श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वात्रिंशः सर्गः
अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह ।
लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ।। 4.32.1 ।।
अथ हनुमता हितोपदेशो द्वात्रिंशे अङ्गदस्येत्यादि । अङ्गदस्य प्राधान्यादङ्गदस्य वचः श्रुत्वेत्युक्तम् । आसनं मुमोच भयेनासनादुदतिष्ठदित्यर्थः ।। 4.32.1 ।।
सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् ।
मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान् ।। 4.32.2 ।।
सचवानिति । मन्त्रकुशलः मन्त्रप्रयोगकुशलः ।। 4.32.2 ।।
न मे दुर्व्याहृतं किञ्चिन्नापि मे दुरनुष्ठितम् ।
लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ।। 4.32.3 ।।
दुर्व्याहृतं परुषभाषणम् । दुरनुष्ठितम् अपकारः । किं किमर्थम्? ।। 4.32.3 ।।
असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः ।
मम दोषानसम्भूतान् श्रावितो राघवानुजः ।। 4.32.4 ।।
असुहृद्भिरिति । असुहृद्भिः अशोभनहृदयैः ।। 4.32.4 ।।
अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि ।
भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः ।। 4.32.5 ।।
अत्रेति । तावत् प्रथमम् । यथाविधि यथाक्रमम् । भावस्य चेष्टायाः । निश्चयः अध्यवसायः ।। 4.32.5 ।।
न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् ।
मित्रं त्वस्थानकुपितं जनयत्येव सम्भ्रमम् ।। 4.32.6 ।।
निजभयकृतमासनचलनमपह्नुते न खल्विति ।। 4.32.6 ।।
सर्वथा सुकरं मित्रं दुष्करं परिपालनम् ।
अनित्यत्वाच्च चित्तानां प्रीतिरल्पे ऽपि भिद्यते ।। 4.32.7 ।।
मित्रस्यास्थानकोषसम्भावनायां लोकन्यायमाह सर्वथेति । अल्पे, वैषम्य इति शेषः ।। 4.32.7 ।।
अतो निमित्तं त्रस्तो ऽहं रामेण तु महात्मना ।
यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ।। 4.32.8 ।।
अत इति । महात्मना रामेण । मम यदुपकृतं तन्मया प्रति कर्तुं न शक्यम् । अतो निमित्तम् अस्मान्निमित्तात् त्रस्तो ऽहमिति सम्बन्धः ।। 4.32.8 ।।
सुग्रीवेणैवमुक्तस्तु हनुमान् हरिपुङ्गवः ।
उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ।। 4.32.9 ।।
तर्केण ऊहेन ।। 4.32.9 ।।
सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर ।
न विस्मरसि सुस्निग्धमुपकारकृतं शुभम् ।। 4.32.10 ।।
राघवेण तु वीरेण भयमुत्सृज्य दूरतः ।
त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ।। 4.32.11 ।।
सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः ।
भ्रातरं सम्प्रहितवान् लक्ष्मणं लक्ष्मिवर्द्धनम् ।। 4.32.12 ।।
त्वं प्रमत्तो न जानीषे कालं कालविदां वर ।
फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ।। 4.32.13 ।।
निर्मलग्रहनक्षत्रा द्यौः प्रनष्टबलाहका ।
प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च ।। 4.32.14 ।।
प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव ।
त्वं प्रमत्त इति व्यक्तं लक्ष्मणो ऽयमिहागतः ।। 4.32.15 ।।
उपकारकृतम् उपकारकारिणम् ।। 4.32.1015 ।।
आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् ।
वचनं मर्षणीयं ते राघवस्य महात्मनः ।। 4.32.16 ।।
आर्तस्येति । पुरुषान्तरात् लक्ष्मणात्, आगतमिति शेषः । अत्र मर्षणीयत्वे बहवो हेतव उपन्यस्यन्ते । हृतदारस्य परुषवचनं मर्षणीयम् । एवमार्तस्येत्यादौ । राघवस्य महात्मनः परमात्मनः, सर्वस्वामिन इत्यर्थः ।। 4.32.16 ।।
कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् ।
अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ।। 4.32.17 ।।
अथापराधप्रायश्चितं विदधाति कृतेति । कृतापराधस्य न त्वारब्धापराधस्य अपराधारम्भकाले सानुतापो यदि लघुप्रायश्चितेन तदा तस्य परिहारः स्यात्, न तथा ऽभूः किन्तु निश्चयेन कृतापराधो ऽसि, तेन अञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनादन्तरेण प्रसादनं विना अन्यत् क्षमम् अपराधपरिहारक्षमं साधनं न पश्यामि । “अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी” इति शास्त्रात् । लक्ष्मणस्येत्यनेन तदीयं प्रत्यञ्जलिरेव भगवदपचारपरिहारक इत्युक्तम्, “त्वदङ्घ्रिमुद्दिश्य” इतिवत् । ते इत्यनेनात्राधिकरिनियमो नास्तीत्युच्यते । अञ्जलिमित्येकवचनेन सकृत्करणमेवालमित्युक्तम् । बद्ध्वेत्यनेन देशकालनियमाभावः सूचितः । बद्ध्वा लक्ष्मणस्य प्रसादनादित्यनेन क्षिप्रं देवप्रसादिनीत्यस्यार्थः उक्तः ।। 4.32.17 ।।
नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् ।
अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ।। 4.32.18 ।।
किमेव मां प्रति हीनवृत्तमुपदिष्टवानसीत्यत्राह नियुक्तैःरिति ।। 4.32.18 ।।
अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः ।
सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ।। 4.32.19 ।।
कथमिदं हितम्? तत्राह अभिक्रुद्ध इति ।। 4.32.19 ।।
न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् ।
पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ।। 4.32.20 ।।
हेत्वन्तरमाह न स इति ।। 4.32.20 ।।
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः ।
राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ।। 4.32.21 ।।
अञ्जलिं बद्ध्वेत्युक्तं विवृणोति तस्येति स्वसमये तिष्ठ तद्वशे च तिष्ठ ।। 4.32.21 ।।
न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम् ।
मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ।। 4.32.22 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ।। 32 ।।
सुरेन्द्रवर्चसः सराघवस्व सलक्ष्मणस्य अस्य रामस्य मानुषं बलं दिव्यास्त्रादिबलमन्तरेण केवलं स्वाभाविकं बलं ते मनो ज्ञास्यति हि जानात्येव, सालगिरिभेदनादौ दृष्टचरत्वादिति भावः ।। 4.32.22 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वात्रिंशः सर्गः ।। 32 ।।