श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे विंशः सर्गः
रामचापविसृषटेन शरेणान्तकरेण तम् ।
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ।
सा समासाद्य भर्तारं पर्यष्वजत भामिनी ।। 4.20.1 ।।
अथ ताराप्रलापो विंशे रामेत्यादिसार्धश्लोकः । सा तारा तं दृष्ट्वा पर्यष्वजत ।। 4.20.1 ।।
इषुणा ऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ।
वानरेन्द्रं महेन्द्राभं शोकसन्तप्तमानसा ।
तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ।। 4.20.2 ।।
इषुणेत्यादिसार्धः ।। 4.20.2 ।।
रणे दारुणविक्रन्त प्रवीर प्लवतां वर ।
किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ।। 4.20.3 ।।
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् ।
नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ।। 4.20.4 ।।
अतीव खलु ते कान्ता वसुधा वसुधाधिप ।
गतासुरपि यां गात्रैर्मां विहाय निषेवसे ।। 4.20.5 ।।
रण इति ।। अपुरोभागां दोषदर्शनरहिताम्, अनपराधामिति यावत् ।। 4.20.35 ।।
व्यक्तमन्या त्वया वीर धर्मतः सम्प्रवर्तिता ।
किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ।। 4.20.6 ।।
व्यक्तिमिति । हे वीर अत्र निर्मिता किष्किन्धेवान्या पुरी स्वर्गमार्गे त्वया धर्मतः प्रवर्तिता ।
अतः खल्विमां त्यक्त्वा गन्तुमुद्यतो ऽसीति भावः ।। 4.20.6 ।।
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु ।
विहृतानि त्वया काले तेषामुपरमः कृतः ।। 4.20.7 ।।
यानीति । अस्माभिरिति इतरस्त्र्यपेक्षया बहुवचनम् । अस्माभिः सह त्वया यानि विहृतानि विहाराः कृतानीत्यध्याहारः । तेषां त्वया उपरमः विरामः कृतः ।। 4.20.7 ।।
निरानन्दा निराशा ऽहं निमग्ना शोकसागरे ।
त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ।। 4.20.8 ।।
निरानन्देति । अद्य निरानन्दा निराशा कालान्तरे आनन्दो भविष्यतीत्याशारहिता ऽहं शोकसागरे निमग्ना, अस्मीति शेषः । पञ्चत्वं मरणम् ।। 4.20.8 ।।
हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम् ।
यन्न शोकाभिसन्तप्तं स्फुटते ऽद्य सहस्रधा ।। 4.20.9 ।।
हृदयमिति । मह्यं मम ।। 4.20.9 ।।
सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।
यत्तु तस्य त्वया व्युष्टिः प्राप्येयं प्लवगाधिप ।। 4.20.10 ।।
सुग्रीवस्येति । व्युष्टिः फलम् । “व्युष्टिः फले समृद्धौ च” इत्यमरः । विवासित इति यत्तस्य व्युष्टिरित्यन्वयः ।। 4.20.10 ।।
निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता ।
यैषा ऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी ।। 4.20.11 ।।
निःश्रेयसेति । निःश्रेयस्कामा ।। 4.20.11 ।।
रूपयौवनदृप्तानां दक्षिणानां च मानद ।
नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ।। 4.20.12 ।।
रूपेति । दक्षिणानाम् अनङ्गतन्त्रे कुशलानां प्रमथिष्यसि वशीकरिष्यसीति भावः । वीरस्य स्वर्गसिद्धेरिति भावः ।। 4.20.12 ।।
कालो निःसंशयो नूनं जीवितान्तकरस्तव ।
बलाद्येनावपन्नो ऽसि सुग्रीवस्यावशो वशम् ।। 4.20.13 ।।
काल इति । वशम् अवपन्नः प्राप्तः ।। 4.20.13 ।।
वैधव्यं शोकसन्तापं कृपणं कृपणा सती ।
अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ।। 4.20.14 ।।
वैधव्यमिति । अहं पूर्वम् अधुःखोपचिता अकृपणा च सती सम्प्रति कृपणा भूत्वा वैधव्यं शोककृतसन्तापं च वर्तयिष्यामि धारयिष्यामि ।। 4.20.14 ।।
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः ।
वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते ।। 4.20.15 ।।
लालित इति । मे मया लालितः अङ्गदः पितृव्ये पितृभ्रातरि क्रोधमूर्च्छते सति । कामवस्थां वत्स्यते वर्तयिष्यति । नश्यत्येवेति भावः ।। 4.20.15 ।।
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् ।
दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ।। 4.20.16 ।।
समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व च ।
मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ।। 4.20.17 ।।
कुरुष्वेति । अनेन तदानीमङ्गदः समागत इति द्योत्यते ।। 4.20.16,17 ।।
रामेण हि महत्कर्मकृतं त्वामभिनिघ्नता ।
आनृण्यं च गतं तस्य सुग्रवस्य प्रतिश्रवे ।। 4.20.18 ।।
रामेणेति । महत् अन्यैरशक्यं कर्म कृतम् आनृण्यं च गतं प्राप्तम् । प्रितश्रवे प्रतिज्ञाविषये ।। 4.20.18 ।।
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे ।
भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ।। 4.20.19 ।।
सुग्रीवं प्रत्याह सकाम इति । शस्तः हिंसितः ।। 4.20.19 ।।
किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे ।
इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ।। 4.20.20 ।।
वालिनं प्रत्याह किमिति ।। 4.20.20 ।।
तस्या विपलितं श्रुत्वा वानर्यः सर्वतश्च ताः ।
परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः ।। 4.20.21 ।।
तस्या इति । विलपितं विलापम् ।। 4.20.21 ।।
किमङ्गदं साङ्गदवीरबाहो विहाय यास्यद्य चिरप्रवासम् ।
न युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम् ।। 4.20.22 ।।
किमप्रयिं ते प्रियचारुवेष मया कृतं नाथ सुतेन वा ते ।
सहाङ्गदां मां स विहाय वीर यत्प्रस्थितो दीर्घमितः प्रवासम् ।। 4.20.23 ।।
किमङ्गदमिति । साङ्गदौ वीरौ वीर्यवन्तौ बाहू यस्य स तथोक्तः । गुणसन्निकृष्टं गुणैः प्रत्यासन्नाम्, गुणैस्तव सदृशमित्यर्थः । हे प्रियपुत्रेति सम्बुद्धिः । प्रियः पुत्रो यस्य सः प्रियपुत्र इति । इयं स्त्रीजनप्रलापपरिपाटी ।। 4.20.22,23 ।।
यद्यप्रियं किञ्चिदसम्प्रधार्यं कृतं मया स्यात्तव दीर्घबाहो ।
क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ ।। 4.20.24 ।।
यदीति । असम्प्रधार्य अविज्ञाय ।। 4.20.24 ।।
तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः ।
व्यवस्यत प्रायमुपोपवेष्टुमनिन्द्यवर्णा भुवि यत्र वाली ।। 4.20.25 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे विंशः सर्गः ।। 20 ।।
तथा त्विति । प्रायमुपोपवेष्टुं प्रायोपवेशं कर्तुमित्यर्थः । “प्रसमुपोदः पादपूरेणे” इति द्विर्वचनम् । अत्र सर्गे श्लोकव्यात्यासो लेखककृतः । अस्मिन् सर्गे षड्विंशतिश्लोकाः ।। 4.20.25 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने विंशः सर्गः ।। 20 ।।