[highlight_content]

52 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विपञ्ाशः सर्गः

अथ तानब्रवीत्सर्वान् विक्रान्तात् हरिपुङ्गवान् ।

इदं वनमेकाग्रा तापसी धर्मारिणी ।। 4.52.1 ।।

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् ।

यदि ैतन्मया श्राव्यं श्रोतुमि्छामि कथ्यताम् ।। 4.52.2 ।।

अथ हनुमता स्वागमनहेतुरु्यते द्विपञ्ाशे अथेत्यादि ।। 4.52.1,2 ।।

तस्यास्तद्वनं श्रुत्वा हनुमान् मारुतात्मजः ।

आर्जवेन यथातत्त्वमाख्यातुमुपक्रमे ।। 4.52.3 ।।

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।। 4.52.4 ।।

लक्ष्मणेन सह भ्रात्रा वैदेह्या ापि भार्यया ।

तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ।। 4.52.5 ।।

आर्जवेन अकपटेन ।। 4.52.35 ।।

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।

राजा वानरमुख्यानां येन प्रस्थापिता वयम् ।। 4.52.6 ।।

अगस्त्यरितामाशां दक्षिणां यमरक्षिताम् ।

सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम् ।। 4.52.7 ।।

रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ।

सीतया सह वैदेह्या मार्गध्वमिति ोदिताः ।। 4.52.8 ।।

विित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ।

बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ।। 4.52.9 ।।

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः ।

नाधिग्छामहे पारं मग्नाश्िन्तामहार्णवे ।। 4.52.10 ।।

ारयन्तस्ततश्क्षुर्दृष्टवन्तो वयं बिलम् ।

लतापादपसञ्छन्नं तिमिरेण समावृतम् ।। 4.52.11 ।।

अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविस्रवैः ।

कुरराः सारसाश्ैव निष्पतन्ति पतत्ित्रणः ।

साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ।। 4.52.12 ।।

वीर इति । दक्षिणामाशां येन प्रस्थापिताः स राजा ऽस्तीति पूर्वेणान्वयः ।। 4.52.612 ।।

तेषामपि हि सर्वेषामनुमानमुपागतम् ।

्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ।। 4.52.13 ।।

ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ।

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।। 4.52.14 ।।

अनुमानमुपागतं जलरसत्त्वदर्शनेन जलबुद्धिर्जातेत्यर्थः । यद्वा तेषामपीति भर्तृकार्यत्वरान्विताः सन्तो ग्छामः, बिलद्वारमिति शेषः । बिलं प्रविशाम इति अनुमानम् अङ्गीकरणम् ।। 4.52.13,14 ।।

एतन्नः कार्यमेतेन कृत्येन वयमागताः ।

त्वां ैवोपगताः सर्वे परिद्यूना बुभुक्षिताः ।। 4.52.15 ।।

आतिथ्यधर्मदत्तानि मूलानि फलानि

अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः ।। 4.52.16 ।।

यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ।

ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ।। 4.52.17 ।।

एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा ।

प्रत्युवा ततः सर्वानिदं वानरयूथापान् ।। 4.52.18 ।।

परिद्यूनाः परिक्षीणाः ।। 4.52.1518 ।।

सर्वेषां परितुष्टा ऽस्मि वानराणां तरस्विनाम् ।

रन्त्या मम धर्मेण न कार्यमिह केनित् ।। 4.52.19 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विपञ्ाशः सर्गः ।। 52 ।।

सर्वेषामिति । सम्बन्धसामान्ये षष्ठी ।। 4.52.19 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विपञ्ाशः सर्गः ।। 52 ।।

Languages

Related Parts

error: Content is protected !!