श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तविंशः सर्गः
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ।। 4.27.1 ।।
शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् ।
नानागुल्मलतागूढं बहुपादपसङ्कुलम् ।। 4.27.2 ।।
ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् ।
मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ।। 4.27.3 ।।
तस्य शैलस्य शिखरे महतीमायतां गुहाम् ।
प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह ।। 4.27.4 ।।
अथ रामस्यैकान्तवाससमुद्भूतसीताविरहशोकप्रशमनं लक्ष्मणेन क्रियते सप्तविंशे अभिषिक्त इत्यादि । शैलं शिलामयमिति मृच्छिलोभयमयगिरिभ्यो व्यावृत्तिः । अतो न गिरिं शैलमिति पुनरुक्तिः ।। 4.27.14 ।।
कृत्वा च समयं सौम्यः सुग्रीवेण सहानघः ।
कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः ।
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ।। 4.27.5 ।।
कृत्वेति । कालयुक्तं तत्कालोचितम् ।। 4.27.5 ।।
इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
अस्यां वसाव सौमित्रे वर्षरात्रमरिन्दम ।। 4.27.6 ।।
युक्तमारुता उचितमारुता, यावदपेक्षमारुतेत्यर्थः । वसाव, लोडुत्तमद्विवचनम् । वर्षरात्रमिति अच् समासान्त आर्षः । जात्येकवचनम् ।। 4.27.6 ।।
गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज ।
श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम् ।। 4.27.7 ।।
नानाधातुसमाकीर्णं दरीनिर्झरशोभितम् ।
विविधैर्वृक्षषण्डैश्च चारुचित्रलतावृतम् ।। 4.27.8 ।।
नानाविहगसङ्घुष्टं मयूररवनादितम् ।
मालतीकुन्दगुल्मैश्च सिन्दुवारकुरण्टकैः ।। 4.27.9 ।।
कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ।। 4.27.10 ।।
गिरिशृङ्गमित्यादि । कदम्बाः अर्जुनाः नदीसर्जाः ।। 4.27.710 ।।
इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता ।
नातिदूरे गुहाया नौ भविष्यति नृपात्मज ।। 4.27.11 ।।
इयं चेति । नातिदूरे भविष्यतीत्यनेन वर्षाकालस्य प्रवृत्तत्वाद्भाविजलसमृद्ध्या समीपवर्तिनी भविष्यतीत्यर्थः ।। 4.27.11 ।।
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति ।
पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ।। 4.27.12 ।।
प्रागुदक्प्रवणे देशे वर्तमाना गुहा साधु भविष्यति । प्रागुदक्प्रवणे देशे वर्तमानत्वाभिधानाद्गुहाया नैर्ऋत्याभिमुखद्वारत्वमुक्तम् । अत एव पौरस्त्यवर्षप्रवेशाभावेन साधुत्वमुक्तं भवति । इयं पश्चादुन्नता पश्चाद्भागोन्नता । अत एव पुरोवातनिरोधकत्वान्निवाता च भविष्यति ।। 4.27.12 ।।
गुहाद्वारे च सौमित्रे शिला समतला शुभा ।
श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा ।। 4.27.13 ।।
गुहाद्वारे चेति । अस्मिन् श्लोके वर्तत इति शेषः ।। 4.27.13 ।।
गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम् ।
भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम् ।। 4.27.14 ।।
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् ।
कैलासशिखरप्रख्यं नानाधातुविभूषितम् ।। 4.27.15 ।।
गिरिशृङ्गमित्यादि । श्वेतमिव रूप्यमिव । ” दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतम्” इत्यमरः । अपरं शृङ्गं पश्येति पूर्वेणान्वयः ।। 4.27.14,15 ।।
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् ।
गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ।। 4.27.16 ।।
चम्पकैस्तिलैस्तालैस्तमालैरतिमुक्तकैः ।
पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ।। 4.27.17 ।।
वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः ।
हिन्तालैस्तिरिटैर्नीपैर्वेत्रकैः कृतमालकैः ।। 4.27.18 ।।
तीरजैः शोभिता भाति नानारूपैस्ततस्ततः ।
वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता ।। 4.27.19 ।।
प्राचीनवाहिनीमित्यादि । अतिमुक्तकैः पुण्ड्रकैः, पद्मकैः पद्मपर्णाख्यवृक्षविशेषैः, सरलैः यूपसरलैः, तिमिशैः स्यन्दनैः । “तिमि(नि)शे स्यन्दनो नेमिः” इत्यमरः । धवैः धुन्धुरैः, हिंतालैः लताङ्कुराख्यवृक्षैः । “अथ स्याल्लताङ्कुरः । हिन्तालस्तृणराजश्च” इति वैजयन्ती । तिरिटैः तिल्ववृक्षैः । “तिरिटस्तिल्वमार्जनै” इत्यमरः । वैत्रकैरिति सम्यक् ।। 4.27.1619 ।।
शतशः पक्षिसङ्घैश्च नानानादैर्विनादिता ।
एकैकमनुरक्तैश्च चक्रवाकैरलङ्कृता ।। 4.27.20 ।।
पुलिनैरतिरम्यैश्च हंससारससेवितैः ।
प्रहसन्तीव भात्यैषा नारी सर्वविभूषिता ।। 4.27.21 ।।
क्वचिन्नीलोत्पलच्छन्ना भाति रक्तोत्पलैः क्वचित् ।
क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः ।। 4.27.22 ।।
एकैकमनुरक्तैः अन्योन्यानुरागयुक्तैः ।। 4.27.2022 ।।
पारिप्लवशतैर्जुष्टा बर्हिणक्रौञ्चनादिता ।
रमणीया नदी सौम्य मुनिसङ्घैर्निषेविता ।। 4.27.23 ।।
पारिप्लवैः जलोपरिसञ्चारिपक्षिविशेषैः ।। 4.27.23 ।।
पश्य चन्दनवृक्षाणां पड्क्तीः सुरचिता इव ।
ककुभानां च दृश्यन्ते मनसेवोदिताः समम् ।। 4.27.24 ।।
पश्येति । सुरचिता इव मालारूपेण ग्रथिता इव ककुभानाम् अर्जुनवृक्षाणां दृश्यन्ते, पङ्क्तय इति शेषः । मनसेवोदिताः सममिति मनसा सङ्कल्पेन समं युगपत् उदिता इव स्थिताः ।। 4.27.24 ।।
अहो सुरमणीयो ऽयं देशः शत्रुनिषूदन ।
दृढं रंस्याव सौमित्रे साध्वत्र निवसावहै ।। 4.27.25 ।।
रंस्याव रंस्यावहे । अतः अत्र गिरौ निवसावहै निवसाव ।। 4.27.25 ।।
इतश्च नातिदूरे सा किष्कन्धा चित्रकानना ।
सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ।। 4.27.26 ।।
अत्र वासे क्रियमाणे किष्किन्धा च समीपवर्तिनी भविष्यतीत्याह इतश्चेति ।। 4.27.26 ।।
गीतवादित्रनिर्घोषः श्रूयते जयतां वर ।
नर्दतां वानराणां च मृदङ्गाडम्बरैः सह ।। 4.27.27 ।।
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः ।
ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम् ।। 4.27.28 ।।
गीतेति । मृदङ्गाङम्बरैः सह नर्दतां वानराणां निर्घोषः श्रूयत इत्यन्वयः ।। 4.27.27,28 ।।
इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः ।
बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ ।। 4.27.29 ।।
तत्र गुहायाम् । कुञ्जः लतागृहम् ।। 4.27.29 ।।
सुसुखेपि बहुद्रव्ये तस्मिन् हि धरणीधरे ।
वसतस्तस्य रामस्य रतिरल्पापि नाभवत् ।
हृतां हि भार्यां स्मरतः प्राणेभ्यो ऽपि गरीयसीम् ।। 4.27.30 ।।
सुसुखेपीति । बहुद्रव्ये बहुपुष्पफलादिधने ।। 4.27.30 ।।
उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः ।
आविवेश न तं निद्रा निशासु शयनं गतम् ।। 4.27.31 ।।
उदयेति । उदयाभ्युदितम् उदयपर्वतादुद्गतम् ।। 4.27.31 ।।
तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् ।
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ।। 4.27.32 ।।
तुल्यदुःखो ऽब्रवीद्भ्राता लक्ष्मणो ऽनुनयन् वचः ।। 4.27.33 ।।
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ।
शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते ।। 4.27.34 ।।
तत्समुत्थेनेत्यादि । “लक्ष्मणो ऽनुनयन् वचः” इति पाठः ।। 4.27.3234 ।।
भवान् क्रियापरो लोके भवान् दैवपरायणः ।
आस्तिको धर्मशीलश्च व्यवसायी च राघव ।। 4.27.35 ।।
क्रियापर इत्यनेन कार्यसिद्धिहेतुभूतपुरुषकारवत्त्वमुक्तम् । दैवपरायण इत्यनेन कार्यसिद्धिहेतुभूतदेवतानिष्ठतोक्ता ।। 4.27.35 ।।
न ह्यव्यवसितः शुत्रुं राक्षसं तं विशेषतः ।
समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् ।। 4.27.36 ।।
समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ।
ततः सपरिवारं तं निर्मूलं कुरु राक्षसम् ।। 4.27.37 ।।
अव्यवस्थितः धैर्यरहित इत्यर्थः । रणे विक्रमैर्हन्तुं न समर्थ इत्यन्वयः ।। 4.27.36,37 ।।
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् ।
परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् ।। 4.27.38 ।।
शरत्कालं प्रतीक्षस्व प्रावृट्कालो ऽयमागतः ।
ततः सराष्ट्रं सगणं रावणं त्वं वधिष्यसि ।। 4.27.39 ।।
परिवर्तयितुम् अधरोत्तरं कर्तुम् । अङ्गेति सम्बोधनम् । पुनरित्यत्र दीर्घाभाव आर्षः ।। 4.27.38,39 ।।
अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ।
दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ।। 4.27.40 ।।
लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ।
राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् ।। 4.27.41 ।।
दीप्तैः ज्वलनकरैः उद्बोधकैः, वाक्यैरिति शेषः ।। 4.27.40,41 ।।
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ।
सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ।। 4.27.42 ।।
एष शोकः परित्यक्तः सर्वकार्यावसादकः ।
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ।। 4.27.43 ।।
शरत्कालं प्रतीक्षिष्ये स्थितो ऽस्मि वचने तव ।
सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ।। 4.27.44 ।।
अनुरक्तेन अनुरागयुक्तेन स्निगन्धेन तत्कालोचितप्रियपरेण हितेन हितपरेण सत्यविक्रमयुक्तेन अमोघविक्रमयुक्तेन यद्वाच्यं तत्सर्वं त्वयोक्तमिति सम्बन्धः ।। 4.27.4244 ।।
उपकारेण वीरस्तु प्रतिकारेण युज्यते ।
अकृतज्ञो ऽप्रतिकृतो हन्ति सत्त्ववतां मनः ।। 4.27.45 ।।
उपकारेणेति । तुशब्दो ऽवधारणे । उपकारेण युक्तो वीरः प्रतिकारेण युज्यत एव, प्रत्युपकारं करोत्येवेत्यर्थः । अप्रतिकृतः अकृतप्रत्युपकारः पुरुषः सत्त्ववतां सात्त्विकानां मनः हन्ति पीडयति, सात्त्विकास्तमजस्रं निन्दन्तीत्यर्थः । सज्जनापवादभीतः सुग्रीवो ऽस्माकं प्रत्युपकारं करोत्येवेति भावः ।। 4.27.45 ।।
अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ।
उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम् ।। 4.27.46 ।।
प्रणिधाय भाविकार्यमालोच्य दर्शनं मतम्, प्रणिधानेन दृष्टार्थमित्यर्थः ।। 4.27.46 ।।
यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः ।
शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ।। 4.27.47 ।।
न चिरात् अविलम्बितम् । जलानि प्रपात्यन्ते ऽस्मिन्निति (प्रपतन्त्यस्मिन्निति) जलप्रपातो वर्षाकालः । भवान् क्षमतां त्वं क्षमस्व । वर्षाकालकृतविरहवेदनां मा कुर्वित्यर्थः । रिपुनिग्रहे धृतः धैर्ययुक्तः ।। 4.27.47 ।।
नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सह ।
वसाचले ऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम् ।। 4.27.48 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तविंशः सर्गः ।। 27 ।।
सुग्रीवः प्रत्युपकारं करोतु वा मा वा, सद्यः शत्रुवधः कर्तव्य इति पुनः सञ्जातकोपं रामं प्रत्याह नियम्येति । चतुरो मासान् आषाढश्रावणभाद्रपदाश्वयुजान् । शरत् कार्तिकमासः । शत्रुवधे समुद्यमम् उत्साहम् । संवर्धयन् अभिवर्धयन् । समुद्यत इति पाठे संवर्तयन् मृगराजादीन्नाशयन् ।। 4.27.48 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तविंशः सर्गः ।। 27 ।।