श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकपञ्चाशः सर्गः
इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् । त्ित्र त्त्र
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ।। 4.51.1 ।।
अथ स्वयम्प्रभया ऋक्षबिलवृत्तान्तोक्तिरेकपञ्चाशे इत्युक्त्वेत्यादि ।। 4.51.1 ।।
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ।। 4.51.2 ।।
परिखिन्नाः अध्वश्रमखिन्नाः ।। 4.51.2 ।।
महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमास्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ।। 4.51.3 ।।
क्षुत्पिपासा परिश्रान्तत्वेपि पिपासैव प्रवेशहेतुरित्याशयेनोक्तं पिपासिता इति । भावान् पदार्थान् ।। 4.51.3 ।।
दृष्ट्वा वयं प्रव्यथिताः सन्भ्रान्ता नष्टचेतसः ।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ।। 4.51.4 ।।
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ।
काञ्चनानि विमानानि राजतानि गृहाणि च ।। 4.51.5 ।।
प्रव्यथिताः किमिदमसुरादिमायेति सञ्जातव्यथाः । नष्टचेतसः कर्तव्यबुद्धिरहिताः ।। 4.51.4,5 ।।
तपनीयगवाक्षणि मणिजालावृतानि च ।
पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धिनः ।। 4.51.6 ।।
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ।
काञ्चनानि च पद्मानि जातानि विमले जले ।। 4.51.7 ।।
मणिजलावृतानि रत्नमयजालकानि । जालकगवाक्षयोर्भेद उक्तः ।। 4.51.6,7 ।।
कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः ।
आत्मानमनुभावं च कस्य चैतत्तपोबलम् ।। 4.51.8 ।।
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ।
एवमुक्ता हनुमता तापसी धर्मचारिणी ।
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ।। 4.51.9 ।।
आत्मानं त्वाम् । अनुभावं प्रभावम् । कस्य चैतत्तपोबलं, तच्चेत्यर्थः ।। 4.51.8,9 ।।
मयो नाम महातेजा मायावी दानवर्षभः ।
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ।। 4.51.10 ।।
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ।
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ।। 4.51.11 ।।
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।
पितामहाद्वरं लेभे सर्वमौशनसं धनम् ।। 4.51.12 ।।
वनं विधाय बलवान् सर्वकामेश्वरस्तदा ।
उवास सुखितः कालं कञ्चिदस्मिन् महावने ।। 4.51.13 ।।
मयो नाम त्रिपुराधिपतिः त्रिपुरे नष्टे स्वरक्षणार्थमिदं बिलं कृतवानिति मात्स्यपुराणे त्रिपुरदहनप्रस्तावे ऽभिहितम् । मायया विचित्रशक्या । मायावी मायायुक्तः । दानवर्षभ इत्यनेन नायमसुरतक्षा मय इति सूचितम् ।। 4.51.1013 ।।
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ।
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः ।। 4.51.14 ।।
तम् स्वपुत्रीं मन्दोदरीं रावणाय दत्तवन्तम् एकान्ते हेमायां सक्तं विदित्वा ईशः त्रैलोक्याधिपतिः अशनिं वज्रं गृहीत्वा जघान ।। 4.51.14 ।।
इदं च ब्रह्माणा दत्तं हेमायै वनमुत्तमम् ।
शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम् ।। 4.51.15 ।।
दुहिता मेरुसावर्णेरहं तस्याः स्वयम्प्रभा ।
इदं रक्षामि भवनं हेमाया वानरोत्तम ।। 4.51.16 ।।
इदं चेति । मयनाशानन्तरम् इदं वनं ब्रह्मणा हेमायै दत्तम् ।। 4.51.15,16 ।।
मम प्रियसखी हेमा नृत्तगीतविशारदा ।
तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ।। 4.51.17 ।।
ममेति । सेदानीं ब्रह्मसदनं गतेत्याशयेनाह नृत्तेति ।। 4.51.17 ।।
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ ।
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ।। 4.51.18 ।।
किं कर्यं किं प्रयोजनम् । कस्य हेतोः कस्मात् प्रयोजनात् ।। 4.51.18 ।।
इमान्यभ्यवहार्याणि मूलानि च फलानि च ।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ।। 4.51.19 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ।। 51 ।।
अस्मिन् सर्गे सार्धैकोनविंशतिश्लोकाः ।। 4.51.19 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकपञ्चाशः सर्गः ।। 51 ।।