श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः
सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।
समस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये ।
एवमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।। 4.45.1 ।।
अथ प्रेषितानां वानराणां सन्नाह उच्यते पञ्चचत्वारिंशे सर्वांश्चेत्यादि । सर्वानाहूय ततः समस्तान् सङ्घीभूतान् प्लवगान् अब्रवीत् । यद्वा सम इतिच्छेदः । समः सर्वत्र पक्षपातरहितः । एतत्पूर्वोक्तं एवम् अस्मदुक्तप्रकारेण इत्यब्रवीदिति सम्बन्धः ।। 4.45.1 ।।
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः ।
शलभा इव सञ्छाद्य मेदिनीं सम्प्रतस्थिरे ।। 4.45.2 ।।
तदिति । शलभा इति बहुत्वामात्रे दृष्टान्तः ।। 4.45.2 ।।
रामः प्रस्रवणे तस्मिन् न्यवसत्सहलक्ष्मणः ।
प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ।। 4.45.3 ।।
सीताधिगमे सीताधिगमनिमित्तम् । कृतः कृतसङ्केतः ।। 4.45.3 ।।
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ।
प्रतस्थे सहसा वीरो हरिः शतवलिस्तदा ।। 4.45.4 ।।
पूर्वां दिशं प्रति ययौ विनतो हरियूथपः ।
ताराङ्गदादिसहितः प्लवगो मारुतात्मजः ।। 4.45.5 ।।
अगस्त्यचरितामाशां दक्षिणां हरियूपथः ।
पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः ।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ।। 4.45.6 ।।
प्रतस्थे प्रस्थातुमुद्यक्तः । सर्गान्ते सुग्रीवसन्निधौ सन्नाहकथनात् ।। 4.45.46 ।।
ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ।
कपिसेनापतीन् मुख्यान् मुमोद सुखितः सुखम् ।। 4.45.7 ।।
तत इति । मुमोद सुखितः सुखमिति । पूर्वं राज्यलाभेन सुखितो राजा सुखं यथा भवति तथा मुमोद उत्तरोत्तरं सुखं प्रापेत्यर्थः ।। 4.45.7 ।।
एवं सम्बोधिताः सर्वे राज्ञा वानरयूथपाः ।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे ।। 4.45.8 ।।
आनयिष्यामहे सीतां हनिष्यामश्च रावणम् ।
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः ।। 4.45.9 ।।
एवमित्यादि । स्वां स्वां दिशं स्वांशभूमण्डलम् । आनयिष्यामह इत्यत्र इतिकरणं द्रष्टव्यं । आनयिष्यामह इति नदन्त इत्यन्वयः । नदन्तः शब्दं कुर्वन्तः । उन्नदन्तः पुनः सन्तोषातिशयेन उच्चैर्नदन्तः । गर्जन्तः आत्मश्लाघां कुर्वन्तः । क्ष्वेलन्तः सिंहनादं कुर्वन्तः । विनदन्तः विविधान् विकृतान्वा नादान्कुर्वन्तः । सम्प्रतस्थिर इति पूर्वेणान्वयः ।। 4.45.8,9 ।।
अहमेको हनिष्यामि प्राप्तं रावणमाहवे ।
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ।। 4.45.10 ।।
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिह ।
एक एवाहरिष्यामि पातालादपि जानकीम् ।। 4.45.11 ।।
विमथिष्याम्यहं वृक्षान् पातयिष्याम्यहं गिरीन् ।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ।। 4.45.12 ।।
अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः ।
शतं योजनसङ्ख्यायाः शतं समधिकं ह्यहम् ।। 4.45.13 ।।
भूतले सागरे वापि शैलेषु च वनेषु च ।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ।। 4.45.14 ।।
इत्येकैकं तदा तत्र वानरा बलदर्पिताः ।
ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ ।। 4.45.15 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ।। 45 ।।
अहमित्यादि सागरानित्यन्तमेकान्वयम् ।। 4.45.1015 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ।। 45 ।।