श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकविंशः सर्गः
ततो निपतितां तारां च्युतां तारामिवाम्बरात् ।
शनैराश्वासयामास हनुमान् हरियूथपः ।। 4.21.1 ।।
अथ हनुमत्समाश्वासनमेकविंशे तत इत्यादि । तारां तारकाम् ।। 4.21.1 ।।
गुणदेषकृतं जन्तुः स्वकर्मफलहेतुकम् ।
अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ।। 4.21.2 ।।
गुणोति । जन्तुः गुणदोषकृतं ज्ञानाज्ञानाभ्यां कृतं स्वकर्मफलं स्वकर्मवासना हेतुर्यस्य तत्तथोक्तम् । यत् कर्मास्ति तत्तस्य शुभाशुभं फलभूतं सुखदुःखं प्रेत्य लोकान्तरं प्राप्य अव्यग्रः एकाग्रः सन् अवाप्नोति । अत्र कृतं शुभाशुभरूपं कर्म लोकान्तरे फलदानाय सहैव गच्छतीत्यर्थः । सुग्रीवेणायं मारित इति न मन्तव्यम्, किन्तु स्वकर्मणैव हतः । निमित्तमात्रं सुग्रीव इति भावः ।। 4.21.2 ।।
शोच्या शोचसि कं शोच्यं दीनं दीना ऽनुकम्पसे ।
कस्य को वा ऽनुशोच्यो ऽस्ति देहे ऽस्मिन् बुद्बुदोपमे ।। 4.21.3 ।।
नायं शोचनीयः स्वकर्मानुरूपेण गतत्वात् । किन्तु स्वात्मैव शोच्यः केन कर्मणा कं लोकं गमिष्यामीति तद्दर्शयति शोच्येति । स्वयं शोच्या त्वं कं प्रति शोचसि । स्वयं दीना कं दीनम् अनुकम्पसे दयसे । ब्रुद्बुदोपमे जलबुद्बुदवदस्थिरे देहे निमित्तसप्तमी । कस्य को वा ऽनुशोच्यो ऽस्ति, सर्वेषामप्यस्थिरत्वाविशेषात् । स्वयं स्थिर एव ह्यस्थिरं शोचेदिति भावः ।। 4.21.3 ।।
अङ्गदस्तु कुमारो ऽयं द्रष्टव्यो जीवपुत्रया ।
आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ।। 4.21.4 ।।
अङ्गदस्त्विति । द्रष्टव्यः परिपालनीयः । आयत्याम् उत्तरकाले । समर्थानि हितानि ।। 4.21.4 ।।
जानास्यनियतामेवं भूतानामागतिं गतिम् ।
तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् ।। 4.21.5 ।।
जानासीति । अनियतामागतिं गतिम्, अस्थिरतामिति यावत् । शुभम् और्ध्वदैहिकम् । ऐहलौकिकं रोदनादिकम् ।। 4.21.5 ।।
यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि च ।
वर्तयन्ति कृतांशानि सो ऽयं दिष्टान्तमागतः ।। 4.21.6 ।।
यस्मिन्निति । यस्मिन् विषये हरीत्यविभक्तिकनिर्देशः । हरीणामित्यर्थः । कृतांशानि कृतविभागानि । सन्ति वर्तयन्ति, जीवनं कुर्वन्ति सो ऽयं दिष्टान्तं दिष्टस्य देवकल्पितकालस्य अन्तं समाप्तिम् । “कालो दिष्टो ऽप्यनेहापि” इत्यमरः । बहून् स्वजनान् जीवयित्वा गतः स्वसुकृत फलं प्राप्तुं गतः । अतः स न शोच्य इति भावः ।। 4.21.6 ।।
यदयं न्यायदृष्टार्थः सामदानक्षमापरः ।
गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ।। 4.21.7 ।।
यदिति । न्यायदृष्टार्थः शास्त्रदृष्टतत्त्वार्थः । साम दुःखितानां स्वजनानां सान्त्वनम् । दानम् अभीष्टार्थदानम् । क्षमा तत्कृतापराधसहनम् । एतासु परः सक्तः अयं धर्मजितां स्वाधीनधर्माधर्मकाणां भूमिं लोकम् । यत् यस्मात् गतः । तस्मान्नैनं शोचितुमर्हसि ।। 4.21.7 ।।
सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः ।
इदं हर्यृक्षराज्यं च त्वत्सनाथमनिन्दिते ।। 4.21.8 ।।
सर्व इति । हरीणाम् ऋक्षाणां च राज्यं त्वत्सनाथं त्वया सनाथम् ।। 4.21.8 ।।
ताविमौ शोकसन्तापौ शनैः प्रेरय भामिनि ।
त्वाय परिगृहीतो ऽयमङ्गदः शास्तु मेदिनीम् ।। 4.21.9 ।।
ताविमाविति । ताविमौ शोकसन्तापौ शोकतत्कृततापौ शनैः क्रमेण प्रेरयृ निवर्तय । भर्तृमरणशोकस्य सद्यो दुस्त्यजत्वादिति भावः ।। 4.21.9 ।।
सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् ।
राज्ञस्तत्क्रियतां तावदेष कालस्य निश्चयः ।। 4.21.10 ।।
सन्ततिश्चेति । सन्ततिश्च यथा दृष्टा यत्प्रोजनकः सन्तानो लब्धः साम्प्रतम् इदीनीं यच्च कृत्यं कर्तुं योग्यं तत्सर्वं राज्ञः क्रियताम् । एष निश्चयो ऽस्य कालस्य योग्य इति शेषः । न तु शोक इति भावः । पुत्रोत्पादनफलमौर्ध्वदैहिकं क्रियातमित्यर्थः ।। 4.21.10 ।।
संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम् ।
सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ।। 4.21.11 ।।
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।
अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ।। 4.21.12 ।।
उक्तमर्थं वाचा दर्शयति संस्कार्य इति । शान्तिं दुःखशमम् ।। 4.21.11,12 ।।
अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् ।
हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ।। 4.21.13 ।।
अङ्गदेति । अङ्गदप्रतिरूपाणाम् अङ्गदतुल्यानां पुत्राणां सत्पुत्राणां शतम् एकतः एकत्र एकतुलायामस्तु । हतस्याप्यस्य गात्रसंश्लेषणं गाढालिङ्गनम् एकतो ऽस्तु । तोयर्मध्ये भर्तृसंश्लेषणमेव वरमित्यर्थः ।। 4.21.13 ।।
न चाहं हरिराजस्य प्रभावाम्यङ्गदस्य वा ।
पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ।। 4.21.14 ।।
संस्कार्य इत्यस्योत्तरमाह न चेति । हरिराजस्य न प्रभवामि तस्य संस्कारकरणे न समर्था ऽस्मि । अङ्गदस्य वा न प्रभवामि तस्य राज्याभिषेककरणे न प्रभवामीत्यर्थः ।। 4.21.14 ।।
न ह्येषा बुद्धिरास्थेया हनुमन्नङ्गदं प्रति ।
पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ।। 4.21.15 ।।
न हीति । नास्थेया नादर्तव्या, न कर्तव्येत्यर्थः । पिता पितृव्या ।। 4.21.15 ।।
न हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा ।
अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ।। 4.21.16 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकविंशः सर्गः ।। 21 ।।
नहीति । परत्र परलोके इह अस्मिन् लोके शत्र्वभिमुखतया हतः अभिमुखहतः स चासौवीरश्च तेन सेवितम् ।। 4.21.16 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सर्गः ।। 21 ।।