श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः
अथ प्रस्थाप्य सुग्रीवस्तान् हरीन् दक्षिणां दिशम् ।
अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम् ।। 4.42.1 ।।
अथ पश्चिमदिशि वानरयोजनं द्विचत्वारिंशे अथेत्यादि ।। 4.42.1 ।।
तारायाः पितरं राजा श्वशुरं भीमविक्रमम् ।
अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ।। 4.42.2 ।।
ताराया इति । प्राञ्जलित्वादिकथनार्थमब्रवीदिति अतो न पौनरुक्त्यम् ।। 4.42.2 ।।
मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् ।
वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम् ।। 4.42.3 ।।
बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम् ।
मरीचिपुत्रान् मारीचानर्चिर्मालान्महाबलान् ।। 4.42.4 ।।
ऋषिपुत्रांश्च तान सर्वान् प्रतीचीमादिशद्दिशम् ।
द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ।
सुषेणप्रमुखा यूयं वैदेहीं परिमार्गत ।। 4.42.5 ।।
सुराष्ट्रान् सहबाह्लीकान् शूरान् भीमांस्तथैव च ।
स्फीतान् जनपदान् रम्यान् विपुलानि पुराणि च ।। 4.42.6 ।।
मरीचिपुत्रमिति । मारीचपदमन्वर्थसञ्ज्ञेति द्योतयितुं मरीचिपुत्रमित्युक्तिः । मरीचिपुत्रान् मारीचानित्यत्रापि तथा । मारीचमिति ज्येष्ठ उक्तः । मारीचा इति तदनुजा उच्यन्ते । अर्चिर्मालान् अर्चिष्मतः ।। 4.42.36 ।।
पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम् ।
तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ।। 4.42.7 ।।
प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः ।
तापसानामरण्यानि कान्तारा गिरयश्च ये ।। 4.42.8 ।।
पुन्नागगहनं पुन्नागवनम् । कुक्षिः मध्यदेशविशेषः । उद्दालकाः वृक्षविशेषाः । केतकषण्डान् केतकवनानि । प्रत्यक् स्नोतो गच्छन्तीति प्रत्यक्स्रोतोगमाः । शिवाः पावनाः । कान्ताराः दुर्गममार्गाः । तान् मार्गध्वमिति पुर्वेण सम्बन्धः ।। 4.42.7,8 ।।
ततः स्थलीं मरुप्रायामत्युच्चशिरसः शिलाः ।
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ।। 4.42.9 ।।
ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ ।
तिमिनक्रायुतजलमक्षोभ्यमथ वानराः ।। 4.42.10 ।।
ततः स्थलीमित्यादि श्लोकद्वयमेकान्वयम् । स्थल्यादिकं मार्गित्वा ततः तस्माद्देशात् पश्चिमं समुद्रमागम्य तिमिनक्रायुतजलमक्षोभ्यं तं द्रष्टुमर्हथ ।। 4.42.9,10 ।।
ततः केतकषण्डेषु तमालगहनेषु च ।
कपयो विहरिष्यन्ति नारिकेलवनेषु च ।। 4.42.11 ।।
तत इति । कपयो भवदीयाः ।। 4.42.11 ।।
तत्र सीतां च मार्गध्वं निलयं रावणस्य च ।
वेलातटनिविष्टेषु पर्वतेषु वनेषु च ।। 4.42.12 ।।
तत्रेति । वेलातटनिविष्टेषु वेलायाम् अम्बुविकृतौ तटे च स्थितेषु । “अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि” इत्यमरः ।। 4.42.12 ।।
मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् ।
अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् ।
राष्ट्रापि च विशालानि पत्तनानि ततस्ततः ।। 4.42.13 ।।
मुरचीति । पूर्वस्यां दिश्यवन्त्यन्या । इयं चान्या । यत्र प्रविष्टा वननैरन्तर्येण न लक्ष्यन्ते तदलक्षितं नाम । मार्गध्वमित्यनुषङ्गः ।। 4.42.13 ।।
सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः ।
महान् हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ।। 4.42.14 ।।
तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ।
तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ।। 4.42.15 ।।
सिन्धुर्नदविशेषः । तत्र पश्चिमदिशि । पक्षैर्गच्छन्तीति पक्षगमाः, सपक्षा इति विशेषणम् । नीडानि वृक्षाग्रस्थस्वावासस्थानानि । अत एव महाद्रुम इति पूर्वमुक्तम् ।। 4.42.14,15 ।।
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये ।
दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः ।
विचरन्ति विशाले ऽस्मिन् तोयपूर्णे समन्ततः ।। 4.42.16 ।।
तानीत्याद्यर्धत्रयम् । समन्ततस्तोयपूर्णे ऽस्मिन् स्थले ये गजाः सन्ति गिरिशृङ्गताश्च ये ते गजास्तानि नीडानि विचरन्ति, सिंहनीडाश्रयसानुषु विचरन्तीत्यर्थः । बाधकस्थानगमने हेतुमाह दृप्ता इति ।। 4.42.16 ।।
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ।
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ।। 4.42.17 ।।
तस्येति । कपिभिः, भवद्भिरिति शेषः ।। 4.42.17 ।।
कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम् ।
दुर्दर्शां पारियात्रस्य गतां द्रक्ष्यथ वानराः ।। 4.42.18 ।।
कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम् ।
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् ।। 4.42.19 ।।
तत्र समुद्रे गतां पारियात्रस्य कोटिं शृङ्गम् ।। 4.42.18,19 ।।
पावकार्चिःप्रतीकाशाः समवेताः सहस्रशः ।
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ।। 4.42.20 ।।
नादेयं च फलं तस्माद्देशात् किञ्चित् प्लवङ्गमैः ।
दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ।। 4.42.21 ।।
फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ।
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ।
न हि तेभ्यो भयं किञ्चित् कपित्वमनुवर्तताम् ।। 4.42.22 ।।
पावकार्चिःप्रतीकाशा इत्यादि । नात्यासादयितव्याः नातिसमीपं प्राप्तव्याः । नादेयं न स्वीकार्यम् । तर्हि ते गन्धर्वा अस्मान् हनिष्यन्तीत्यत्राह तत्रेति । यत्नः फलचापविनिवृत्तौ यत्नः कर्तव्यः । विशालत्वादन्वेषणे यत्नो वा । न किञ्चिद्भयम् । कपिसञ्चारस्य वनमात्रधर्मत्वादिति भावः । अनुवर्तताम् अनुवर्तमानानाम् ।। 4.42.2022 ।।
तत्र वैडूर्यवर्णाभो वज्रसंस्थानसंस्थितः ।
नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ।। 4.42.23 ।।
श्रीमान् समुदितस्तत्र योजनानां शतं समम् ।
गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः ।। 4.42.24 ।।
तत्र वैडूर्येत्यादिसार्धश्लोक एकान्वयः । श्रीमानिति । योजनानां शतं समं यथा भवति तथा समुदितः समुन्नतः ।। 4.42.23,24 ।।
चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः ।
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ।। 4.42.25 ।।
चतुर्भागे चतुर्थभागे । समुद्रस्य लवणसमुद्रस्य ।। 4.42.25 ।।
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ।
आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ।। 4.42.26 ।।
तस्य सानुषु चित्रेषु विशालासु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।। 4.42.27 ।।
योजनानां ततः षष्टिर्वराहो नाम पर्वतः ।
सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ।। 4.42.28 ।।
तत्र चक्रवत्पर्वते । पुरुषोत्तमो विष्णुः । “श्रीपतिः पुरुषोत्तमः” इत्यमरः । चक्ररक्षकं हयग्रीवाख्यं दानवं हत्वा चक्रम्, पञ्चजनाख्यं दानवं हत्वा तदस्थिभूतं पाञ्चजन्याख्यं शङ्खं च जग्राह । कृष्णः पञ्चजनं हत्वा पाञ्चजन्यं जग्राहेत्युच्यते । तद्विष्ण्ववतारेप्यस्तीति ज्ञेयम् ।। 4.42.2628 ।।
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् ।
यस्मिन्वसति दुष्टात्मा नरको नाम दानवः ।। 4.42.29 ।।
तत्र सानुषु चित्रेषु विशालासु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।। 4.42.30 ।।
तत्र वराहपर्वते ।। 4.42.29,30 ।।
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः ।
पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः ।। 4.42.31 ।।
तमतिक्रम्य तस्मात्परत इत्यर्थः । काञ्चनान्तरनिर्दरः सौवर्णमयान्तरप्रदेशवत्कन्दरः, अन्तर्बहिश्च सौवर्णकन्दरः इत्यर्थः ।। 4.42.31 ।।
तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः ।
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ।। 4.42.32 ।।
तं गजाश्चेति । तेन शब्देन स्वशब्देन दर्पिता गजादयस्तं पर्वतमभिगर्जन्ति ।। 4.42.32 ।।
यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः ।
अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ।। 4.42.33 ।।
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् ।
षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ।। 4.42.34 ।।
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ।
जातरूपमयैवृक्षैः शोभितानि सुपुष्पितैः ।। 4.42.35 ।।
तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः ।
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ।। 4.42.36 ।।
यस्मिन्निति । हरिहयः श्यामवर्णाश्वयुक्तः । राजा ऽभिषिक्तः राजत्वेनाभिषिक्तः ।। 4.42.3336 ।।
तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः ।
मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः ।। 4.42.37 ।।
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ।
ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ।। 4.42.38 ।।
वरमेवाह तेनैवमिति । प्रभया रक्ता भविष्यन्तीत्यन्वयः ।। 4.42.37,38 ।।
विश्वेदेवाश्च मरुतो वसवश्च दिवौकसः ।
आगम्य पश्चिमां सन्ध्यां मेरुमुत्तरपर्वतम् ।। 4.42.39 ।।
आदिच्यमुपतिष्ठन्ति तैश्च सुर्यो ऽभिपूजितः ।
अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ।। 4.42.40 ।।
योजनानां सहस्राणि दश तानि दिवाकरः ।
मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ।। 4.42.41 ।।
शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसन्निभम् ।
प्रासादगणसम्बाधं विहितं विश्वकर्मणा ।। 4.42.42 ।।
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।
निकेतं पाशहस्तस्य वरुणास्य महात्मनः ।। 4.42.43 ।।
अन्तरा मेरुमस्तं च तालो दशशिरा महान् ।
जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः ।। 4.42.44 ।।
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।। 4.42.45 ।।
यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः ।
मेरुसावर्णिरित्येन ख्यातो वै ब्रह्मणा समः ।। 4.42.46 ।।
प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसन्निभः ।
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ।। 4.42.47 ।।
विश्वेदेवा इति । पश्चिमां सन्ध्याम् “अत्यन्तसंयोगे द्वितीया” । मेरुसदृशत्वान्मेरुम् । मेरुमागम्य आदित्यमुपतिष्ठन्ति पूजयन्ति । मन्त्रकरणाभावात्परस्मैपदम् । अस्तगिरिसमीपस्थसावर्णिमेरोरभिधानात्सर्वे ऽपि समुद्रद्वीपादयो ऽपि मार्गितव्यत्वेनोक्ताः ।। 4.42.3947 ।।
एतावज्जीवलोकस्य भास्करो रजनीक्षये ।
कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ।। 4.42.48 ।।
एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ।। 4.42.49 ।।
अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
अस्तपर्वतमासाद्य पूर्णे मासे निवर्तत ।
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ।। 4.42.50 ।।
एतावदिति । भास्करः रजनीक्षये जीवलोकस्य एतावत् उदयास्ताद्रिमध्यं वितिमिरं कृत्वा अस्तं गच्छतीति योजना ।। 4.42.4850 ।।
सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ।
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ।। 4.42.51 ।।
गुरुरेष महाबाहुः श्वशुरो मे महाबलः ।
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु ।। 4.42.52 ।।
सहैवेति । दिष्टकारिभिः आदिष्टकारिभिः ।। 4.42.51,52 ।।
प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ।
[ भवन्तः परिपश्यन्तु यथा द्दश्येत जानकी । ]
दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः ।
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ।। 4.42.53 ।।
प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशमिति पाठः । प्रमाणं व्यवस्थापकम् । पश्यध्वं पश्यत । आत्मनेपदमार्षम् ।। 4.42.53 ।।
अतो ऽन्यदपि यत्कार्यं कार्यस्यास्य हितं भवेत् ।
सम्प्रधार्यं भवद्भिश्च देशकालार्थसंहितम् ।। 4.42.54 ।।
अतो ऽन्यदिति । अस्य कार्यस्य सीतान्वेषणरूपस्य अन्यदपि यद्धितं भवेत् देशकालार्थसंहितं तत्सम्प्रधार्य भवद्भिः कार्यमित्यन्वयः ।। 4.42.54 ।।
ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीवाक्यं निपुणं निशम्य ।
आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ।। 4.42.55 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ।। 42 ।।
अत्र अष्टपञ्चाशत् श्लोकाः ।। 4.42.55 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ।। 42 ।।