[highlight_content]

39 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ।

बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ।। 4.39.1 ।।

अथ सर्ववानरसेनासमागम एकोनचत्वारिंशे इति ब्रुवाणमित्यादि ।। 4.39.1 ।।

यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेत्क्विचित् ।

आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ।। 4.39.2 ।।

चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् ।

त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परन्तप ।। 4.39.3 ।।

एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् ।

जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ।। 4.39.4 ।।

त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन् ।

त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ।। 4.39.5 ।।

यदिन्द्र इत्यादि । त्वद्विधः त्वादृशः सत्पुरुषः । मित्राणां प्रतिकुर्यात् प्रत्युपकारं कुर्यात् न तच्चित्रमिति सम्बन्धः । शोभनं प्रत्युपकाररूपम् । सुहृत् शोभनहृदयः ।। 4.39.25 ।।

जहारात्मविनाशाय वैदेहीं राक्षसाधमः ।

व़ञ्चयित्वा तु पौलोमीमनुह्लादौ यथा शचीम् ।। 4.39.6 ।।

नचिरात्तं हनिष्यामि रावणं निशितैः शरैः ।

पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे ।। 4.39.7 ।।

जहारेति । इन्द्रेण ईप्सितां पौलोमीं तत्पितुः पुलोमस्यानुमत्या ऽनुह्लादो जहार । इन्द्रस्त्वनुमन्तारं पुलोमं हत्वा तां पुनरानीयोदवहदिति पौराणिकी कथा ज्ञेया ।। 4.39.6,7 ।।

एतस्मिन्नन्तरे चैव रजः समभिवर्तत ।

उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ।। 4.39.8 ।।

दिशः पर्याकुलाश्चासन् रजसा तेन मूर्च्छता ।

चचाल च मही सर्वा सशैलवनकानना ।। 4.39.9 ।।

समभिवर्तत समभ्यवर्तत । मूर्च्छता व्याप्नुवता ।। 4.39.8,9 ।।

ततो नगेन्द्रसङ्काशैस्तीक्ष्णदंष्ट्रैर्महाबलैः ।

कृत्स्ना सञ्छादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः ।। 4.39.10 ।।

अथ सेनासमुदायव्याप्तिमाह तत इति । ततः रजोव्याप्त्यनन्तरम् ।। 4.39.10 ।।

निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः ।

कोटीशतपरीवारैः कामरूपिभिरावृता ।। 4.39.11 ।।

नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः ।

हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः ।। 4.39.12 ।।

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः ।

पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः ।। 4.39.13 ।।

कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा ।

वीरः शतवलिर्नाम वानरः प्रत्यदृश्यत ।। 4.39.14 ।।

निमिषेति । ततः सेनासमुदायव्याप्त्यनन्तरम् । नादेयैः नदीतीरवनभवैः । पार्वतीयैः पर्वतोत्पन्नैः । वनचारिभिः आवृतेति पूर्वेणान्वयः ।। 4.39.1114 ।।

ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता ।

अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ।। 4.39.15 ।।

तत इति । तारायाः पिता सुषेणः ।। 4.39.15 ।।

तथा ऽपरेण कोटीनां सहस्रेण समन्वितः ।

पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः ।। 4.39.16 ।।

पद्मकेसरसङ्काशस्तरुणार्कनिभाननः ।

बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ।। 4.39.17 ।।

अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः ।

पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ।। 4.39.18 ।।

गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः ।

वृतः कोटिसहस्रेण वानराणामदृश्यत ।। 4.39.19 ।।

ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।

वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ।। 4.39.20 ।।

तथेति । रुमायाः पिता तारः ।। 4.39.1620 ।।

महाचलनिभैर्घोरैः पनसो नाम यूथपः ।

आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ।। 4.39.21 ।।

नीलाञ्जनचयाकारो नीलो नामाथ यूथपः ।

अदृश्यत महावीर्यस्तिसृभिः कोटिभिर्वृतः ।। 4.39.22 ।।

ततः काञ्चनशैलाभो गवयो नाम यूथपः ।

आजगाम महार्वीयः कोटिभिः पञ्चभिर्वृतः ।। 4.39.23 ।।

माहचलेति । कोटिभिः कोटिसङ्ख्याकैः ।। 4.39.2123 ।।

दरीमुखश्च बलवान् यूथपो ऽभ्याययौ तदा ।

वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ।। 4.39.24 ।।

दरीमुखश्चेति । सुग्रीवं समुपस्थितः प्राप्तः ।। 4.39.24 ।।

मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ ।

कोटिकोटिसहस्रेण वानराणामदृश्यताम् ।। 4.39.25 ।।

गजश्च बलवान् वीरः कोटिभिस्तिसृभिर्वृतः ।

आजगाम महातेजाः सुग्रीवस्य समीपतः ।। 4.39.26 ।।

ऋक्षराजो महातेजा जाम्बवान्नाम नामतः ।

कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः ।। 4.39.27 ।।

मैन्दश्चेति । अदृश्यताम् अदृश्येताम् ।। 4.39.2527 ।।

रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम् ।

आययौ बलवांस्तूर्णं कोटिशतसमावृतः ।। 4.39.28 ।।

ततः कोटिसहस्राणां सहस्रेण शतेन च ।

पृष्ठतो ऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ।। 4.39.29 ।।

ततः पद्मसहस्रेण वृतः शङ्कुशतेन च ।

युवराजो ऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः ।। 4.39.30 ।।

रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरमाययौ ।। 4.39.2830 ।।

ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः ।

पञ्चभिर्हरिकोटिभिर्दूरतः प्रत्यदृश्यत ।। 4.39.31 ।।

इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत ।

एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ।। 4.39.32 ।।

ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः ।

अयुतेनावृतश्चैव सहस्रेण शतेन च ।। 4.39.33 ।।

ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः ।

प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ।। 4.39.34 ।।

तत इति । ताराद्युतिः नक्षत्रतुल्यप्रभः । तारः रुमायाः पितुरन्यो ऽयम् ।। 4.39.3134 ।।

कैलासशिखराकारैर्वानरैर्भीमविक्रमैः ।

वृतः कोटिसहस्रेण हमुमान् प्रत्यदृश्यत ।। 4.39.35 ।।

कैलासेति । कोटिसहस्रेणोपलक्षितैर्वानरैर्वृत इति सम्बन्धः ।। 4.39.35 ।।

नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः ।

कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च ।। 4.39.36 ।।

ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः ।

सम्प्राप्तो ऽभिमतस्तस्य सुग्रीवस्य महात्मनः ।। 4.39.37 ।।

शरभः कुमुदो वह्निर्वानरो रंह एव च ।

एते चान्ये च बहवो वानराः कामरूपिणः ।। 4.39.38 ।।

आवृत्य पृथिवीं सर्वां पर्वातांश्च वनानि च ।

यूथपाः समनुप्राप्तास्तेषां सङ्ख्या न विद्यते ।। 4.39.39 ।।

नल इति । कोटीशतेनेत्याद्युपलक्षणे तृतीया ।। 4.39.3639 ।।

आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः ।। 4.39.40 ।।

आगता इति । पृथिव्यां विशिष्टाश्च अप्राकृताः, देवयोनय इत्यर्थः । सर्ववानराश्च प्राकृतवानराश्च आगता एव ।। 4.39.40 ।।

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।

अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ।। 4.39.41 ।।

आप्लवन्त इति । आप्लवन्तः लङ्घयन्तः । अभ्रगणाः मेघगणाः ।। 4.39.41 ।।

कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः ।

शिरोभिर्वानरेन्द्राय सुग्रीवस्य न्यवेदयन् ।। 4.39.42 ।।

कुर्वाणा इति । न्यवेदयन्, आत्मानमिति शेषः ।। 4.39.42 ।।

अपरे वानरश्रेष्ठाः संयम्य च यथोचितम् ।

सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ।। 4.39.43 ।।

अपर इति । संयम्य वस्त्रादिकं सङ्कुचितं कृत्वा सन्नम्येति च पाठः ।। 4.39.43 ।।

सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान् ।

निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ।। 4.39.44 ।।

यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः ।

निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ।। 4.39.45 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ।। 39 ।।

सुग्रीवः प्राञ्जलिस्त्वरितः सन् सर्वान् रामे निवेदयित्वा स्थितः तानब्रवीच्च । तदेवाह यथेति । भो वानरेन्द्राः पर्वतादिषु स्वानि बलानि यथासुखं निवेशयित्वा बलज्ञो यूथपः स्वं बलं प्रतिपत्तुं ज्ञातुम् ईष्टे ईशो भवेत् । लिङर्थे लट् । यद्वा रामे निवेदयित्वा तदधीनां कृत्वा अब्रवीत् तत्तत्स्वरूपमब्रवीत् । यथेति । वानरेन्द्र इति च पाठः । सुग्रीवः बलं प्रतिपत्तुमीष्टे स्म ।। 4.39.44,45 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ।। 39 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.