श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ।
उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम् ।। 4.53.1 ।।
अथ बिलादुत्तीर्णानां वानराणां निर्वेदः त्रिपञ्चाशे एवमुक्त इत्यादि ।। 4.53.1 ।।
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि ।
यः कृतः समयो ऽस्माकं सुग्रीवेण महात्मना ।। 4.53.2 ।।
स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम् ।
सा त्वमस्माद्विलाद् घोरादुत्तारयितुमर्हसि ।। 4.53.3 ।।
तस्मात्सुग्रीववचनादतिक्रान्तान् गतायुषः ।
त्रातुमर्हसि नः सर्वान् सुग्रीवभयकर्शितान् ।। 4.53.4 ।।
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ।
तच्चापि न कृतं कार्यमस्माभिरिहवासिभिः ।। 4.53.5 ।।
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ।। 4.53.6 ।।
तपसस्तु प्रभावेन नियमोपार्जितेन च ।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ।। 4.53.7 ।।
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ।
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ।। 4.53.8 ।।
ततः सम्मीलिताः सर्वे सुकुमाराङ्गुलैः करैः ।
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया ।। 4.53.9 ।।
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ।
निमेषान्तरमात्रेण बिलादुत्तारितास्तया ।। 4.53.10 ।।
शरणमित्यादि । बिले च परिवर्तताम् इत्यनेन बहुकालं वानरैर्बिले स्थितमिति गम्यते ।। 4.53.210 ।।
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी ।
निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत् ।। 4.53.11 ।।
एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलताकुलः ।
एष प्रस्रवणः शैलः सागरो ऽयं महोदधिः ।। 4.53.12 ।।
स्वस्ति वो ऽस्तु गमिष्यामि भवनं वानरर्षभाः ।
इत्युक्त्वा तद्बिलं श्रीमत् प्रविवेश स्वयम्प्रभा ।। 4.53.13 ।।
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।
अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम् ।। 4.53.14 ।।
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् ।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ।। 4.53.15 ।।
तत इति । विषमात् सङ्कटप्रदेशात् ।। 4.53.1115 ।।
विन्ध्यस्यतु गिरेः पादे सम्प्रपुष्पितपादपे ।
उपविश्य महात्मानश्चिन्तामापेदिरे तदा ।। 4.53.16 ।।
पादे दक्षिणपार्श्वे, दक्षिणपश्चिमकोटावित्यर्थः । “हिमवद्विन्द्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा” इति भेषजकल्पोक्तिः ।। 4.53.16 ।।
ततः पुष्पातिभाराग्रान् लताशतसमावृतान् ।
द्रुमान् वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ।। 4.53.17 ।।
पुष्पातिभाराग्रान् पुष्पैरतिभाराणि अग्राणि येषां तान् । वासन्तिकान् वसन्तफलिनश्चूतदीन् । ये वसन्ते फलन्ति ते शिशिरे पुष्प्यन्ति । भयशङ्किताः सुग्रीवाद्भयविषयशङ्कावन्तः ।। 4.53.17 ।।
ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम् ।
नष्टसन्देशकालार्था निपेतुर्धरणीतले ।। 4.53.18 ।।
ततस्तान्कपिवृद्धांस्तु शिष्टां श्चैव वनौकसः ।
वाचा मधुरया ऽ ऽभाष्य यथावदनुमान्य च ।। 4.53.19 ।।
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ।
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ।। 4.53.20 ।।
त इति । वसन्तम् अनुप्राप्तं प्रत्यासन्नम् । तदानीं हि शिरिरः । तथाहि शरत्कालान्ते मार्गशीर्षे मासि सेनां सन्निधाप्य पौषमासमवधिं कृत्वा प्रस्थापितवान् । स पौषो माघश्चातीतः । फाल्गुन एव प्रवृत्त इति । तेन वसन्तः प्रत्यासन्न एव, न प्राप्तः ।। 4.53.1820 ।।
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ।
मासः पूर्णो बिलस्थानां हरयः किन्न बुध्यते ।। 4.53.21 ।।
वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः ।
प्रस्थिताः सो ऽपि चातीतः किमतः कार्यमुत्तरम् ।। 4.53.22 ।।
शासनादित्यादि । वयमाश्वयुजे मासीति कालसङ्ख्याव्यवस्थिताः कालसङ्ख्यया नियमिताः । वयम् आश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण पञ्चदशरात्रसङ्ख्यया नियम्य समाहूताः । ततो मार्गशीर्षे लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः । ततः सीतान्वेषणे पौषमासमवधिं कृत्वा तेन प्रेषिताः । एवमाश्वयुजमासमारभ्य कालसङ्ख्याव्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । अन्ये तु आश्वयुजे मासि दशम्यामुत्थितायामितिवत्सामीपिकाधिकरणविवक्षया सप्तमी । तेन “कार्तीके समनुप्राप्ते त्वं रावणवधथे यत” इत्युक्तकालातिक्रमणप्रयुक्तरामकोपदर्शनात् कार्त्तिकान्तो विवक्षितः । सो ऽपि चातीतः स मार्गणावधिभूतमार्गशीर्षमासः । अपिचेत्याभ्यां पदाभ्यां तदनन्तरभूतौ पौषमाघौ समुच्चीयेते । अतश्च फाल्गुन एव प्राप्त इति भाव इत्याहुः । अत उत्तरं किं कार्यम् ।। 4.53.21,22 ।।
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः ।
हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु ।। 4.53.23 ।।
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः ।
मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ।। 4.53.24 ।।
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः ।
हरिराजस्य सन्देशमकृत्वा कः सुखी भवेत् ।। 4.53.25 ।।
प्रत्ययं विश्वासम् । नीतिमार्गे विशारदाः प्रगल्भाः । निसृष्टाः दक्षा इति यावत् ।। 4.53.2325 ।।
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ।। 4.53.26 ।।
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ।
न क्षमिष्यति नः सर्वानपराधकृतो गतान् ।। 4.53.27 ।।
तस्मिन्निति । प्रायाय अन्तगमनाय उपवेशनं शयनं प्रायोपवेशनम् ।। 4.53.26,27 ।।
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।
तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ।। 4.53.28 ।।
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।
ध्रुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः ।
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः ।। 4.53.29 ।।
अप्रवृत्तौ अवार्तायाम् । प्रायोपविशनमिति गुणाभाव आर्षः ।। 4.53.28,29 ।।
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ।
नरेन्द्रेणाभिषिक्तो ऽस्मि रामेणाक्लिष्टकर्मणा ।। 4.53.30 ।।
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ।
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ।। 4.53.31 ।।
त्वां यौवराज्ये कृतवान् सुग्रीवः कथं हिंस्यादित्यत्राह न चाहमिति ।। 4.53.30,31 ।।
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ।
इहैव प्रायमासिष्ये पुण्ये सागररोधसि ।। 4.53.32 ।।
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ।। 4.53.33 ।।
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ।
अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान् ।। 4.53.34 ।।
राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ।
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ।। 4.53.35 ।।
मे जीवितान्तरे जीवितावधौ व्यसनं पश्यद्भिः सुहृद्भिः किम्? सुहृहो मद्व्यसनप्रदर्शनेन क्लेशयित्वा मम किं प्रयोजनमित्यर्थः ।। 4.53.3235 ।।
इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा ।
नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ।। 4.53.36 ।।
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ।। 4.53.37 ।।
इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् ।
इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतो ऽपि वा ।। 4.53.38 ।।
इहैवेति । सीतामन्विष्य तस्याः प्रवृतिं वृत्तान्तमुपलभ्य वीरं तं गच्छाम नोचेदिहैव यमक्षयं यमगृहं गमिष्यामः ।। 4.53.3638 ।।
श्रुत्वा ऽङ्गदस्यापि वचो ऽनुकूलमूचुश्च सर्वे५ हरयः प्रतीताः ।
यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः ।। 4.53.39 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ।। 53 ।।
श्रुत्वेति । अङ्गदस्याप्यनुकूलं तारस्य वचनं श्रुत्वेत्यन्वयः । विधानं कार्यम् । कर्मणि ल्युट् । असक्तम् अविलम्बम् । अस्मिन् सर्गे सार्धैकोनचत्वारिंशच्छ्लोकाः ।। 4.53.39 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ।। 53 ।।