश्च निग्रहे पर्यवस्थितः । वयं च तदादेशं विधिं शास्त्रं कृत्वा नियन्तुं पर्यवस्थिताः । अतः कथं शक्य उपेक्षितुमिति पूर्वेण सम्बन्धः ।। 4.18.25,26 ।।
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा ।
दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ।। 4.18.27 ।।
एवं निरपराधवधदोषशङ्कायाः परिहारमुक्त्वा “मामेव यदि पूर्वं त्वमेतदर्थमचोदयः” इत्युक्तस्य परिहारमाह सुग्रीवेणेति । सुग्रीवेण यत्सख्यं तल्लक्ष्मणसख्यतुल्यं तद्वदपरिहार्यम् । दारराज्यनिमित्तं च दारराज्यफलकं च । स च मे निःश्रेयसि रतश्च, अतः कथमुपेक्षितुं शक्य इत्यन्वयः ।। 4.18.27 ।।
प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ ।
प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ।। 4.18.28 ।।
हेत्वन्तरमप्याह प्रतिज्ञा चेति । तदा सख्यकरणकाले अनवेक्षितुम् उपेक्षितुमिति यावत् ।। 4.18.28 ।।
तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः ।
शासनं तव यद्युक्तं तद्भवाननुमन्यताम् ।। 4.18.29 ।।
तत्तस्मात् उपेक्षितुमशक्यत्वात् । एभिः भ्रातृभार्यापहरणादिकारणैः तव भ्रातृभार्यावमर्शकस्य यच्छासनं कृतं तद्युक्तं शास्त्रविहितमिति भवाननुमन्यताम् ।। 4.18.29 ।।
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ।। 4.18.30 ।।
पुनर्हेत्वन्तराणि वक्तुं पीठिकामारचयति सर्वथेति ।। 4.18.30 ।।
वयस्यस्यापि कर्तव्यं धर्ममेवानुपश्यतः ।
शक्यं त्वयापि तत्कार्यं धर्ममेवानुपश्यता ।। 4.18.31 ।।
वयस्यस्यापीति । शत्रुवद्धर्ममेवानुपश्यतो वयस्यस्यापि स्वमित्रशत्रुनिरसनं कर्तव्यम् । धर्ममेवानुपश्यता त्वयापि तत्कार्यम् आत्मनिग्रहरूपं शक्यम्, प्रायाश्चित्तत्वेनानुमन्तुं योग्यमित्यर्थः ।। 4.18.31 ।।
श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ ।
गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे ।। 4.18.32 ।।
स्वेनावश्यं हन्तव्यत्वे वालिना ऽवश्यमनुमन्तव्यत्वे च संवादं दर्शयति श्रूयत इति । चारित्रवत्सलौ आचारैकपरौ गृहीतौ धृतौ । तच्छ्लोकद्वयोक्तम् ।। 4.18.32 ।।
राजभिर्धृतदण्डास्तु कृत्वा प्रापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।। 4.18.33 ।।
श्लोकौ पठति राजभिरित्यादिना ।। 4.18.33 ।।
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते ।
राजा त्वशासनात् पापं तदवाप्नोति किल्बिषम् ।। 4.18.34 ।।
शासने परस्याभ्युदयमुक्त्वा अशासने राज्ञो ऽनभ्युदयमाह शासनादिति । राज्ञा शासने मोचने वा स्तेनश्चोरो मुच्यत एव पापात् । पापस्य पापिष्ठस्य अशासनाद्राजा तत्किल्बिषं पापमाप्नोति ।। 4.18.34 ।।
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ।
श्रमणेन कृते पापे यथा पापं कृतं त्वया ।। 4.18.35 ।।
न केवलं वचनम् आचारश्चास्मिन्नर्थे ऽस्तीत्याह आर्येणेति । यथा त्वया पापं कृतं तथा श्रमणेन क्षपणकेन केनचित्पापे कृते मम आर्येण वृद्धप्रपितामहेन मान्धात्रा घोरं व्यसनं दण्डनम् । ईप्सितं प्रयुक्तमिति यावत् ।। 4.18.35 ।।
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः ।
प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ।। 4.18.36 ।।
अन्यैरपीति । प्रमत्तैर्वसुधाधिपैर्हेतुभिः अन्यैरपि जनैः पापं कृतं ते वसुधाधिपाः विगतानवधानाः सन्तः कर्मपरामर्शवेलायां पापिनां प्रायश्चितं वधादिकं कुर्वन्ति । तेन प्रायश्चित्तेन तद्रजः तत्पापं शाम्यति । अद्यापीति शेषः ।। 4.18.36 ।।
तदलं परितापेन धर्मतः परिकल्पितः ।
वधो वानरशार्दूल न वयं स्ववशे स्थिताः ।। 4.18.37 ।।
तदलमिति । न स्ववशे स्थिताः न स्वतन्त्राः, शास्त्रवश्या इत्यर्थः । अनेन पराङ्मुखवधस्य दोषत्वमपि परिहृतम्, प्रायश्चित्तस्य यथाकाथञ्चित्कर्तव्यत्वात् । पञ्चमहापातकादिप्रायश्चित्तस्य मरणान्तिकत्वाद्बलादेव हि कार्यं भवति नान्यथा ।। 4.18.37 ।।
शृणु चाप्यपरं भूयः कारणं हरिपुङ्व ।
यच्छ्रुत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि ।। 4.18.38 ।।
एवं सन्ध्योपासनराज्यपालनादिकं नियमेनानुतिष्ठतो वालिनः शास्त्रवश्यत्वमवलम्ब्योक्तम् । अथ शाखामृगत्वमवलम्ब्याह शृणु चेत्यादिना ।। 4.18.38 ।।
न मे तत्र मनस्तापो न मन्युर्हरियूथप ।
वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ।। 4.18.39 ।।
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान् ।
प्रधावितान्वा वित्रस्तान् विस्रब्धांश्चापि निष्ठितान् ।। 4.18.40 ।।
प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् ।
विध्यन्ति विमुखांश्चापि न च दोषो ऽत्र विद्यते ।। 4.18.41 ।।
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः ।
तस्मात्त्वं निहतो यद्धे मया बाणेन वानर ।
अयुध्यन्प्रतुयुध्यन्वा यस्माच्छाखामृगो ह्यसि ।। 4.18.42 ।।
“दृश्यमानस्तु युध्येथा मया यदि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ” ।। इति “त्वया ऽदृश्येन तु रणे निहतो ऽहं दुरासदः । प्रसुप्तः पन्नगेनेव नरः पानवशंगतः” इति च वालिना यदुक्तं तदुभयस्योत्तरमाह न मे तत्र मनस्ताप इति । तत्र यमसदनप्रापणोक्तिप्रच्छन्नवेधननिन्दोक्तिविषये मे मन्युर्नास्ति । शाखामृगस्य तवालक्ष्यत्वादिति भावः । मनस्तापाभावश्च मृगविषये प्रच्छन्नवेधनस्य राज्ञां स्वभावतया दोषाभावादिति भावः । तदेवोपपादयति वागुराभिरित्यादिना । कूटैः कपटव्यापारैः । विस्रब्धान् विश्वस्तान् । यद्यपि प्रकृते न मांसार्थिता तथापि पराङ्मुखवधान्न दोष इति तात्पर्यम् ।। 4.18.3942 ।।
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ।
राजानो वानरश्रेष्ठ प्रदातारो न संशयः ।। 4.18.43 ।।
परपीडाकरो राज्ञां व्यापारो निष्फल इत्याशङ्क्य व्रणचिकित्सान्यायेन सः श्रेयस्कर एवेत्याह दुर्लभस्येति । जीवितस्य जीवनस्य ।। 4.18.43 ।।
तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ।
देवा मनुष्यरूपेण चरन्त्येते महीतले ।। 4.18.44 ।।
न हिंस्यान्न पीडयेत्, तेष्वनर्थकरत्वबुद्धिं न कुर्यादित्यर्थः । नाक्रोशेन्न निन्देत् नाक्षिपेत्
नोक्तिखण्डनं कुर्यात्, नाप्रियं वदेत् परुषं न वदेदित्यर्थः । तत्र हेतुमाह देवा इति । एते पूर्वोक्ता राजानः । देवाः अष्टौ लोकपालाः । “अष्टाभिर्लोकपालानां मात्राभिः कल्पितो नृपः” इति वचनात् । मनुष्यरूपेण मनुष्यशरीरेण उपलक्षिताश्चरन्ति ।। 4.18.44 ।।
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ।
प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ।। 4.18.45 ।।
पितृपैतामहे पितृपितामहप्राप्ते । नन्वेवमपि कथञ्चित्परिहार्यम् । “परतनुहतिं वालिद्रोहं मनागपसर्पणम्” इत्याद्यपवादकरं छन्नवेधनं समर्थो ऽपि किमर्थं कृतवान्? तदवहितमनाः शृणु । यदि रामो वालिनः पुरतस्तिष्ठेत्तदा विदिततदीयप्रभावतया वाली प्रह्वो भवेत् । तदा तद्वधो न युक्तः । प्रतिज्ञा च व्याहन्येत । तद्द्वारा तन्मित्रं रावणो ऽपि शरणं व्रजेत् । देवाकार्यं च लुप्येत् । अतः प्रच्छन्नो वालिनमवधीत् ।। 4.18.45 ।।
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ।
न दोषं राघवे दध्यौ धर्मे ऽधिगतनिश्चयः ।
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ।। 4.18.46 ।।
एवमिति । प्रव्यथितः अज्ञानाद्राममधिक्षिप्तवानस्मीत्यनुतप्तः ।। 4.18.46 ।।
यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः ।
प्रतिवक्तुं प्रकृष्टे हि नाप्रकृष्टस्तु शक्नुयात् ।। 4.18.47 ।।
प्रकृष्टे विषये ।। 4.18.47 ।।
तदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम् ।
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ।। 4.18.48 ।।
कर्तुं चिन्तयितुम् ।। 4.18.48 ।।
त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः ।
कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया ।। 4.18.49 ।।
दृष्टार्थश्चासौ तत्त्वज्ञश्च दृष्टार्थतत्त्वज्ञः । यद्वा ज्ञः पण्डितः । दृष्टार्थतत्त्वश्चासौ ज्ञश्चेति समासः । कार्यकारणसिद्धौ कार्यं दण्डनम्, कारणं तद्धेतुभूतं पापम्, तयोः सिद्धौ परिज्ञाने । बुद्धिः अन्तःकरणम् ।। 4.18.49 ।।
मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम् ।
धर्मसंहितया वाचा धर्मज्ञ परिपालय ।। 4.18.50 ।।
[ बाष्पसंरुद्धकण्ठस्तु वाली सार्तस्वरं शनैः ।
उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः ।]
अगतधर्माणं कृत्याकरणवन्तं व्यतिक्रान्तपुरस्कृतं पुरस्कृतव्यतिक्रमम्, अकृत्यकारिणमित्यर्थः । वाचा परिपालय, सर्वं मया क्षान्तमिति वदेत्यर्थः ।। 4.18.50 ।।
न त्वात्मानमहं शोचे न तारां न च बान्धवान् ।
यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ।। 4.18.51 ।।
स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः ।
तटाक इव पीताम्बुरुपशोषं गमिष्यति ।। 4.18.52 ।।
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः ।
तारेयो राम भवता रक्षणीयो महाबलः ।। 4.18.53 ।।
कार्यान्तरमप्यर्थयते न त्वित्यादिना । नात्मानं प्रति शोचे, त्वया दत्तसम्यग्गतिकत्वात् । नापि तारादिकान् प्रति, सुग्रीवस्य विद्यमानत्वात् । पुत्रम् “अङ्गादङ्गात्सम्भवसि” इत्युक्तरीत्या स्वानतिरिक्तं गुणश्रेष्ठं पितृशुश्रूषादिगुणैः श्रेष्ठं कनकाङ्गदं दर्शनीयमित्यर्थः ।। 4.18.5153 ।।
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् ।
त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः ।। 4.18.54 ।।
सुग्रीवे चेति । मतिं तुल्यामिति शेषः ।। 4.18.54 ।।
या ते नरपते वृत्तिर्भरते लक्ष्मणे च या ।
सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमर्हसि ।। 4.18.55 ।।
वृत्तिं प्रीतिरिति यावत् ।। 4.18.55 ।।
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् ।
सुग्रीवो नावमन्येत तथा ऽवस्थातुमर्हसि ।। 4.18.56 ।।
नावमन्येत पुत्रनिर्वासनेनेति भावः । अवस्थातुं व्यवस्थापयितुम् ।। 4.18.56 ।।
त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम् ।
त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ।। 4.18.57 ।।
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ।। 4.18.58 ।।
उपासितुम्, मयेति शेषः । न केवलं मद्राज्यम्, अन्यच्चेत्याह शक्यमिति ।। 4.18.57,58 ।।
त्वत्तोहं वधमाकाङ्क्षन्वार्यमाणोपि तारया ।
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः ।। 4.18.59 ।।
इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः ।। 4.18.60 ।।
तर्हि तथा किं न कृतम्? तत्राह त्वत्त इति । आकाङ्क्षन् आकाङ्क्षमाण इवेत्यर्थः ।। 4.18.59,60 ।।
स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ।
सामसम्पन्नया वाचा धर्मतत्त्वार्थयुक्तया ।। 4.18.61 ।।
व्यक्तदर्शनं विशदज्ञानम् । साम सान्त्वनम् ।। 4.18.61 ।।
न सन्तापस्त्वया कार्य एतदर्थं प्लवङ्गम ।। 4.18.62 ।।
एतदर्थं पुत्रवपालनार्थम् ।। 4.18.62 ।।
न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम ।
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ।। 4.18.63 ।।
वयं न चिन्त्याः, अकृत्यकारिण इति शेषः । नाप्यात्मा, निवृत्तपापत्वात् । कुत इत्यत्राह वयमिति । भवद्विशेषेण भवतः कृत्यरूपविशेषेण हेतुना । धर्मतः प्रायश्चित्तरूपे धर्मे । सप्तम्यर्थे तसिः । कृतनिश्चयाः अतो वयं न चिन्त्या इत्यादि पूर्वेणान्वयः ।। 4.18.63 ।।
दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते ।
कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ।। 4.18.64 ।।
उक्तं विवृणोति दण्ड्य इति । कार्यकारणसिद्धार्थौ दण्ड्यत्वदण्डयितृत्वाभ्यां निष्पन्नप्रयोजनावित्यर्थः ।। 4.18.64 ।।
तद्भवान् दण्डसंयोगादस्माद्विगतकल्मषः ।
गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्टेन वर्त्मना ।। 4.18.65 ।।
धर्मदृष्टेन धर्मशास्त्रदृष्टेन वर्त्मना दण्डसंयोगात् विगतकल्मषः सन् धर्म्यां धर्मादनपेतां स्वां प्रकृतिं यथावस्थितशुद्धस्वरूपं गतः ।। 4.18.65 ।।
त्यज शोकं च मोहं च भयं च हृदये स्थितम् ।
त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम् ।। 4.18.66 ।।
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर ।
तथा वर्तेत सुग्रीवे मयि चापि न संशयः ।। 4.18.67 ।।
हेत्वन्तरेणाश्वासयति त्यजेति । विधानं विधिः, प्रारब्धं कर्मेति यावत् ।। 4.18.66,67 ।।
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः ।
निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ।। 4.18.68 ।।
उक्तमर्थं सर्गान्ते श्लोकाभ्यां पुनः सङ्गृह्णाति स तस्येति । समाहितं समाधानरूपम् ।। 4.18.68 ।।
शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो ।
इदं महेन्द्रोपम भीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर ।। 4.18.69 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टादशः सर्गः ।। 18 ।।
शरेति । प्रदूषित इति यत् इदं मे अपचरितं क्षम क्षमस्व । अस्मिन् सर्गे सार्धसप्तषष्टिश्लोकाः ।। 4.18.69 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टादशः सर्गः ।। 18 ।।