श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चत्वारिंशः सर्गः
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः ।
उवाच नरशार्दूलं रामं परबलार्दनम् ।। 4.40.1 ।।
अथ सीतान्वेषणाय पूर्वस्यां दिशि सुग्रीवेण विनतप्रेषणं चत्वारिंशे अथ राजेत्यादि ।। 4.40.1 ।।
आगता विनिविष्टाश्च बलिनः कामरूपिणः ।
वानरा वारणेन्द्राभा ये मद्विषयवासिनः ।। 4.40.2 ।।
त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः ।
आगता वानरा घोरा दैत्यदानवसन्ननिभाः ।। 4.40.3 ।।
आगता इति । मद्विषयवासिनः मदवगतदेशवासिनः । “विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि” इत्यमरः । यद्वा मद्राज्यवासिनः ।। 4.40.2,3 ।।
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः ।
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ।। 4.40.4 ।।
पृथिव्यम्बुचरा राम नानानगनिवासिनः ।
कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः ।। 4.40.5 ।।
ख्यातकर्मापदानाः, कर्म दूरलङ्घनादिक्रिया, अपदानं पूर्ववृत्तं विस्मयनीयशत्रुनिरसनं, ख्याते कर्मापदाने येषां ते तथा । कोट्यग्रश इति बहुसङ्ख्योपलक्षणम् ।। 4.40.4,5 ।।
निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः ।
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ।। 4.40.6 ।।
गुरुहिते स्वामिहिते ।। 4.40.6 ।।
त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः ।
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ।
त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ।। 4.40.7 ।।
त इति । बहुसाहस्रैर्भीभविक्रमैरनीकैः सहिताः । त इम इत्यङ्गुल्या निर्देशः । प्राप्तकालं कालोचितम् ।। 4.40.7 ।।
काममेषामिदं कार्यं विदितं मम तत्त्वतः ।
तथापि तु यथातत्त्वमाज्ञापयितुमर्हसि ।। 4.40.8 ।।
इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ।
बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ।। 4.40.9 ।।
ज्ञायतां मम वैदेही यदि जीवति वा न वा ।
स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ।। 4.40.10 ।।
अभिगम्य तु वैदेहीं निलयं रावणस्य च ।
प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ।। 4.40.11 ।।
नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः ।
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ।। 4.40.12 ।।
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् ।
त्वं हि जानासि यत्कार्यं मम वीर न संशयः ।। 4.40.13 ।।
एषां कार्यम् एभिः कर्तव्यम् । मम विदितं मया विदितम् ।। 4.40.813 ।।
सुहृद् द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् ।
भवानस्मद्धिते युक्तः सुकृतार्थो ऽर्थवित्तमः ।। 4.40.14 ।।
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ।
अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ।। 4.40.15 ।।
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ।। 4.40.16 ।।
सुहृद्विनीय इति च पाठः ।। 4.40.1416 ।।
सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम ।
देशकालनयैर्युक्तः कार्याकार्यविनिश्चये ।। 4.40.17 ।।
वृतः शत सहस्रेण वानराणां तरस्विनाम् ।
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ।। 4.40.18 ।।
तत्र सीतां च वैदेहीं निलयं रावणस्य च ।
मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ।। 4.40.19 ।।
सोमेत्यादि । देशेति । कार्याकार्यविनिश्चये विषये देशकालनयैः देशोचितनीतिभिः कालोचितनीतिभिश्चेत्यर्थः । देशकालानुगुणनयप्रवर्तनं कर्तव्यमित्यर्थः ।। 4.40.1719 ।।
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ।
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ।। 4.40.20 ।।
नदीमित्यादि रजताकरामित्यन्तमेकं वाक्यम् । प्राप्येति शेषः । ततस्ततः सीतां मृगयद्भिर्भवद्भिः भागीरथ्यादिकं प्राप्य सर्वं विचेतव्यमिति सम्बन्धः । अत्रेदमवधेयम् शरावती नाम काचिन्नदी हिमवद्विन्ध्यमध्यदेशे वलयाकारेण प्रवहति । तदपेक्षया प्राचीदिगिदानीं विचेयत्वेनोच्यते, नतु किष्किन्धापेक्षया नापि मेर्वपेक्षयेति । यामुनं महागिरिं यमुनासम्बन्धिनं पर्वतम् ।। 4.40.20 ।।
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ।
महीं कालमहीं चैव शैलकाननशोभिताम् ।। 4.40.21 ।।
ब्रह्ममालान्विदेहांश्च मालवान् काशिकोसलान् ।
मागधांश्च महाग्रामान् पुण्ड्रान्वङ्गांस्तथैव च ।
पत्तनं कोशकाराणां भूमिं च रजताकराम् ।। 4.40.22 ।।
सर्वमेतद्विचेतव्यं मार्गयद्भिस्ततस्ततः ।
रामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ।। 4.40.23 ।।
मह्यादयो । देशविशेषाः, मागधान् मगधदेशान् । महाग्रामान् महाग्रामयुक्तान् । कोशकाराणां राजविशेषाणाम् ।। 4.40.2123 ।।
समुद्रमवगाढांश्च पर्वतान् पत्तनानि च ।
मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ।। 4.40.24 ।।
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ।
घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ।। 4.40.25 ।।
अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः ।
किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ।। 4.40.26 ।।
आममीनाशनास्तत्र किराता द्वीपवासिनः ।
अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ।। 4.40.27 ।।
एतेषामालयाः सर्वे विचेयाः काननौकसः ।। 4.40.28 ।।
समुद्रमित्यादि । समुद्रम् अवगाढान् प्रविष्टान् पर्वतान् मन्दरस्य आयतां कोटिं च संश्रिताः ये कर्णप्रावरणादयः एतेषामालायाः सर्वे विचेया इति सम्बन्धः । काननौकस इति सम्बोधनम् । कर्णप्रावरणाः आच्छादितकर्णाः । निष्कर्णा इत्यर्थः । ओष्ठो कर्णौ येषां ते ओष्ठकर्णकाः । लोहमुखाः लोहतुल्यमुखाः । कर्णेषु चुडा येषां ते कर्णचूडाः । आममीनाशना इति पूर्वोक्तकिराता व्यावर्त्यन्ते । द्वीपवासिनः द्वीपान्तरे ऽपि वसन्तो मन्दरे ऽपि वसन्तीत्यर्थः । नरव्याघ्राः अर्धनररूपा व्याघ्ररूपाश्चेत्यर्थः ।। 4.40.2428 ।।
गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ।
रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ।। 4.40.29 ।।
सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् ।
यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ।। 4.40.30 ।।
दिवं स्पृशति शृङ्गेण देवदानवसेवितः ।
एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च ।
मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ।। 4.40.31 ।।
एवं जम्बूद्वीपान्वेषणं विधाय द्वीपान्तरान्वेषणं विधत्ते गिरिभिरित्यादि रामपत्नीं यशस्विनीमित्यन्तमेकं वाक्यम् । ये द्वीपाः गिरिभिर्गम्यन्ते, प्लवनेन लङ्घनेन च ये गम्यन्ते, प्लवेन उडुपेन ये गम्यन्ते, तान् द्वीपान् सप्तराज्योपशोभितम् सप्तखण्डोपशोभितं यवद्वीपं च गच्छत । तं यवद्वीपमतिक्रम्य यः शिशिरो नाम पर्वतः शृङ्गेण दिवं स्पृशति तं गच्छत । एतेषां द्वीपादीनां गिरिदुर्गेषु वनेषु च प्रपातेषु निर्झरेषु च रामपत्नीं मार्गध्वमिति सम्बन्धः । यवद्वीपसुवर्णरूप्यकावपि लङ्काद्वीपवत् समुद्रन्तर्वर्तिनौ द्वीपविशेषौ ।। 4.40.2931 ।।
ततो रक्तजलं शोणमगाधं शीघ्रगामिनम् ।
गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ।। 4.40.32 ।।
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।। 4.40.33 ।।
एवं जम्बूद्वीपं लवणसमुद्रं चोक्त्वा प्लक्षद्वीपप्रदेशानाह तत इत्यादिना । समुद्रस्य पारं लवणसमुद्रापरपारस्थं रक्तजलं अगाधं शीघ्रंगामिनं सिद्धाचारणसेवितं शोणं शोणाख्यं नदं गत्वा तस्य तीर्थेषु अवतारेषु वनेषु च वैहेह्या सह रावणे मार्गितव्यः । केवलं रावणं केवलं सीतां च दृष्ट्वा नागन्तव्यम्, रावणहननाय सीतानयनाय च उभावपि दृष्ट्वा आगन्तव्यमिति भावः ।।
4.40.32,33 ।।
पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः ।
मार्गितव्या दरीमन्तः पर्वताश्च वनानि च ।। 4.40.34 ।।
प्लक्षद्वीपपर्वतादीनाह पर्वतेति । निष्कुटा उद्यानविशेषाः ।। 4.40.34 ।।
ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ।। 4.40.35 ।।
अथेक्षुसमुद्रद्वीपानाह तत इति ।। 4.40.35 ।।
ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ।। 4.40.36 ।।
इक्षुसमुद्रविशेषं वक्तुमाह ऊर्मिमन्तमित्यर्धम् । ऊर्मिमन्तं समुद्रम्, इक्षुसमुद्रमित्यर्थः । अभिगच्छतेति शेषः । “लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्” इति समुद्रक्रमः ।। 4.40.36 ।।
तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः ।
ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ।। 4.40.37 ।।
इक्षुसमुद्रस्य दुर्गमत्वं दर्शयति तत्रेति । तत्र इक्षुसमुद्रे ।। 4.40.37 ।।
तं कालमेघप्रतिमं महोरगनिषेवितम् ।
अभिगम्य महानादं तीर्थेनैव महोदधिम् ।। 4.40.38 ।।
ततो रक्तजलं भीमं लोहितं नाम सागरम् ।
गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ।। 4.40.39 ।।
गृहं च वैनतेयस्य नानारत्नविभूषितम् ।
तत्र कैलाससङ्काशं विहितं विश्वकर्मणा ।। 4.40.40 ।।
तमिति । तीर्थेनाभिगम्य उपायेनाभिगम्य । “तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने । पात्रोपायावतरणेषु” इति वैजयन्ती । छायाग्राहिपरिहारेण गन्तव्यमित्यर्थः । यद्वा तीर्थेनावतरणेन गन्तव्यं नान्येन । तेन छायाग्राहिपरिहारो भविष्यतीति भावः । ततो गताः इक्षुसमुद्रान्निर्गताः । तां कूटशाल्मलीं लोहितं नाम सागरं मधुसमुद्रं च द्रक्ष्यथ । गृहं चेति । तत्र शाल्मलिद्वीपे ।। 4.40.3840 ।।
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः ।
शैलशृङ्गेषु लम्बन्ते नानारुपा भयावहाः ।। 4.40.41 ।।
ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति ।
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः ।
अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनःपुनः ।। 4.40.42 ।।
तत्र मधुसमुद्रे सूर्यस्योदयनं प्रतीत्यतः परं निहता इत्यर्धम् । ततः परम् अभितप्ताश्चेत्यर्धम् । लम्बन्ते वर्तन्त इत्यर्थः । ब्रह्मतेजोभिः गायत्रीप्रभावैः ।। 4.40.41,42 ।।
ततः पाण्डरमेघाभं क्षीरोदं नाम सागरम् ।
गता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ।। 4.40.43 ।।
तस्य मध्ये महान् श्वेत ऋषभो नाम पर्वतः ।
दिव्यगन्धैः कुसुमितै राजतैश्च नगेर्वृतः ।। 4.40.44 ।।
ततः पाण्डरेति । अत्र मधुसमुद्रानन्तरं सर्पिर्दधिसमुद्रयोः कुशक्रौञ्चद्वीपयोश्च वक्तव्यत्वे ऽपि तान् विहाय क्षीरोदप्राप्त्यभिधानं तदुभयप्राप्तिमन्तरेण क्षीरोदप्राप्तेरसम्भवात् । अतः अनुक्तावपि तावुक्तावेव समुद्रौ द्वीपौ चेति बोध्यम् । यद्वा लवणसमुद्रं तन्मध्यद्वीपांश्चोक्त्वा प्लक्षद्वीपशाल्मलिद्वीपकुशद्वीपक्रौञ्चद्वीपान् इक्षुसुरासर्पिर्दधिसमुद्रांश्च तन्त्रेण दर्शयति “ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ” इति । ततः “ऊर्मिमन्तम्” इत्यादिना इक्षुसमुद्रस्य विशेषणमुक्त्वा “ततो रक्तजलम्” इत्यादिना सुरासमुद्रस्य स्वरूपमुक्त्वा ततः शाल्मलिद्वीपवृत्तान्तं प्रदर्श्य अन्यत्र विशेषाभावात् क्षीरसमुद्रगमनं निर्दिशति ततः पाण्डरमेघाभमित्यादिना । ऊर्मिभिर्मुक्ताहारं मुक्ताहारयुक्तमिव स्थितम् ।। 4.40.43,44 ।।
सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ।
नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ।। 4.40.45 ।।
विबुधाश्चारणा यक्षाः किन्नराः साप्सरोगणाः ।
हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ।। 4.40.46 ।।
सरश्चेति । नाम्ना सुदर्शनं सर इत्यन्वयः ।। 4.40.45,46 ।।
क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः ।
जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ।। 4.40.47 ।।
क्षीरोदमिति । जलोदं शुद्धजलसमुद्रम् ।। 4.40.47 ।।
तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ।
अस्याहुस्तन्महावेगमोदनं सचराचरम् ।। 4.40.48 ।।
तत्र शुद्धोदके कृतं निक्षिप्तं कोपजम् और्वकोपजं हयमुखं तत्प्रसिद्धम् महत्तेजः, वर्तत इति शेषः । अस्य तेजसः । सचराचरं महावेगम्, तत्, जलमिति शेषः । ओदनमाहुः, संहारवेलायामिन्धनमाहुरित्यर्थः ।। 4.40.48 ।।
तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ।
श्रूयते च समर्थानां दृष्ट्वा तद् वडवामुखम् ।। 4.40.49 ।।
तत्रेति । समर्थानामपि वडवामुखं तत्तेजो दृष्ट्वा विक्रोशतां नादः श्रूयते ।। 4.40.49 ।।
स्वादूदस्योत्तरे देशे योजनानि त्रयोदश ।
जातरूपशिलो नाम महान् कनकपर्वतः ।। 4.40.50 ।।
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् ।
पद्मपत्त्रविशालाक्षं ततो द्रक्ष्यथ वानराः ।। 4.40.51 ।।
आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ।। 4.40.52 ।।
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ।
स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ।। 4.40.53 ।।
स्वादूदस्य शुद्धजलसमुद्रस्य । उत्तरे देशे अपरे पारे ।। 4.40.5053 ।।
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ।। 4.40.54 ।।
ततः परं हेममयः श्रीमानुदयपर्वतः ।
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ।। 4.40.55 ।।
जातरूपमयी दिव्या विराजति सवेदिका ।
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ।
जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ।। 4.40.56 ।।
पूर्वस्यामिति । पूर्वस्यां दिशि तन्निर्माणं कृतम् । पूर्वदिगवधित्वेन तालरूपः केतुः कल्पित इत्यर्थः ।। 4.40.5456 ।।
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।
शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ।। 4.40.57 ।।
तत्र उदयपर्वतकोटौ ।। 4.40.57 ।।
तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ।
द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ।। 4.40.58 ।।
तत्र पूर्वमिति । विष्णुः त्रिविक्रमे त्रिविक्रमप्रस्तावे तत्र सौमनसशृङ्गे पूर्वं पदं कृत्वा द्वितीयं पदं मेरोः पश्चिमदिगवधिभूतस्य सावर्णिमेरोः शिखरे चकार । पूर्वपश्चिमदिगवधिभूतयोरुदयाचलसावर्णिमेर्वेर्विष्णोः पदविन्यासः बलेः कृत्स्नराज्यग्रहणार्थः । भूमध्यस्थमेरौ पदविन्यासे कृत्स्नाक्रमणं न लभ्येत । वस्तुतस्तु मेरोरेव शिखरे द्वितीयं पदं न्यस्तम् । मेरुशिखरस्य स्वर्गत्वात् । भूमावेकं स्वर्गे द्वितीयं तृतीयं ब्रह्मलोक इति पौराणिकी गाथा ।। 4.40.58 ।।
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ।
दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ।। 4.40.59 ।।
उत्तरेणेति । दिवाकरः जम्बूद्वीपमुत्तरेण जम्बूद्वीपोत्तरभागे । “एनपा द्वितीया” इति द्वितीया । परिक्रम्य महोच्छ्रयं तत् सौमनसं शिखरं, प्राप्येति शेषः । दृश्यो भवति, मेरोर्दक्षिणपार्श्ववर्तिनां दृश्यो भवतीत्यर्थः ।। 4.40.59 ।।
तत्र वैखानसा नाम वालखिल्या महर्षयः ।
प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ।। 4.40.60 ।।
तत्रेति । वैखानसाः ब्रह्मनखोत्पन्नाः । वालखिल्याः ब्रह्मरोमोत्पन्नाः “ये नखास्ते वैखानसाः ये वालास्ते वालखिलस्याः” इति श्रुतेः ।। 4.40.60 ।।
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।
यस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ।। 4.40.61 ।।
अयम् उदयपर्वतपार्श्वस्थो द्वीपः सुदर्शनो नाम । सुदर्शनसञ्ज्ञा ऽन्वर्थेत्याह यस्येति । यस्य तेजसः पुरः सन्निधौ सर्वप्राणभृतामपि चक्षुः प्रकाशते विषयग्रहणशक्तं भवति तत्तेजः सूर्याख्यं यस्मिन् द्वीपे प्रकाशते अयं द्वीपः सुदर्शनो नामेति योजना ।। 4.40.61 ।।
शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।। 4.40.62 ।।
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ।
आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ।। 4.40.63 ।।
शैलस्येति । शैलस्य उदयशैलस्येत्यर्थः ।। 4.40.62,63 ।।
पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च ।
सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ।। 4.40.64 ।।
पूर्वमिति । हि यस्मादेतदुदयपर्वतः । द्वारशब्दापेक्षया नपुंसकत्वम् । पृथिव्याः भुवनस्य च पूर्वं द्वारं कृतं प्रथमद्वारत्वेन ब्रह्मणा सृष्ट्यादौ कल्पितं सूर्यस्य परितो भ्रमणाय प्रथमम् एतदुदयनं च कृतमुदयस्थानं कल्पितं तस्मादेषा पूर्वा दिगुच्यते ।। 4.40.64 ।।
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।। 4.40.65 ।।
तस्येत्यादि । सम्यगन्वेषणाय पुनरुक्तिः ।। 4.40.65 ।।
ततः परमगम्या स्याद्दिक् पूर्वा त्रिदशावृता ।
रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ।। 4.40.66 ।।
त्रिदशावृता त्रिदशाधिष्ठिता दिक् उदयाचलप्रदेशरूपा ततः परम् उदयाद्रेः परम् अगम्या ।। 4.40.66 ।।
शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च ।
ये च नोक्ता मया देशा विचेया तेषु जानकी ।। 4.40.67 ।।
उपसंहरति शैलेष्विति । ये मया नोक्तास्तेषु शैलादिषु विचेया ।। 4.40.67 ।।
एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ।। 4.40.68 ।।
अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ।। 4.40.69 ।।
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ।
सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ।। 4.40.70 ।।
अमर्यादं ग्रामनगरादिमर्यादारहितम्, केवलान्धकारभूतमित्यर्थः ।। 4.40.6870 ।।
महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः ।
अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ।। 4.40.71 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चत्वारिंशः सर्गः ।। 40 ।।
महेन्द्रेति । महेन्द्रकान्ताम् इन्द्रप्रियाम् । निपुणेन नैपुण्येन ।। 4.40.71 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चत्वारिंशः सर्गः ।। 40 ।।